| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः । अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥१॥
तत्र तेषु शयानेषु हिडिम्बः नाम राक्षसः । अविदूरे वनात् तस्मात् शाल-वृक्षम् उपाश्रितः ॥१॥
tatra teṣu śayāneṣu hiḍimbaḥ nāma rākṣasaḥ . avidūre vanāt tasmāt śāla-vṛkṣam upāśritaḥ ..1..
क्रूरो मानुषमांसादो महावीर्यो महाबलः । विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ॥२॥ ( पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥२॥ )
क्रूरः मानुष-मांस-आदः महा-वीर्यः महा-बलः । विरूप-रूपः पिङ्ग-अक्षः करालः घोर-दर्शनः ॥२॥ ( पिशित-ईप्सुः क्षुधा-आर्तः तान् अपश्यत यदृच्छया ॥२॥ )
krūraḥ mānuṣa-māṃsa-ādaḥ mahā-vīryaḥ mahā-balaḥ . virūpa-rūpaḥ piṅga-akṣaḥ karālaḥ ghora-darśanaḥ ..2.. ( piśita-īpsuḥ kṣudhā-ārtaḥ tān apaśyata yadṛcchayā ..2.. )
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् । जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥३॥
ऊर्ध्व-अङ्गुलिः स कण्डूयन् धुन्वन् रूक्षान् शिरोरुहान् । जृम्भमाणः महा-वक्त्रः पुनर् पुनर् अवेक्ष्य च ॥३॥
ūrdhva-aṅguliḥ sa kaṇḍūyan dhunvan rūkṣān śiroruhān . jṛmbhamāṇaḥ mahā-vaktraḥ punar punar avekṣya ca ..3..
दुष्टो मानुषमांसादो महाकायो महाबलः । आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥४॥
दुष्टः मानुष-मांस-आदः महा-कायः महा-बलः । आघ्राय मानुषम् गन्धम् भगिनीम् इदम् अब्रवीत् ॥४॥
duṣṭaḥ mānuṣa-māṃsa-ādaḥ mahā-kāyaḥ mahā-balaḥ . āghrāya mānuṣam gandham bhaginīm idam abravīt ..4..
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः । स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥५॥
उपपन्नः चिरस्य अद्य भक्षः मम मनः-प्रियः । स्नेह-स्रवान् प्रस्रवति जिह्वा पर्येति मे मुखम् ॥५॥
upapannaḥ cirasya adya bhakṣaḥ mama manaḥ-priyaḥ . sneha-sravān prasravati jihvā paryeti me mukham ..5..
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः । देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥६॥
अष्टौ दंष्ट्राः सु तीक्ष्ण-अग्राः चिरस्य आपात-दुःसहाः । देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥६॥
aṣṭau daṃṣṭrāḥ su tīkṣṇa-agrāḥ cirasya āpāta-duḥsahāḥ . deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca ..6..
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि । उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥७॥
आक्रम्य मानुषम् कण्ठम् आच्छिद्य धमनीम् अपि । उष्णम् नवम् प्रपास्यामि फेनिलम् रुधिरम् बहु ॥७॥
ākramya mānuṣam kaṇṭham ācchidya dhamanīm api . uṣṇam navam prapāsyāmi phenilam rudhiram bahu ..7..
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः । मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥८॥
गच्छ जानीहि के तु एते शेरते वनम् आश्रिताः । मानुषः बलवान् गन्धः घ्राणम् तर्पयति इव मे ॥८॥
gaccha jānīhi ke tu ete śerate vanam āśritāḥ . mānuṣaḥ balavān gandhaḥ ghrāṇam tarpayati iva me ..8..
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् । अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥९॥
हत्वा एतान् मानुषान् सर्वान् आनयस्व मम अन्तिकम् । अस्मद्-विषय-सुप्तेभ्यः न एतेभ्यः भयम् अस्ति ते ॥९॥
hatvā etān mānuṣān sarvān ānayasva mama antikam . asmad-viṣaya-suptebhyaḥ na etebhyaḥ bhayam asti te ..9..
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः । भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥१०॥
एषाम् मांसानि संस्कृत्य मानुषाणाम् यथेष्टतः । भक्षयिष्याव सहितौ कुरु तूर्णम् वचः मम ॥१०॥
eṣām māṃsāni saṃskṛtya mānuṣāṇām yatheṣṭataḥ . bhakṣayiṣyāva sahitau kuru tūrṇam vacaḥ mama ..10..
