| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेन विक्रमता तूर्णमूरुवेगसमीरितम् । प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥१॥
तेन विक्रमता तूर्णम् ऊरु-वेग-समीरितम् । प्रववौ अनिलः राजन् शुचि-शुक्र-आगमे यथा ॥१॥
tena vikramatā tūrṇam ūru-vega-samīritam . pravavau anilaḥ rājan śuci-śukra-āgame yathā ..1..
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥२॥
स मृद्नन् पुष्पितान् च एव फलितान् च वनस्पतीन् । आरुजन् दारु-गुल्मान् च पथः तस्य समीप-जान् ॥२॥
sa mṛdnan puṣpitān ca eva phalitān ca vanaspatīn . ārujan dāru-gulmān ca pathaḥ tasya samīpa-jān ..2..
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः । तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥३॥
तथा वृक्षान् भञ्जमानः जगाम अमित-विक्रमः । तस्य वेगेन पाण्डूनाम् मूर्च्छा इव समजायत ॥३॥
tathā vṛkṣān bhañjamānaḥ jagāma amita-vikramaḥ . tasya vegena pāṇḍūnām mūrcchā iva samajāyata ..3..
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः । पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥४॥
असकृत् च अपि सन्तीर्य दूर-पारम् भुज-प्लवैः । पथि प्रच्छन्नम् आसेदुः धार्तराष्ट्र-भयात् तदा ॥४॥
asakṛt ca api santīrya dūra-pāram bhuja-plavaiḥ . pathi pracchannam āseduḥ dhārtarāṣṭra-bhayāt tadā ..4..
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् । अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥५॥
कृच्छ्रेण मातरम् तु एकाम् सुकुमारीम् यशस्विनीम् । अवहत् तत्र पृष्ठेन रोधःसु विषमेषु च ॥५॥
kṛcchreṇa mātaram tu ekām sukumārīm yaśasvinīm . avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca ..5..
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् । क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥६॥
आगमन् ते वन-उद्देशम् अल्प-मूल-फल-उदकम् । क्रूर-पक्षि-मृगम् घोरम् सायाह्ने भरत-ऋषभाः ॥६॥
āgaman te vana-uddeśam alpa-mūla-phala-udakam . krūra-pakṣi-mṛgam ghoram sāyāhne bharata-ṛṣabhāḥ ..6..
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः । अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥७॥
घोरा समभवत् सन्ध्या दारुणाः मृग-पक्षिणः । अप्रकाशाः दिशः सर्वाः वातैः आसन्न-नार्तवैः ॥७॥
ghorā samabhavat sandhyā dāruṇāḥ mṛga-pakṣiṇaḥ . aprakāśāḥ diśaḥ sarvāḥ vātaiḥ āsanna-nārtavaiḥ ..7..
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥८॥
ते श्रमेण च कौरव्याः तृष्णया च प्रपीडिताः । न अशक्नुवन् तदा गन्तुम् निद्रया च प्रवृद्धया ॥८॥
te śrameṇa ca kauravyāḥ tṛṣṇayā ca prapīḍitāḥ . na aśaknuvan tadā gantum nidrayā ca pravṛddhayā ..8..
ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥९॥
ततस् भीमः वनम् घोरम् प्रविश्य विजनम् महत् । न्यग्रोधम् विपुल-छायम् रमणीयम् उपाद्रवत् ॥९॥
tatas bhīmaḥ vanam ghoram praviśya vijanam mahat . nyagrodham vipula-chāyam ramaṇīyam upādravat ..9..
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥१०॥
तत्र निक्षिप्य तान् सर्वान् उवाच भरत-ऋषभः । पानीयम् मृगयामि इह विश्रमध्वम् इति प्रभो ॥१०॥
tatra nikṣipya tān sarvān uvāca bharata-ṛṣabhaḥ . pānīyam mṛgayāmi iha viśramadhvam iti prabho ..10..
एते रुवन्ति मधुरं सारसा जलचारिणः । ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥११॥
एते रुवन्ति मधुरम् सारसाः जलचारिणः । ध्रुवम् अत्र जल-स्थायः महान् इति मतिः मम ॥११॥
ete ruvanti madhuram sārasāḥ jalacāriṇaḥ . dhruvam atra jala-sthāyaḥ mahān iti matiḥ mama ..11..
