| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥१॥
ताम् विदित्वा चिर-गताम् हिडिम्बः राक्षस-ईश्वरः । अवतीर्य द्रुमात् तस्मात् आजगाम अथ पाण्डवान् ॥१॥
tām viditvā cira-gatām hiḍimbaḥ rākṣasa-īśvaraḥ . avatīrya drumāt tasmāt ājagāma atha pāṇḍavān ..1..
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥२॥
लोहित-अक्षः महा-बाहुः ऊर्ध्व-केशः महा-बलः । मेघ-सङ्घात-वर्ष्मा च तीक्ष्ण-दंष्ट्र-उज्ज्वल-आननः ॥२॥
lohita-akṣaḥ mahā-bāhuḥ ūrdhva-keśaḥ mahā-balaḥ . megha-saṅghāta-varṣmā ca tīkṣṇa-daṃṣṭra-ujjvala-ānanaḥ ..2..
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥३॥
तम् आपतन्तम् दृष्ट्वा एव तथा विकृत-दर्शनम् । हिडिम्बा उवाच वित्रस्ता भीमसेनम् इदम् वचः ॥३॥
tam āpatantam dṛṣṭvā eva tathā vikṛta-darśanam . hiḍimbā uvāca vitrastā bhīmasenam idam vacaḥ ..3..
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥४॥
आपतति एष दुष्ट-आत्मा सङ्क्रुद्धः पुरुषादकः । त्वाम् अहम् भ्रातृभिः सार्धम् यत् ब्रवीमि तथा कुरु ॥४॥
āpatati eṣa duṣṭa-ātmā saṅkruddhaḥ puruṣādakaḥ . tvām aham bhrātṛbhiḥ sārdham yat bravīmi tathā kuru ..4..
अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥५॥
अहम् काम-गमा वीर रक्षः-बल-समन्विता । आरुह इमाम् मम श्रोणीम् नेष्यामि त्वाम् विहायसा ॥५॥
aham kāma-gamā vīra rakṣaḥ-bala-samanvitā . āruha imām mama śroṇīm neṣyāmi tvām vihāyasā ..5..
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥६॥
प्रबोधय एनान् संसुप्तान् मातरम् च परन्तप । सर्वान् एव गमिष्यामि गृहीत्वा वः विहायसा ॥६॥
prabodhaya enān saṃsuptān mātaram ca parantapa . sarvān eva gamiṣyāmi gṛhītvā vaḥ vihāyasā ..6..
भीम उवाच॥
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥७॥
मा भैः त्वम् विपुल-श्रोणि न एष कश्चिद् मयि स्थिते । अहम् एनम् हनिष्यामि प्रेक्षन्त्याः ते सुमध्यमे ॥७॥
mā bhaiḥ tvam vipula-śroṇi na eṣa kaścid mayi sthite . aham enam haniṣyāmi prekṣantyāḥ te sumadhyame ..7..
नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥८॥
न अयम् प्रतिबलः भीरु राक्षस-अपसदः मम । सोढुम् युधि परिस्पन्दम् अथवा सर्व-राक्षसाः ॥८॥
na ayam pratibalaḥ bhīru rākṣasa-apasadaḥ mama . soḍhum yudhi parispandam athavā sarva-rākṣasāḥ ..8..
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥९॥
पश्य बाहू सु वृत्तौ मे हस्ति-हस्त-निभौ इमौ । ऊरू परिघ-सङ्काशौ संहतम् च अपि उरः मम ॥९॥
paśya bāhū su vṛttau me hasti-hasta-nibhau imau . ūrū parigha-saṅkāśau saṃhatam ca api uraḥ mama ..9..
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥१०॥
विक्रमम् मे यथा इन्द्रस्य सा अद्य द्रक्ष्यसि शोभने । मा अवमंस्थाः पृथु-श्रोणि मत्वा माम् इह मानुषम् ॥१०॥
vikramam me yathā indrasya sā adya drakṣyasi śobhane . mā avamaṃsthāḥ pṛthu-śroṇi matvā mām iha mānuṣam ..10..
