| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
सौते कथय तामेतां विस्तरेण कथां पुनः । आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥१॥
सौते कथय ताम् एताम् विस्तरेण कथाम् पुनर् । आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥१॥
saute kathaya tām etām vistareṇa kathām punar . āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ ..1..
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया । प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥२॥
मधुरम् कथ्यते सौम्य श्लक्ष्ण-अक्षर-पदम् त्वया । प्रीयामहे भृशम् तात पिता इव इदम् प्रभाषसे ॥२॥
madhuram kathyate saumya ślakṣṇa-akṣara-padam tvayā . prīyāmahe bhṛśam tāta pitā iva idam prabhāṣase ..2..
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव । आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥३॥
अस्मद्-शुश्रूषणे नित्यम् पिता हि निरतः तव । आचष्ट एतत् यथाख्यानम् पिता ते त्वम् तथा वद ॥३॥
asmad-śuśrūṣaṇe nityam pitā hi nirataḥ tava . ācaṣṭa etat yathākhyānam pitā te tvam tathā vada ..3..
सूत उवाच॥
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते । यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥४॥
आयुष्यम् इदम् आख्यानम् आस्तीकम् कथयामि ते । यथा श्रुतम् कथयतः सकाशात् वै पितुः मया ॥४॥
āyuṣyam idam ākhyānam āstīkam kathayāmi te . yathā śrutam kathayataḥ sakāśāt vai pituḥ mayā ..4..
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे । आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥५॥
पुरा देव-युगे ब्रह्मन् प्रजापति-सुते शुभे । आस्ताम् भगिन्यौ रूपेण समुपेते अद्भुते अनघे ॥५॥
purā deva-yuge brahman prajāpati-sute śubhe . āstām bhaginyau rūpeṇa samupete adbhute anaghe ..5..
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह । प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥६॥ ( कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥६॥ )
ते भार्ये कश्यपस्य आस्ताम् कद्रूः च विनता च ह । प्रादात् ताभ्याम् वरम् प्रीतः प्रजापति-समः पतिः ॥६॥ ( कश्यपः धर्म-पत्नीभ्याम् मुदा परमया युतः ॥६॥ )
te bhārye kaśyapasya āstām kadrūḥ ca vinatā ca ha . prādāt tābhyām varam prītaḥ prajāpati-samaḥ patiḥ ..6.. ( kaśyapaḥ dharma-patnībhyām mudā paramayā yutaḥ ..6.. )
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते । हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥७॥
वर-अतिसर्गम् श्रुत्वा एव कश्यपात् उत्तमम् च ते । हर्षात् अप्रतिमाम् प्रीतिम् प्रापतुः स्म वर-स्त्रियौ ॥७॥
vara-atisargam śrutvā eva kaśyapāt uttamam ca te . harṣāt apratimām prītim prāpatuḥ sma vara-striyau ..7..
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः । द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥८॥ ( ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥८॥ )
वव्रे कद्रूः सुतान् नागान् सहस्रम् तुल्य-तेजसः । द्वौ पुत्रौ विनता वव्रे कद्रू-पुत्र-अधिकौ बले ॥८॥ ( ओजसा तेजसा च एव विक्रमेण अधिकौ सुतौ ॥८॥ )
vavre kadrūḥ sutān nāgān sahasram tulya-tejasaḥ . dvau putrau vinatā vavre kadrū-putra-adhikau bale ..8.. ( ojasā tejasā ca eva vikrameṇa adhikau sutau ..8.. )
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् । एवमस्त्विति तं चाह कश्यपं विनता तदा ॥९॥
तस्यै भर्ता वरम् प्रादात् अध्यर्धम् पुत्रम् ईप्सितम् । एवम् अस्तु इति तम् च आह कश्यपम् विनता तदा ॥९॥
tasyai bhartā varam prādāt adhyardham putram īpsitam . evam astu iti tam ca āha kaśyapam vinatā tadā ..9..
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ । कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥१०॥
कृतकृत्या तु विनता लब्ध्वा वीर्य-अधिकौ सुतौ । कद्रूः च लब्ध्वा पुत्राणाम् सहस्रम् तुल्य-तेजसाम् ॥१०॥
kṛtakṛtyā tu vinatā labdhvā vīrya-adhikau sutau . kadrūḥ ca labdhvā putrāṇām sahasram tulya-tejasām ..10..
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः । ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥११॥
धार्यौ प्रयत्नतः गर्भौ इति उक्त्वा स महा-तपाः । ते भार्ये वर-संहृष्टे कश्यपः वनम् आविशत् ॥११॥
dhāryau prayatnataḥ garbhau iti uktvā sa mahā-tapāḥ . te bhārye vara-saṃhṛṣṭe kaśyapaḥ vanam āviśat ..11..