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी । जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥११॥
भ्रातुः वचनम् आज्ञाय त्वरमाणा इव राक्षसी । जगाम तत्र यत्र स्म पाण्डवाः भरत-ऋषभ ॥११॥
bhrātuḥ vacanam ājñāya tvaramāṇā iva rākṣasī . jagāma tatra yatra sma pāṇḍavāḥ bharata-ṛṣabha ..11..
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह । शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥१२॥
ददर्श तत्र गत्वा सा पाण्डवान् पृथया सह । शयानान् भीमसेनम् च जाग्रतम् तु अपराजितम् ॥१२॥
dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha . śayānān bhīmasenam ca jāgratam tu aparājitam ..12..
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् । राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥१३॥
दृष्ट्वा एव भीमसेनम् सा शाल-स्कन्धम् इव उद्गतम् । राक्षसी कामयामास रूपेण अप्रतिमम् भुवि ॥१३॥
dṛṣṭvā eva bhīmasenam sā śāla-skandham iva udgatam . rākṣasī kāmayāmāsa rūpeṇa apratimam bhuvi ..13..
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः । कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥१४॥
अयम् श्यामः महा-बाहुः सिंह-स्कन्धः महा-द्युतिः । कम्बु-ग्रीवः पुष्कर-अक्षः भर्ता युक्तः भवेत् मम ॥१४॥
ayam śyāmaḥ mahā-bāhuḥ siṃha-skandhaḥ mahā-dyutiḥ . kambu-grīvaḥ puṣkara-akṣaḥ bhartā yuktaḥ bhavet mama ..14..
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् । पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥१५॥
न अहम् भ्रातृ-वचः जातु कुर्याम् क्रूर-उपसंहितम् । पति-स्नेहः अति बलवान् न तथा भ्रातृ-सौहृदम् ॥१५॥
na aham bhrātṛ-vacaḥ jātu kuryām krūra-upasaṃhitam . pati-snehaḥ ati balavān na tathā bhrātṛ-sauhṛdam ..15..
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च । हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ॥१६॥
मुहूर्तम् इव तृप्तिः च भवेत् भ्रातुः मम एव च । हतैः एतैः अ हत्वा तु मोदिष्ये शाश्वतिः समाः ॥१६॥
muhūrtam iva tṛptiḥ ca bhavet bhrātuḥ mama eva ca . hataiḥ etaiḥ a hatvā tu modiṣye śāśvatiḥ samāḥ ..16..
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् । उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥१७॥
सा कामरूपिणी रूपम् कृत्वा मानुषम् उत्तमम् । उपतस्थे महा-बाहुम् भीमसेनम् शनैस् शनैस् ॥१७॥
sā kāmarūpiṇī rūpam kṛtvā mānuṣam uttamam . upatasthe mahā-bāhum bhīmasenam śanais śanais ..17..
विलज्जमानेव लता दिव्याभरणभूषिता । स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ॥१८॥
विलज्जमाना इव लता दिव्य-आभरण-भूषिता । स्मित-पूर्वम् इदम् वाक्यम् भीमसेनम् अथ अब्रवीत् ॥१८॥
vilajjamānā iva latā divya-ābharaṇa-bhūṣitā . smita-pūrvam idam vākyam bhīmasenam atha abravīt ..18..
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ । क इमे शेरते चेह पुरुषा देवरूपिणः ॥१९॥
कुतस् त्वम् असि सम्प्राप्तः कः च असि पुरुष-ऋषभ । के इमे शेरते च इह पुरुषाः देव-रूपिणः ॥१९॥
kutas tvam asi samprāptaḥ kaḥ ca asi puruṣa-ṛṣabha . ke ime śerate ca iha puruṣāḥ deva-rūpiṇaḥ ..19..
केयं च बृहती श्यामा सुकुमारी तवानघ । शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ॥२०॥
का इयम् च बृहती श्यामा सुकुमारी तव अनघ । शेते वनम् इदम् प्राप्य विश्वस्ता स्व-गृहे यथा ॥२०॥
kā iyam ca bṛhatī śyāmā sukumārī tava anagha . śete vanam idam prāpya viśvastā sva-gṛhe yathā ..20..
नेदं जानाति गहनं वनं राक्षससेवितम् । वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥२१॥
न इदम् जानाति गहनम् वनम् राक्षस-सेवितम् । वसति हि अत्र पाप-आत्मा हिडिम्बः नाम राक्षसः ॥२१॥
na idam jānāti gahanam vanam rākṣasa-sevitam . vasati hi atra pāpa-ātmā hiḍimbaḥ nāma rākṣasaḥ ..21..
