| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥१॥
अथ रात्र्याम् व्यतीतायाम् अशेषः नागरः जनः । तत्र आजगाम त्वरितः दिदृक्षुः पाण्डु-नन्दनान् ॥१॥
atha rātryām vyatītāyām aśeṣaḥ nāgaraḥ janaḥ . tatra ājagāma tvaritaḥ didṛkṣuḥ pāṇḍu-nandanān ..1..
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥२॥
निर्वापयन्तः ज्वलनम् ते जनाः ददृशुः ततस् । जातुषम् तत् गृहम् दग्धम् अमात्यम् च पुरोचनम् ॥२॥
nirvāpayantaḥ jvalanam te janāḥ dadṛśuḥ tatas . jātuṣam tat gṛham dagdham amātyam ca purocanam ..2..
नूनं दुर्योधनेनेदं विहितं पापकर्मणा । पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥३॥
नूनम् दुर्योधनेन इदम् विहितम् पाप-कर्मणा । पाण्डवानाम् विनाशाय इति एवम् चुक्रुषुः जनाः ॥३॥
nūnam duryodhanena idam vihitam pāpa-karmaṇā . pāṇḍavānām vināśāya iti evam cukruṣuḥ janāḥ ..3..
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥४॥
विदिते धृतराष्ट्रस्य धार्तराष्ट्रः न संशयः । दग्धवान् पाण्डु-दायादान् न हि एनम् प्रतिषिद्धवान् ॥४॥
vidite dhṛtarāṣṭrasya dhārtarāṣṭraḥ na saṃśayaḥ . dagdhavān pāṇḍu-dāyādān na hi enam pratiṣiddhavān ..4..
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते । द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥५॥
नूनम् शान्तनवः भीष्मः न धर्मम् अनुवर्तते । द्रोणः च विदुरः च एव कृपः च अन्ये च कौरवाः ॥५॥
nūnam śāntanavaḥ bhīṣmaḥ na dharmam anuvartate . droṇaḥ ca viduraḥ ca eva kṛpaḥ ca anye ca kauravāḥ ..5..
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः । संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥६॥
ते वयम् धृतराष्ट्रस्य प्रेषयामः दुरात्मनः । संवृत्तः ते परः कामः पाण्डवान् दग्धवान् असि ॥६॥
te vayam dhṛtarāṣṭrasya preṣayāmaḥ durātmanaḥ . saṃvṛttaḥ te paraḥ kāmaḥ pāṇḍavān dagdhavān asi ..6..
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥७॥
ततस् व्यपोहमानाः ते पाण्डव-अर्थे हुताशनम् । निषादीम् ददृशुः दग्धाम् पञ्च-पुत्राम् अनागसम् ॥७॥
tatas vyapohamānāḥ te pāṇḍava-arthe hutāśanam . niṣādīm dadṛśuḥ dagdhām pañca-putrām anāgasam ..7..
खनकेन तु तेनैव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥८॥
खनकेन तु तेन एव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितम् पुरुषैः तैः अलक्षितम् ॥८॥
khanakena tu tena eva veśma śodhayatā bilam . pāṃsubhiḥ pratyapihitam puruṣaiḥ taiḥ alakṣitam ..8..
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः । पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥९॥
ततस् ते प्रेषयामासुः धृतराष्ट्रस्य नागराः । पाण्डवान् अग्निना दग्धान् अमात्यम् च पुरोचनम् ॥९॥
tatas te preṣayāmāsuḥ dhṛtarāṣṭrasya nāgarāḥ . pāṇḍavān agninā dagdhān amātyam ca purocanam ..9..
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥१०॥
श्रुत्वा तु धृतराष्ट्रः तत् राजा सु महत् अप्रियम् । विनाशम् पाण्डु-पुत्राणाम् विललाप सु दुःखितः ॥१०॥
śrutvā tu dhṛtarāṣṭraḥ tat rājā su mahat apriyam . vināśam pāṇḍu-putrāṇām vilalāpa su duḥkhitaḥ ..10..
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥११॥
अद्य पाण्डुः मृतः राजा भ्राता मम सु दुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥११॥
adya pāṇḍuḥ mṛtaḥ rājā bhrātā mama su durlabhaḥ . teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ ..11..
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥१२॥
गच्छन्तु पुरुषाः शीघ्रम् नगरम् वारणावतम् । सत्कारयन्तु तान् वीरान् कुन्ति-राज-सुताम् च ताम् ॥१२॥
gacchantu puruṣāḥ śīghram nagaram vāraṇāvatam . satkārayantu tān vīrān kunti-rāja-sutām ca tām ..12..