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥१२॥
अनुज्ञातः स गच्छ इति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥१२॥
anujñātaḥ sa gaccha iti bhrātrā jyeṣṭhena bhārata . jagāma tatra yatra sma ruvanti jalacāriṇaḥ ..12..
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ । उत्तरीयेण पानीयमाजहार तदा नृप ॥१३॥
स तत्र पीत्वा पानीयम् स्नात्वा च भरत-ऋषभ । उत्तरीयेण पानीयम् आजहार तदा नृप ॥१३॥
sa tatra pītvā pānīyam snātvā ca bharata-ṛṣabha . uttarīyeṇa pānīyam ājahāra tadā nṛpa ..13..
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले ॥१४॥ ( भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥१४॥ )
गव्यूति-मात्रात् आगत्य त्वरितः मातरम् प्रति । स सुप्ताम् मातरम् दृष्ट्वा भ्रातृन् च वसुधा-तले ॥१४॥ ( भृशम् दुःख-परीत-आत्मा विललाप वृकोदरः ॥१४॥ )
gavyūti-mātrāt āgatya tvaritaḥ mātaram prati . sa suptām mātaram dṛṣṭvā bhrātṛn ca vasudhā-tale ..14.. ( bhṛśam duḥkha-parīta-ātmā vilalāpa vṛkodaraḥ ..14.. )
शयनेषु परार्ध्येषु ये पुरा वारणावते । नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥१५॥
शयनेषु परार्ध्येषु ये पुरा वारणावते । न अधिजग्मुः तदा निद्राम् ते अद्य सुप्ताः मही-तले ॥१५॥
śayaneṣu parārdhyeṣu ye purā vāraṇāvate . na adhijagmuḥ tadā nidrām te adya suptāḥ mahī-tale ..15..
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः । कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥१६॥
स्वसारम् वसुदेवस्य शत्रु-सङ्घ-अवमर्दिनः । कुन्तिभोज-सुताम् कुन्तीम् सर्व-लक्षण-पूजिताम् ॥१६॥
svasāram vasudevasya śatru-saṅgha-avamardinaḥ . kuntibhoja-sutām kuntīm sarva-lakṣaṇa-pūjitām ..16..
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः । प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥१७॥
स्नुषाम् विचित्रवीर्यस्य भार्याम् पाण्डोः महात्मनः । प्रासाद-शयनाम् नित्यम् पुण्डरीक-अन्तर-प्रभाम् ॥१७॥
snuṣām vicitravīryasya bhāryām pāṇḍoḥ mahātmanaḥ . prāsāda-śayanām nityam puṇḍarīka-antara-prabhām ..17..
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् । शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥१८॥
सुकुमारतराम् स्त्रीणाम् महार्ह-शयन-उचिताम् । शयानाम् पश्यत अद्य इह पृथिव्याम् अतथोचिताम् ॥१८॥
sukumāratarām strīṇām mahārha-śayana-ucitām . śayānām paśyata adya iha pṛthivyām atathocitām ..18..
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् । सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥१९॥
धर्मात् इन्द्रात् च वायोः च सुषुवे या सुतान् इमान् । सा इयम् भूमौ परिश्रान्ता शेते हि अद्य अ तथा उचिता ॥१९॥
dharmāt indrāt ca vāyoḥ ca suṣuve yā sutān imān . sā iyam bhūmau pariśrāntā śete hi adya a tathā ucitā ..19..
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥२०॥
किम् नु दुःखतरम् शक्यम् मया द्रष्टुम् अतस् परम् । यः अहम् अद्य नर-व्याघ्रान् सुप्तान् पश्यामि भू-तले ॥२०॥
kim nu duḥkhataram śakyam mayā draṣṭum atas param . yaḥ aham adya nara-vyāghrān suptān paśyāmi bhū-tale ..20..
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः । सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥२१॥
त्रिषु लोकेषु यत् राज्यम् धर्म-विद्यः अर्हते नृपः । सः अयम् भूमौ परिश्रान्तः शेते प्राकृत-वत् कथम् ॥२१॥
triṣu lokeṣu yat rājyam dharma-vidyaḥ arhate nṛpaḥ . saḥ ayam bhūmau pariśrāntaḥ śete prākṛta-vat katham ..21..
