| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥१॥
विदुरस्य सुहृद् कश्चिद् खनकः कुशलः क्वचिद् । विविक्ते पाण्डवान् राजन् इदम् वचनम् अब्रवीत् ॥१॥
vidurasya suhṛd kaścid khanakaḥ kuśalaḥ kvacid . vivikte pāṇḍavān rājan idam vacanam abravīt ..1..
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥२॥
प्रहितः विदुरेण अस्मि खनकः कुशलः भृशम् । पाण्डवानाम् प्रियम् कार्यम् इति किम् करवाणि वः ॥२॥
prahitaḥ vidureṇa asmi khanakaḥ kuśalaḥ bhṛśam . pāṇḍavānām priyam kāryam iti kim karavāṇi vaḥ ..2..
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् । प्रतिपादय विश्वासादिति किं करवाणि वः ॥३॥
प्रच्छन्नम् विदुरेण उक्तः श्रेयः-त्वम् इह पाण्डवान् । प्रतिपादय विश्वासात् इति किम् करवाणि वः ॥३॥
pracchannam vidureṇa uktaḥ śreyaḥ-tvam iha pāṇḍavān . pratipādaya viśvāsāt iti kim karavāṇi vaḥ ..3..
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥४॥
कृष्ण-पक्षे चतुर्दश्याम् रात्रौ अस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥४॥
kṛṣṇa-pakṣe caturdaśyām rātrau asya purocanaḥ . bhavanasya tava dvāri pradāsyati hutāśanam ..4..
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥५॥
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुष-ऋषभाः । इति व्यवसितम् पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥५॥
mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣa-ṛṣabhāḥ . iti vyavasitam pārtha dhārtarāṣṭrasya me śrutam ..5..
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥६॥
किञ्चिद् च विदुरेण उक्तः म्लेच्छ-वाचा असि पाण्डव । त्वया च तत् तथा इति उक्तम् एतत् विश्वास-कारणम् ॥६॥
kiñcid ca vidureṇa uktaḥ mleccha-vācā asi pāṇḍava . tvayā ca tat tathā iti uktam etat viśvāsa-kāraṇam ..6..
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥७॥
उवाच तम् सत्य-धृतिः कुन्ती-पुत्रः युधिष्ठिरः । अभिजानामि सौम्य त्वाम् सुहृदम् विदुरस्य वै ॥७॥
uvāca tam satya-dhṛtiḥ kuntī-putraḥ yudhiṣṭhiraḥ . abhijānāmi saumya tvām suhṛdam vidurasya vai ..7..
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ॥८॥
शुचिम् आप्तम् प्रियम् च एव सदा च दृढ-भक्तिकम् । न विद्यते कवेः किञ्चिद् अभिज्ञान-प्रयोजनम् ॥८॥
śucim āptam priyam ca eva sadā ca dṛḍha-bhaktikam . na vidyate kaveḥ kiñcid abhijñāna-prayojanam ..8..
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥९॥
यथा नः स तथा नः त्वम् निर्विशेषाः वयम् त्वयि । भवतः स्म यथा तस्य पालय अस्मान् यथा कविः ॥९॥
yathā naḥ sa tathā naḥ tvam nirviśeṣāḥ vayam tvayi . bhavataḥ sma yathā tasya pālaya asmān yathā kaviḥ ..9..
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥१०॥
इदम् शरणम् आग्नेयम् मद्-अर्थम् इति मे मतिः । पुरोचनेन विहितम् धार्तराष्ट्रस्य शासनात् ॥१०॥
idam śaraṇam āgneyam mad-artham iti me matiḥ . purocanena vihitam dhārtarāṣṭrasya śāsanāt ..10..
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥११॥
स पापः कोशवान् च एव स सहायः च दुर्मतिः । अस्मान् अपि च दुष्ट-आत्मा नित्यकालम् प्रबाधते ॥११॥
sa pāpaḥ kośavān ca eva sa sahāyaḥ ca durmatiḥ . asmān api ca duṣṭa-ātmā nityakālam prabādhate ..11..
