| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥१॥
ततस् सर्वाः प्रकृतयः नगरात् वारणावतात् । सर्व-मङ्गल-संयुक्ताः यथाशास्त्रम् अतन्द्रिताः ॥१॥
tatas sarvāḥ prakṛtayaḥ nagarāt vāraṇāvatāt . sarva-maṅgala-saṃyuktāḥ yathāśāstram atandritāḥ ..1..
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥२॥
श्रुत्वा आगतान् पाण्डु-पुत्रान् नाना यानैः सहस्रशस् । अभिजग्मुः नर-श्रेष्ठान् श्रुत्वा एव परया मुदा ॥२॥
śrutvā āgatān pāṇḍu-putrān nānā yānaiḥ sahasraśas . abhijagmuḥ nara-śreṣṭhān śrutvā eva parayā mudā ..2..
ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥३॥
ते समासाद्य कौन्तेयान् वारणावतकाः जनाः । कृत्वा जय-आशिषः सर्वे परिवार्य उपतस्थिरे ॥३॥
te samāsādya kaunteyān vāraṇāvatakāḥ janāḥ . kṛtvā jaya-āśiṣaḥ sarve parivārya upatasthire ..3..
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥४॥
तैः वृतः पुरुष-व्याघ्रः धर्मराजः युधिष्ठिरः । विबभौ देव-सङ्काशः वज्रपाणिः इव अमरैः ॥४॥
taiḥ vṛtaḥ puruṣa-vyāghraḥ dharmarājaḥ yudhiṣṭhiraḥ . vibabhau deva-saṅkāśaḥ vajrapāṇiḥ iva amaraiḥ ..4..
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥५॥
सत्कृताः ते तु पौरैः च पौरान् सत्कृत्य च अनघाः । अलङ्कृतम् जन-आकीर्णम् विविशुः वारणावतम् ॥५॥
satkṛtāḥ te tu pauraiḥ ca paurān satkṛtya ca anaghāḥ . alaṅkṛtam jana-ākīrṇam viviśuḥ vāraṇāvatam ..5..
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥६॥
ते प्रविश्य पुरम् वीराः तूर्णम् जग्मुः अथो गृहान् । ब्राह्मणानाम् महीपाल रतानाम् स्वेषु कर्मसु ॥६॥
te praviśya puram vīrāḥ tūrṇam jagmuḥ atho gṛhān . brāhmaṇānām mahīpāla ratānām sveṣu karmasu ..6..
नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥७॥
नगर-अधिकृतानाम् च गृहाणि रथिनाम् तथा । उपतस्थुः नर-श्रेष्ठाः वैश्य-शूद्र-गृहान् अपि ॥७॥
nagara-adhikṛtānām ca gṛhāṇi rathinām tathā . upatasthuḥ nara-śreṣṭhāḥ vaiśya-śūdra-gṛhān api ..7..
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥८॥
अर्चिताः च नरैः पौरैः पाण्डवाः भरत-ऋषभाः । जग्मुः आवसथम् पश्चात् पुरोचन-पुरस्कृताः ॥८॥
arcitāḥ ca naraiḥ pauraiḥ pāṇḍavāḥ bharata-ṛṣabhāḥ . jagmuḥ āvasatham paścāt purocana-puraskṛtāḥ ..8..
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥९॥
तेभ्यः भक्ष्य-अन्न-पानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥९॥
tebhyaḥ bhakṣya-anna-pānāni śayanāni śubhāni ca . āsanāni ca mukhyāni pradadau sa purocanaḥ ..9..
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥१०॥
तत्र ते सत्कृताः तेन सु महार्ह-परिच्छदाः । उपास्यमानाः पुरुषैः ऊषुः पुर-निवासिभिः ॥१०॥
tatra te satkṛtāḥ tena su mahārha-paricchadāḥ . upāsyamānāḥ puruṣaiḥ ūṣuḥ pura-nivāsibhiḥ ..10..
दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥११॥
दश-रात्र-उषितानाम् तु तत्र तेषाम् पुरोचनः । निवेदयामास गृहम् शिव-आख्यम् अशिवम् तदा ॥११॥
daśa-rātra-uṣitānām tu tatra teṣām purocanaḥ . nivedayāmāsa gṛham śiva-ākhyam aśivam tadā ..11..
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥१२॥
तत्र ते पुरुष-व्याघ्राः विविशुः स परिच्छदाः । पुरोचनस्य वचनात् कैलासम् इव गुह्यकाः ॥१२॥
tatra te puruṣa-vyāghrāḥ viviśuḥ sa paricchadāḥ . purocanasya vacanāt kailāsam iva guhyakāḥ ..12..
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥१३॥ ( जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥१३॥ )
तत्त्व-गारम् अभिप्रेक्ष्य सर्व-धर्म-विशारदः । उवाच आग्नेयम् इति एवम् भीमसेनम् युधिष्ठिरः ॥१३॥ ( जिघ्रन् सोम्य वसा-गन्धम् सर्पिः-जतु-विमिश्रितम् ॥१३॥ )
tattva-gāram abhiprekṣya sarva-dharma-viśāradaḥ . uvāca āgneyam iti evam bhīmasenam yudhiṣṭhiraḥ ..13.. ( jighran somya vasā-gandham sarpiḥ-jatu-vimiśritam ..13.. )
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ॥१४॥ ( मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥१४॥ )
कृतम् हि व्यक्तम् आग्नेयम् इदम् वेश्म परन्तप । शण-सर्जरसम् व्यक्तम् आनीतम् गृहकर्मणि ॥१४॥ ( मुञ्ज-बल्वज-वंश-आदि द्रव्यम् सर्वम् घृत-उक्षितम् ॥१४॥ )
kṛtam hi vyaktam āgneyam idam veśma parantapa . śaṇa-sarjarasam vyaktam ānītam gṛhakarmaṇi ..14.. ( muñja-balvaja-vaṃśa-ādi dravyam sarvam ghṛta-ukṣitam ..14.. )
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥१५॥
शिल्पिभिः सुकृतम् हि आप्तैः विनीतैः वेश्म-कर्मणि । विश्वस्तम् माम् अयम् पापः दग्धु-कामः पुरोचनः ॥१५॥
śilpibhiḥ sukṛtam hi āptaiḥ vinītaiḥ veśma-karmaṇi . viśvastam mām ayam pāpaḥ dagdhu-kāmaḥ purocanaḥ ..15..
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ॥१६॥
इमाम् तु ताम् महा-बुद्धिः विदुरः दृष्टवान् तदा । आपदम् तेन माम् पार्थ स सम्बोधितवान् पुरा ॥१६॥
imām tu tām mahā-buddhiḥ viduraḥ dṛṣṭavān tadā . āpadam tena mām pārtha sa sambodhitavān purā ..16..
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥१७॥
ते वयम् बोधिताः तेन बुद्धवन्तः अशिवम् गृहम् । आचार्यैः सुकृतम् गूढैः दुर्योधन-वश-अनुगैः ॥१७॥
te vayam bodhitāḥ tena buddhavantaḥ aśivam gṛham . ācāryaiḥ sukṛtam gūḍhaiḥ duryodhana-vaśa-anugaiḥ ..17..
भीम उवाच॥
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥१८॥
यत् इदम् गृहम् आग्नेयम् विहितम् मन्यते भवान् । तत्र एव साधु गच्छामः यत्र पूर्व-उषिताः वयम् ॥१८॥
yat idam gṛham āgneyam vihitam manyate bhavān . tatra eva sādhu gacchāmaḥ yatra pūrva-uṣitāḥ vayam ..18..