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि । शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥२२॥
अयम् नील-अम्बुद-श्यामः नरेषु अप्रतिमः भुवि । शेते प्राकृत-वत् भूमौ अतस् दुःखतरम् नु किम् ॥२२॥
ayam nīla-ambuda-śyāmaḥ nareṣu apratimaḥ bhuvi . śete prākṛta-vat bhūmau atas duḥkhataram nu kim ..22..
अश्विनाविव देवानां याविमौ रूपसम्पदा । तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥२३॥
अश्विनौ इव देवानाम् यौ इमौ रूप-सम्पदा । तौ प्राकृत-वत् अद्य इमौ प्रसुप्तौ धरणी-तले ॥२३॥
aśvinau iva devānām yau imau rūpa-sampadā . tau prākṛta-vat adya imau prasuptau dharaṇī-tale ..23..
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः । स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥२४॥
ज्ञातयः यस्य न एव स्युः विषमाः कुल-पांसनाः । स जीवेत् सु सुखम् लोके ग्रामे द्रुमः इव एकजः ॥२४॥
jñātayaḥ yasya na eva syuḥ viṣamāḥ kula-pāṃsanāḥ . sa jīvet su sukham loke grāme drumaḥ iva ekajaḥ ..24..
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥२५॥
एकः वृक्षः हि यः ग्रामे भवेत् पर्ण-फल-अन्वितः । चैत्यः भवति निर्ज्ञातिः अर्चनीयः सु पूजितः ॥२५॥
ekaḥ vṛkṣaḥ hi yaḥ grāme bhavet parṇa-phala-anvitaḥ . caityaḥ bhavati nirjñātiḥ arcanīyaḥ su pūjitaḥ ..25..
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः । ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥२६॥
येषाम् च बहवः शूराः ज्ञातयः धर्म-संश्रिताः । ते जीवन्ति सुखम् लोके भवन्ति च निरामयाः ॥२६॥
yeṣām ca bahavaḥ śūrāḥ jñātayaḥ dharma-saṃśritāḥ . te jīvanti sukham loke bhavanti ca nirāmayāḥ ..26..
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥२७॥
बलवन्तः समृद्ध-अर्थाः मित्र-बान्धव-नन्दनाः । जीवन्ति अन्योन्यम् आश्रित्य द्रुमाः कानन-जाः इव ॥२७॥
balavantaḥ samṛddha-arthāḥ mitra-bāndhava-nandanāḥ . jīvanti anyonyam āśritya drumāḥ kānana-jāḥ iva ..27..
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना । विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ॥२८॥
वयम् तु धृतराष्ट्रेण स पुत्रेण दुरात्मना । विवासिताः न दग्धाः च कथञ्चिद् तस्य शासनात् ॥२८॥
vayam tu dhṛtarāṣṭreṇa sa putreṇa durātmanā . vivāsitāḥ na dagdhāḥ ca kathañcid tasya śāsanāt ..28..
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥२९॥
तस्मात् मुक्ताः वयम् दाहात् इमम् वृक्षम् उपाश्रिताः । काम् दिशम् प्रतिपत्स्यामः प्राप्ताः क्लेशम् अनुत्तमम् ॥२९॥
tasmāt muktāḥ vayam dāhāt imam vṛkṣam upāśritāḥ . kām diśam pratipatsyāmaḥ prāptāḥ kleśam anuttamam ..29..
नातिदूरे च नगरं वनादस्माद्धि लक्षये । जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥३०॥
न अतिदूरे च नगरम् वनात् अस्मात् हि लक्षये । जागर्तव्ये स्वपन्ति इमे हन्त जागर्मि अहम् स्वयम् ॥३०॥
na atidūre ca nagaram vanāt asmāt hi lakṣaye . jāgartavye svapanti ime hanta jāgarmi aham svayam ..30..
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥३१॥1.150.45
पास्यन्ति इमे जलम् पश्चात् प्रतिबुद्धाः जित-क्लमाः । इति भीमः व्यवस्य एव जजागार स्वयम् तदा ॥३१॥१।१५०।४५
pāsyanti ime jalam paścāt pratibuddhāḥ jita-klamāḥ . iti bhīmaḥ vyavasya eva jajāgāra svayam tadā ..31..1.150.45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In