| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥१॥
तान् तु दृष्ट्वा सुमनसः परिसंवत्सर-उषितान् । विश्वस्तान् इव संलक्ष्य हर्षम् चक्रे पुरोचनः ॥१॥
tān tu dṛṣṭvā sumanasaḥ parisaṃvatsara-uṣitān . viśvastān iva saṃlakṣya harṣam cakre purocanaḥ ..1..
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥२॥
पुरोचने तथा हृष्टे कौन्तेयः अथ युधिष्ठिरः । भीमसेन-अर्जुनौ च एव यमौ च उवाच धर्म-विद् ॥२॥
purocane tathā hṛṣṭe kaunteyaḥ atha yudhiṣṭhiraḥ . bhīmasena-arjunau ca eva yamau ca uvāca dharma-vid ..2..
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥३॥
अस्मान् अयम् सु विश्वस्तान् वेत्ति पापः पुरोचनः । वञ्चितः अयम् नृशंस-आत्मा कालम् मन्ये पलायने ॥३॥
asmān ayam su viśvastān vetti pāpaḥ purocanaḥ . vañcitaḥ ayam nṛśaṃsa-ātmā kālam manye palāyane ..3..
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥४॥
आयुधागारम् आदीप्य दग्ध्वा च एव पुरोचनम् । षट् प्राणिनः निधाय इह द्रवामः अनभिलक्षिताः ॥४॥
āyudhāgāram ādīpya dagdhvā ca eva purocanam . ṣaṭ prāṇinaḥ nidhāya iha dravāmaḥ anabhilakṣitāḥ ..4..
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥५॥
अथ दान-अपदेशेन कुन्ती ब्राह्मण-भोजनम् । चक्रे निशि महत् राजन् न आजग्मुः तत्र योषितः ॥५॥
atha dāna-apadeśena kuntī brāhmaṇa-bhojanam . cakre niśi mahat rājan na ājagmuḥ tatra yoṣitaḥ ..5..
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥६॥
ताः विहृत्य यथाकामम् भुक्त्वा पीत्वा च भारत । जग्मुः निशि गृहान् एव समनुज्ञाप्य माधवीम् ॥६॥
tāḥ vihṛtya yathākāmam bhuktvā pītvā ca bhārata . jagmuḥ niśi gṛhān eva samanujñāpya mādhavīm ..6..
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥७॥
निषादी पञ्च-पुत्रा तु तस्मिन् भोज्ये यदृच्छया । अन्न-अर्थिनी समभ्यागात् स पुत्रा काल-चोदिता ॥७॥
niṣādī pañca-putrā tu tasmin bhojye yadṛcchayā . anna-arthinī samabhyāgāt sa putrā kāla-coditā ..7..
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥८॥ ( सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥८॥ )
सा पीत्वा मदिराम् मत्ता स पुत्रा मद-विह्वला । सह सर्वैः सुतैः राजन् तस्मिन् एव निवेशने ॥८॥ ( सुष्वाप विगत-ज्ञाना मृत-कल्पा नराधिप ॥८॥ )
sā pītvā madirām mattā sa putrā mada-vihvalā . saha sarvaiḥ sutaiḥ rājan tasmin eva niveśane ..8.. ( suṣvāpa vigata-jñānā mṛta-kalpā narādhipa ..8.. )
अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥९॥
अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तत् उपादीपयत् भीमः शेते यत्र पुरोचनः ॥९॥
atha pravāte tumule niśi supte jane vibho . tat upādīpayat bhīmaḥ śete yatra purocanaḥ ..9..
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः । प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥१०॥
ततस् प्रतापः सु महान् शब्दः च एव विभावसोः । प्रादुरासीत् तदा तेन बुबुधे स जन-व्रजः ॥१०॥
tatas pratāpaḥ su mahān śabdaḥ ca eva vibhāvasoḥ . prādurāsīt tadā tena bubudhe sa jana-vrajaḥ ..10..
पौरा ऊचुः॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । गृहमात्मविनाशाय कारितं दाहितं च यत् ॥११॥
दुर्योधन-प्रयुक्तेन पापेन अकृतबुद्धिना । गृहम् आत्म-विनाशाय कारितम् दाहितम् च यत् ॥११॥
duryodhana-prayuktena pāpena akṛtabuddhinā . gṛham ātma-vināśāya kāritam dāhitam ca yat ..11..
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी । यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥१२॥
अहो धिक् धृतराष्ट्रस्य बुद्धिः न अतिसमञ्जसी । यः शुचीन् पाण्डवान् बालान् दाहयामास मन्त्रिणा ॥१२॥
aho dhik dhṛtarāṣṭrasya buddhiḥ na atisamañjasī . yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā ..12..
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः । अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥१३॥
दिष्ट्या तु इदानीम् पाप-आत्मा दग्धः अयम् अति दुर्मतिः । अनागसः सु विश्वस्तान् यः ददाह नर-उत्तमान् ॥१३॥
diṣṭyā tu idānīm pāpa-ātmā dagdhaḥ ayam ati durmatiḥ . anāgasaḥ su viśvastān yaḥ dadāha nara-uttamān ..13..
वैशम्पायन उवाच॥
एवं ते विलपन्ति स्म वारणावतका जनाः । परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥१४॥
एवम् ते विलपन्ति स्म वारणावतकाः जनाः । परिवार्य गृहम् तत् च तस्थुः रात्रौ समन्ततः ॥१४॥
evam te vilapanti sma vāraṇāvatakāḥ janāḥ . parivārya gṛham tat ca tasthuḥ rātrau samantataḥ ..14..
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः । बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥१५॥
पाण्डवाः च अपि ते राजन् मात्रा सह सु दुःखिताः । बिलेन तेन निर्गत्य जग्मुः गूढम् अलक्षिताः ॥१५॥
pāṇḍavāḥ ca api te rājan mātrā saha su duḥkhitāḥ . bilena tena nirgatya jagmuḥ gūḍham alakṣitāḥ ..15..
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥१६॥
तेन निद्रा-उपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुम् सह मात्रा परन्तपाः ॥१६॥
tena nidrā-uparodhena sādhvasena ca pāṇḍavāḥ . na śekuḥ sahasā gantum saha mātrā parantapāḥ ..16..
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । जगाम भ्रातृनादाय सर्वान्मातरमेव च ॥१७॥
भीमसेनः तु राज-इन्द्र भीम-वेग-पराक्रमः । जगाम भ्रातृन् आदाय सर्वान् मातरम् एव च ॥१७॥
bhīmasenaḥ tu rāja-indra bhīma-vega-parākramaḥ . jagāma bhrātṛn ādāya sarvān mātaram eva ca ..17..
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥१८॥
स्कन्धम् आरोप्य जननीम् यमौ अङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्याम् भ्रातरौ सु महा-बलौ ॥१८॥
skandham āropya jananīm yamau aṅkena vīryavān . pārthau gṛhītvā pāṇibhyām bhrātarau su mahā-balau ..18..
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥१९॥1.148.22
तरसा पादपान् भञ्जन् महीम् पद्भ्याम् विदारयन् । स जगाम आशु तेजस्वी वात-रंहाः वृकोदरः ॥१९॥१।१४८।२२
tarasā pādapān bhañjan mahīm padbhyām vidārayan . sa jagāma āśu tejasvī vāta-raṃhāḥ vṛkodaraḥ ..19..1.148.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In