कालेन महता कद्रूरण्डानां दशतीर्दश । जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥१२॥
कालेन महता कद्रू-रण्डानाम् दशतीः दश । जनयामास विप्र-इन्द्र द्वे अण्डे विनता तदा ॥१२॥
kālena mahatā kadrū-raṇḍānām daśatīḥ daśa . janayāmāsa vipra-indra dve aṇḍe vinatā tadā ..12..
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः । सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥१३॥
तयोः अण्डानि निदधुः प्रहृष्टाः परिचारिकाः । स उपस्वेदेषु भाण्डेषु पञ्च वर्ष-शतानि च ॥१३॥
tayoḥ aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ . sa upasvedeṣu bhāṇḍeṣu pañca varṣa-śatāni ca ..13..
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः । अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥१४॥
ततस् पञ्चशते काले कद्रू-पुत्राः विनिःसृताः । अण्डाभ्याम् विनतायाः तु मिथुनम् न व्यदृश्यत ॥१४॥
tatas pañcaśate kāle kadrū-putrāḥ viniḥsṛtāḥ . aṇḍābhyām vinatāyāḥ tu mithunam na vyadṛśyata ..14..
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी । अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥१५॥
ततस् पुत्र-अर्थिणी देवी व्रीडिता सा तपस्विनी । अण्डम् बिभेद विनता तत्र पुत्रम् अदृक्षत ॥१५॥
tatas putra-arthiṇī devī vrīḍitā sā tapasvinī . aṇḍam bibheda vinatā tatra putram adṛkṣata ..15..
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता । स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ॥१६॥
पूर्व-अर्ध-काय-सम्पन्नम् इतरेण अ प्रकाश-ता । स पुत्रः रोष-सम्पन्नः शशाप एनाम् इति श्रुतिः ॥१६॥
pūrva-ardha-kāya-sampannam itareṇa a prakāśa-tā . sa putraḥ roṣa-sampannaḥ śaśāpa enām iti śrutiḥ ..16..
योऽहमेवं कृतो मातस्त्वया लोभपरीतया । शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥१७॥
यः अहम् एवम् कृतः मातर् त्वया लोभ-परीतया । शरीरेण असमग्रः अद्य तस्मात् दासी भविष्यसि ॥१७॥
yaḥ aham evam kṛtaḥ mātar tvayā lobha-parītayā . śarīreṇa asamagraḥ adya tasmāt dāsī bhaviṣyasi ..17..
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह । एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥१८॥
पञ्च वर्ष-शतानि अस्याः यया विस्पर्धसे सह । एष च त्वाम् सुतः मातर् दास्य-त्वात् मोक्षयिष्यति ॥१८॥
pañca varṣa-śatāni asyāḥ yayā vispardhase saha . eṣa ca tvām sutaḥ mātar dāsya-tvāt mokṣayiṣyati ..18..
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥१९॥
यदि एनम् अपि मातर् त्वम् माम् इव अण्ड-विभेदनात् । न करिष्यसि अदेहम् वा व्यङ्गम् वा अपि तपस्विनम् ॥१९॥
yadi enam api mātar tvam mām iva aṇḍa-vibhedanāt . na kariṣyasi adeham vā vyaṅgam vā api tapasvinam ..19..
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया । विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥२०॥
प्रतिपालयितव्यः ते जन्म-कालः अस्य धीरया । विशिष्ट-बलम् ईप्सन्त्या पञ्च-वर्ष-शतात् परस् ॥२०॥
pratipālayitavyaḥ te janma-kālaḥ asya dhīrayā . viśiṣṭa-balam īpsantyā pañca-varṣa-śatāt paras ..20..
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः । अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥२१॥
एवम् शप्त्वा ततस् पुत्रः विनताम् अन्तरिक्ष-गः । अरुणः दृश्यते ब्रह्मन् प्रभात-समये सदा ॥२१॥
evam śaptvā tatas putraḥ vinatām antarikṣa-gaḥ . aruṇaḥ dṛśyate brahman prabhāta-samaye sadā ..21..
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः । स जातमात्रो विनतां परित्यज्य खमाविशत् ॥२२॥
गरुडः अपि यथा कालम् जज्ञे पन्नग-सूदनः । स जात-मात्रः विनताम् परित्यज्य खम् आविशत् ॥२२॥
garuḍaḥ api yathā kālam jajñe pannaga-sūdanaḥ . sa jāta-mātraḥ vinatām parityajya kham āviśat ..22..
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् । विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥२३॥1.16.25
आदास्यन् आत्मनः भोज्यम् अन्नम् विहितम् अस्य यत् । विधात्रा भृगु-शार्दूल क्षुधितस्य बुभुक्षतः ॥२३॥१।१६।२५
ādāsyan ātmanaḥ bhojyam annam vihitam asya yat . vidhātrā bhṛgu-śārdūla kṣudhitasya bubhukṣataḥ ..23..1.16.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In