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥१२॥
स भवान् मोक्षयतु अस्मान् यत्नेन अस्मात् हुताशनात् । अस्मासु इह हि दग्धेषु स कामः स्यात् सुयोधनः ॥१२॥
sa bhavān mokṣayatu asmān yatnena asmāt hutāśanāt . asmāsu iha hi dagdheṣu sa kāmaḥ syāt suyodhanaḥ ..12..
समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥१३॥
समृद्धम् आयुधागारम् इदम् तस्य दुरात्मनः । वप्र-अन्ते निष्प्रतीकारम् आश्लिष्य इदम् कृतम् महत् ॥१३॥
samṛddham āyudhāgāram idam tasya durātmanaḥ . vapra-ante niṣpratīkāram āśliṣya idam kṛtam mahat ..13..
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥१४॥
इदम् तत् अशुभम् नूनम् तस्य कर्म चिकीर्षितम् । प्राक् एव विदुरः वेद तेन अस्मान् अन्वबोधयत् ॥१४॥
idam tat aśubham nūnam tasya karma cikīrṣitam . prāk eva viduraḥ veda tena asmān anvabodhayat ..14..
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥१५॥
सा इयम् आपद् अनुप्राप्ता क्षत्ता याम् दृष्टवान् पुरा । पुरोचनस्य अ विदितान् अस्मान् त्वम् विप्रमोचय ॥१५॥
sā iyam āpad anuprāptā kṣattā yām dṛṣṭavān purā . purocanasya a viditān asmān tvam vipramocaya ..15..
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥१६॥
स तथा इति प्रतिश्रुत्य खनकः यत्नम् आस्थितः । परिखाम् उत्किरत् नाम चकार सु महत् बिलम् ॥१६॥
sa tathā iti pratiśrutya khanakaḥ yatnam āsthitaḥ . parikhām utkirat nāma cakāra su mahat bilam ..16..
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥१७॥
चक्रे च वेश्मनः तस्य मध्ये न अति महत् मुखम् । कपाट-युक्तम् अज्ञातम् समम् भूम्या च भारत ॥१७॥
cakre ca veśmanaḥ tasya madhye na ati mahat mukham . kapāṭa-yuktam ajñātam samam bhūmyā ca bhārata ..17..
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥१८॥
पुरोचन-भयात् च एव व्यदधात् संवृतम् मुखम् । स तत्र च गृह-द्वारि वसति अशुभ-धीः सदा ॥१८॥
purocana-bhayāt ca eva vyadadhāt saṃvṛtam mukham . sa tatra ca gṛha-dvāri vasati aśubha-dhīḥ sadā ..18..
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥१९॥
तत्र ते स आयुधाः सर्वे वसन्ति स्म क्षपाम् नृप । दिवा चरन्ति मृगयाम् पाण्डवेयाः वनात् वनम् ॥१९॥
tatra te sa āyudhāḥ sarve vasanti sma kṣapām nṛpa . divā caranti mṛgayām pāṇḍaveyāḥ vanāt vanam ..19..
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥२०॥
विश्वस्त-वत् अविश्वस्ताः वञ्चयन्तः पुरोचनम् । अतुष्टाः तुष्ट-वत् राजन् ऊषुः परम-दुःखिताः ॥२०॥
viśvasta-vat aviśvastāḥ vañcayantaḥ purocanam . atuṣṭāḥ tuṣṭa-vat rājan ūṣuḥ parama-duḥkhitāḥ ..20..
न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥२१॥1.146.20
न च एनान् अन्वबुध्यन्त नराः नगर-वासिनः । अन्यत्र विदुर-अमात्यात् तस्मात् खनक-सत्तमात् ॥२१॥१।१४६।२०
na ca enān anvabudhyanta narāḥ nagara-vāsinaḥ . anyatra vidura-amātyāt tasmāt khanaka-sattamāt ..21..1.146.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In