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥१३॥
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृताः तेषाम् सुहृदः अर्चन्तु तान् अपि ॥१३॥
kārayantu ca kulyāni śubhrāṇi ca mahānti ca . ye ca tatra mṛtāḥ teṣām suhṛdaḥ arcantu tān api ..13..
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् । पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥१४॥
एवङ्गते मया शक्यम् यत् यत् कारयितुम् हितम् । पाण्डवानाम् च कुन्त्याः च तत् सर्वम् क्रियताम् धनैः ॥१४॥
evaṅgate mayā śakyam yat yat kārayitum hitam . pāṇḍavānām ca kuntyāḥ ca tat sarvam kriyatām dhanaiḥ ..14..
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः । उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥१५॥
एवम् उक्त्वा ततस् चक्रे ज्ञातिभिः परिवारितः । उदकम् पाण्डु-पुत्राणाम् धृतराष्ट्रः अम्बिकासुतः ॥१५॥
evam uktvā tatas cakre jñātibhiḥ parivāritaḥ . udakam pāṇḍu-putrāṇām dhṛtarāṣṭraḥ ambikāsutaḥ ..15..
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः । विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥१६॥
चुक्रुशुः कौरवाः सर्वे भृशम् शोक-परायणाः । विदुरः तु अल्पशस् चक्रे शोकम् वेद परम् हि सः ॥१६॥
cukruśuḥ kauravāḥ sarve bhṛśam śoka-parāyaṇāḥ . viduraḥ tu alpaśas cakre śokam veda param hi saḥ ..16..
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् । जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥१७॥
पाण्डवाः च अपि निर्गत्य नगरात् वारणावतात् । जवेन प्रययुः राजन् दक्षिणाम् दिशम् आश्रिताः ॥१७॥
pāṇḍavāḥ ca api nirgatya nagarāt vāraṇāvatāt . javena prayayuḥ rājan dakṣiṇām diśam āśritāḥ ..17..
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥१८॥
विज्ञाय निशि पन्थानम् नक्षत्रैः दक्षिणा-मुखाः । यतमानाः वनम् राजन् गहनम् प्रतिपेदिरे ॥१८॥
vijñāya niśi panthānam nakṣatraiḥ dakṣiṇā-mukhāḥ . yatamānāḥ vanam rājan gahanam pratipedire ..18..
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥१९॥
ततस् श्रान्ताः पिपासा-आर्ताः निद्रा-अन्धाः पाण्डु-नन्दनाः । पुनर् ऊचुः महा-वीर्यम् भीमसेनम् इदम् वचः ॥१९॥
tatas śrāntāḥ pipāsā-ārtāḥ nidrā-andhāḥ pāṇḍu-nandanāḥ . punar ūcuḥ mahā-vīryam bhīmasenam idam vacaḥ ..19..
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥२०॥
इतस् कष्टतरम् किम् नु यत् वयम् गहने वने । दिशः च न प्रजानीमः गन्तुम् च एव न शक्नुमः ॥२०॥
itas kaṣṭataram kim nu yat vayam gahane vane . diśaḥ ca na prajānīmaḥ gantum ca eva na śaknumaḥ ..20..
तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥२१॥
तम् च पापम् न जानीमः यदि दग्धः पुरोचनः । कथम् नु विप्रमुच्येम भयात् अस्मात् अलक्षिताः ॥२१॥
tam ca pāpam na jānīmaḥ yadi dagdhaḥ purocanaḥ . katham nu vipramucyema bhayāt asmāt alakṣitāḥ ..21..
पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥२२॥
पुनर् अस्मान् उपादाय तथा एव व्रज भारत । त्वम् हि नः बलवान् एकः यथा सततगः तथा ॥२२॥
punar asmān upādāya tathā eva vraja bhārata . tvam hi naḥ balavān ekaḥ yathā satatagaḥ tathā ..22..
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥२३॥1.149.26
इति उक्तः धर्मराजेन भीमसेनः महा-बलः । आदाय कुन्तीम् भ्रातृन् च जगाम आशु महा-बलः ॥२३॥१।१४९।२६
iti uktaḥ dharmarājena bhīmasenaḥ mahā-balaḥ . ādāya kuntīm bhrātṛn ca jagāma āśu mahā-balaḥ ..23..1.149.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In