हिडिम्बोवाच॥
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥११॥
न अवमन्ये नर-व्याघ्र त्वाम् अहम् देव-रूपिणम् । दृष्ट-अपदानः तु मया मानुषेषु एव राक्षसः ॥११॥
na avamanye nara-vyāghra tvām aham deva-rūpiṇam . dṛṣṭa-apadānaḥ tu mayā mānuṣeṣu eva rākṣasaḥ ..11..
वैशम्पायन उवाच॥
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥१२॥
तथा सञ्जल्पतः तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धः राक्षसः पुरुषादकः ॥१२॥
tathā sañjalpataḥ tasya bhīmasenasya bhārata . vācaḥ śuśrāva tāḥ kruddhaḥ rākṣasaḥ puruṣādakaḥ ..12..
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥१३॥
अवेक्षमाणः तस्याः च हिडिम्बः मानुषम् वपुः । स्रज्-दाम-पूरित-शिखम् समग्र-इन्दु-निभ-आननम् ॥१३॥
avekṣamāṇaḥ tasyāḥ ca hiḍimbaḥ mānuṣam vapuḥ . sraj-dāma-pūrita-śikham samagra-indu-nibha-ānanam ..13..
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥१४॥
सु भ्रू-नासा-अक्षि-केश-अन्तम् सुकुमार-नख-त्वचम् । सर्व-आभरण-संयुक्तम् सु सूक्ष्म-अम्बर-वाससम् ॥१४॥
su bhrū-nāsā-akṣi-keśa-antam sukumāra-nakha-tvacam . sarva-ābharaṇa-saṃyuktam su sūkṣma-ambara-vāsasam ..14..
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥१५॥
ताम् तथा मानुषम् रूपम् बिभ्रतीम् सु मनोहरम् । पुंस्कामाम् शङ्कमानः च चुक्रोध पुरुषादकः ॥१५॥
tām tathā mānuṣam rūpam bibhratīm su manoharam . puṃskāmām śaṅkamānaḥ ca cukrodha puruṣādakaḥ ..15..
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥१६॥
सङ्क्रुद्धः राक्षसः तस्याः भगिन्याः कुरु-सत्तम । उत्फाल्य विपुले नेत्रे ततस् ताम् इदम् अब्रवीत् ॥१६॥
saṅkruddhaḥ rākṣasaḥ tasyāḥ bhaginyāḥ kuru-sattama . utphālya vipule netre tatas tām idam abravīt ..16..
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥१७॥
कः हि मे भोक्तु-कामस्य विघ्नम् चरति दुर्मतिः । न बिभेषि हिडिम्बे किम् मद्-कोपात् विप्रमोहिता ॥१७॥
kaḥ hi me bhoktu-kāmasya vighnam carati durmatiḥ . na bibheṣi hiḍimbe kim mad-kopāt vipramohitā ..17..
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥१८॥
धिक् त्वाम् असति पुंस्कामे मम विप्रिय-कारिणि । पूर्वेषाम् राक्षस-इन्द्राणाम् सर्वेषाम् अयशस्करि ॥१८॥
dhik tvām asati puṃskāme mama vipriya-kāriṇi . pūrveṣām rākṣasa-indrāṇām sarveṣām ayaśaskari ..18..
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥१९॥
यान् इमान् आश्रित अकार्षीः अप्रियम् सु महत् मम । एष तान् अद्य वै सर्वान् हनिष्यामि त्वया सह ॥१९॥
yān imān āśrita akārṣīḥ apriyam su mahat mama . eṣa tān adya vai sarvān haniṣyāmi tvayā saha ..19..
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥२०॥
एवम् उक्त्वा हिडिम्बाम् स हिडिम्बः लोहित-ईक्षणः । वधाय अभिपपात एनाम् दन्तैः दन्तान् उपस्पृशन् ॥२०॥
evam uktvā hiḍimbām sa hiḍimbaḥ lohita-īkṣaṇaḥ . vadhāya abhipapāta enām dantaiḥ dantān upaspṛśan ..20..
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥२१॥1.152.21
तम् आपतन्तम् सम्प्रेक्ष्य भीमः प्रहरताम् वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठ इति च अब्रवीत् ॥२१॥१।१५२।२१
tam āpatantam samprekṣya bhīmaḥ praharatām varaḥ . bhartsayāmāsa tejasvī tiṣṭha tiṣṭha iti ca abravīt ..21..1.152.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In