युधिष्ठिर उवाच॥
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥१९॥
इह यत् तैः निराकारैः वस्तव्यम् इति रोचये । नष्टैः इव विचिन्वद्भिः गतिम् इष्टाम् ध्रुवाम् इतस् ॥१९॥
iha yat taiḥ nirākāraiḥ vastavyam iti rocaye . naṣṭaiḥ iva vicinvadbhiḥ gatim iṣṭām dhruvām itas ..19..
यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥२०॥
यदि विन्देत च आकारम् अस्माकम् हि पुरोचनः । शीघ्रकारी ततस् भूत्वा प्रसह्य अपि दहेत नः ॥२०॥
yadi vindeta ca ākāram asmākam hi purocanaḥ . śīghrakārī tatas bhūtvā prasahya api daheta naḥ ..20..
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥२१॥
न अयम् बिभेति उपक्रोशात् अधर्मात् वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधन-मते स्थितः ॥२१॥
na ayam bibheti upakrośāt adharmāt vā purocanaḥ . tathā hi vartate mandaḥ suyodhana-mate sthitaḥ ..21..
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ॥२२॥ ( धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ॥२२॥ )
अपि च इह प्रदग्धेषु भीष्मः अस्मासु पितामहः । कोपम् कुर्यात् किमर्थम् वा कौरवान् कोपयेत सः ॥२२॥ ( धर्मः इति एव कुप्येत तथा अन्ये कुरु-पुङ्गवाः ॥२२॥ )
api ca iha pradagdheṣu bhīṣmaḥ asmāsu pitāmahaḥ . kopam kuryāt kimartham vā kauravān kopayeta saḥ ..22.. ( dharmaḥ iti eva kupyeta tathā anye kuru-puṅgavāḥ ..22.. )
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥२३॥
वयम् तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैः नः घातयेत् सार्वान् राज्य-लुब्धः सुयोधनः ॥२३॥
vayam tu yadi dāhasya bibhyataḥ pradravema hi . spaśaiḥ naḥ ghātayet sārvān rājya-lubdhaḥ suyodhanaḥ ..23..
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥२४॥
अ पद-स्थान् पदे तिष्ठन् अपक्षान् पक्ष-संस्थितः । हीन-कोशात् महा-कोशः प्रयोगैः घातयेत् ध्रुवम् ॥२४॥
a pada-sthān pade tiṣṭhan apakṣān pakṣa-saṃsthitaḥ . hīna-kośāt mahā-kośaḥ prayogaiḥ ghātayet dhruvam ..24..
तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥२५॥
तत् अस्माभिः इमम् पापम् तम् च पापम् सुयोधनम् । वञ्चयद्भिः निवस्तव्यम् छन्न-वासम् क्वचिद् क्वचिद् ॥२५॥
tat asmābhiḥ imam pāpam tam ca pāpam suyodhanam . vañcayadbhiḥ nivastavyam channa-vāsam kvacid kvacid ..25..
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥२६॥
ते वयम् मृगया-शीलाः चराम वसुधाम् इमाम् । तथा नः विदिताः मार्गाः भविष्यन्ति पलायताम् ॥२६॥
te vayam mṛgayā-śīlāḥ carāma vasudhām imām . tathā naḥ viditāḥ mārgāḥ bhaviṣyanti palāyatām ..26..
भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥२७॥
भौमम् च बिलम् अद्य एव करवाम सु संवृतम् । गूढ-उच्छ्वसान् न नः तत्र हुताशः सम्प्रधक्ष्यति ॥२७॥
bhaumam ca bilam adya eva karavāma su saṃvṛtam . gūḍha-ucchvasān na naḥ tatra hutāśaḥ sampradhakṣyati ..27..
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥२८॥1.145.31
वसतः अत्र यथा च अस्मान् न बुध्येत पुरोचनः । पौरः वा अपि जनः कश्चिद् तथा कार्यम् अतन्द्रितैः ॥२८॥१।१४५।३१
vasataḥ atra yathā ca asmān na budhyeta purocanaḥ . pauraḥ vā api janaḥ kaścid tathā kāryam atandritaiḥ ..28..1.145.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In