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा । बिभक्षयिषता मांसं युष्माकममरोपम ॥२२॥
तेन अहम् प्रेषिता भ्रात्रा दुष्ट-भावेन रक्षसा । बिभक्षयिषता मांसम् युष्माकम् अमर-उपम ॥२२॥
tena aham preṣitā bhrātrā duṣṭa-bhāvena rakṣasā . bibhakṣayiṣatā māṃsam yuṣmākam amara-upama ..22..
साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् । नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥२३॥
सा अहम् त्वाम् अभिसम्प्रेक्ष्य देव-गर्भ-सम-प्रभम् । न अन्यम् भर्तारम् इच्छामि सत्यम् एतत् ब्रवीमि ते ॥२३॥
sā aham tvām abhisamprekṣya deva-garbha-sama-prabham . na anyam bhartāram icchāmi satyam etat bravīmi te ..23..
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर । कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ॥२४॥
एतत् विज्ञाय धर्म-ज्ञ युक्तम् मयि समाचर । काम-उपहत-चित्त-अङ्गीम् भजमानाम् भजस्व माम् ॥२४॥
etat vijñāya dharma-jña yuktam mayi samācara . kāma-upahata-citta-aṅgīm bhajamānām bhajasva mām ..24..
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् । वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥२५॥
त्रास्ये अहम् त्वाम् महा-बाहो राक्षसात् पुरुषादकात् । वत्स्यावः गिरि-दुर्गेषु भर्ता भव मम अनघ ॥२५॥
trāsye aham tvām mahā-bāho rākṣasāt puruṣādakāt . vatsyāvaḥ giri-durgeṣu bhartā bhava mama anagha ..25..
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च । अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥२६॥
अन्तरिक्ष-चरा हि अस्मि कामतः विचरामि च । अतुलाम् आप्नुहि प्रीतिम् तत्र तत्र मया सह ॥२६॥
antarikṣa-carā hi asmi kāmataḥ vicarāmi ca . atulām āpnuhi prītim tatra tatra mayā saha ..26..
भीम उवाच॥
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् । परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥२७॥
मातरम् भ्रातरम् ज्येष्ठम् कनिष्ठान् अपरान् इमान् । परित्यजेत कः नु अद्य प्रभवन् इव राक्षसि ॥२७॥
mātaram bhrātaram jyeṣṭham kaniṣṭhān aparān imān . parityajeta kaḥ nu adya prabhavan iva rākṣasi ..27..
को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् । मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥२८॥
कः हि सुप्तान् इमान् भ्रातृन् दत्त्वा राक्षस-भोजनम् । मातरम् च नरः गच्छेत् काम-आर्तः इव मद्विधः ॥२८॥
kaḥ hi suptān imān bhrātṛn dattvā rākṣasa-bhojanam . mātaram ca naraḥ gacchet kāma-ārtaḥ iva madvidhaḥ ..28..
राक्षस्युवाच॥
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय । मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ॥२९॥
यत् ते प्रियम् तत् करिष्ये सर्वान् एतान् प्रबोधय । मोक्षयिष्यामि वः कामम् राक्षसात् पुरुषादकात् ॥२९॥
yat te priyam tat kariṣye sarvān etān prabodhaya . mokṣayiṣyāmi vaḥ kāmam rākṣasāt puruṣādakāt ..29..
भीम उवाच॥
सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि । न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥३०॥
सुख-सुप्तान् वने भ्रातृत्-मातरम् च एव राक्षसि । न भयात् बोधयिष्यामि भ्रातुः तव दुरात्मनः ॥३०॥
sukha-suptān vane bhrātṛt-mātaram ca eva rākṣasi . na bhayāt bodhayiṣyāmi bhrātuḥ tava durātmanaḥ ..30..
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् । न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥३१॥
न हि मे राक्षसाः भीरु सोढुम् शक्ताः पराक्रमम् । न मनुष्याः न गन्धर्वाः न यक्षाः चारु-लोचने ॥३१॥
na hi me rākṣasāḥ bhīru soḍhum śaktāḥ parākramam . na manuṣyāḥ na gandharvāḥ na yakṣāḥ cāru-locane ..31..
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु । तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥३२॥1.151.36
गच्छ वा तिष्ठ वा भद्रे यत् वा अपि इच्छसि तत् कुरु । तम् वा प्रेषय तन्वङ्गि भ्रातरम् पुरुषादकम् ॥३२॥१।१५१।३६
gaccha vā tiṣṭha vā bhadre yat vā api icchasi tat kuru . tam vā preṣaya tanvaṅgi bhrātaram puruṣādakam ..32..1.151.36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In