| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥१॥1.152.22
भीमसेनः तु तम् दृष्ट्वा राक्षसम् प्रहसन् इव । भगिनीम् प्रति सङ्क्रुद्धम् इदम् वचनम् अब्रवीत् ॥१॥१।१५२।२२
bhīmasenaḥ tu tam dṛṣṭvā rākṣasam prahasan iva . bhaginīm prati saṅkruddham idam vacanam abravīt ..1..1.152.22
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥२॥
किम् ते हिडिम्बे एतैः वा सुख-सुप्तैः प्रबोधितैः । माम् आसादय दुर्बुद्धे तरसा त्वम् नर-अशन ॥२॥
kim te hiḍimbe etaiḥ vā sukha-suptaiḥ prabodhitaiḥ . mām āsādaya durbuddhe tarasā tvam nara-aśana ..2..
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥३॥
मयि एव प्रहर एहि त्वम् न स्त्रियम् हन्तुम् अर्हसि । विशेषतः अनपकृते परेण अपकृते सति ॥३॥
mayi eva prahara ehi tvam na striyam hantum arhasi . viśeṣataḥ anapakṛte pareṇa apakṛte sati ..3..
न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥४॥ ( भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥४॥ )
न हि इयम् स्व-वशा बाला कामयति अद्य माम् इह । चोदिता एषा हि अनङ्गेन शरीर-अन्तर-चारिणा ॥४॥ ( भगिनी तव दुर्बुद्धे राक्षसानाम् यशः-हर ॥४॥ )
na hi iyam sva-vaśā bālā kāmayati adya mām iha . coditā eṣā hi anaṅgena śarīra-antara-cāriṇā ..4.. ( bhaginī tava durbuddhe rākṣasānām yaśaḥ-hara ..4.. )
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥५॥
त्वद्-नियोगेन च एवा इयम् रूपम् मम समीक्ष्य च । कामयति अद्य माम् भीरुः न एषा दूषयते कुलम् ॥५॥
tvad-niyogena ca evā iyam rūpam mama samīkṣya ca . kāmayati adya mām bhīruḥ na eṣā dūṣayate kulam ..5..
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥६॥
अनङ्गेन कृते दोषे न इमाम् त्वम् इह राक्षस । मयि तिष्ठति दुष्ट-आत्मन् न स्त्रियम् हन्तुम् अर्हसि ॥६॥
anaṅgena kṛte doṣe na imām tvam iha rākṣasa . mayi tiṣṭhati duṣṭa-ātman na striyam hantum arhasi ..6..
समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥७॥
समागच्छ मया सार्धम् एकेन एकः नर-अशन । अहम् एव नयिष्यामि त्वाम् अद्य यम-सादनम् ॥७॥
samāgaccha mayā sārdham ekena ekaḥ nara-aśana . aham eva nayiṣyāmi tvām adya yama-sādanam ..7..
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥८॥
अद्य ते तल-निष्पिष्टम् शिरः राक्षस दीर्यताम् । कुञ्जरस्य इव पादेन विनिष्पिष्टम् बलीयसः ॥८॥
adya te tala-niṣpiṣṭam śiraḥ rākṣasa dīryatām . kuñjarasya iva pādena viniṣpiṣṭam balīyasaḥ ..8..
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥९॥
अद्य गात्राणि क्रव्यादाः श्येनाः गोमायवः च ते । कर्षन्तु भुवि संहृष्टाः निहतस्य मया मृधे ॥९॥
adya gātrāṇi kravyādāḥ śyenāḥ gomāyavaḥ ca te . karṣantu bhuvi saṃhṛṣṭāḥ nihatasya mayā mṛdhe ..9..
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥१०॥
क्षणेन अद्य करिष्ये अहम् इदम् वनम् अकण्टकम् । पुरस्तात् दूषितम् नित्यम् त्वया भक्षयता नरान् ॥१०॥
kṣaṇena adya kariṣye aham idam vanam akaṇṭakam . purastāt dūṣitam nityam tvayā bhakṣayatā narān ..10..
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥११॥
अद्य त्वाम् भगिनी पाप कृष्यमाणम् मया भुवि । द्रक्षति अद्रि-प्रतीकाशम् सिंहेन इव महा-द्विपम् ॥११॥
adya tvām bhaginī pāpa kṛṣyamāṇam mayā bhuvi . drakṣati adri-pratīkāśam siṃhena iva mahā-dvipam ..11..
निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥१२॥
निराबाधाः त्वयि हते मया राक्षस-पांसन । वनम् एतत् चरिष्यन्ति पुरुषाः वन-चारिणः ॥१२॥
nirābādhāḥ tvayi hate mayā rākṣasa-pāṃsana . vanam etat cariṣyanti puruṣāḥ vana-cāriṇaḥ ..12..
हिडिम्ब उवाच॥
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥१३॥
गर्जितेन वृथा किम् ते कत्थितेन च मानुष । कृत्वा एतत् कर्मणा सर्वम् कत्थेथाः मा चिरम् कृथाः ॥१३॥
garjitena vṛthā kim te katthitena ca mānuṣa . kṛtvā etat karmaṇā sarvam katthethāḥ mā ciram kṛthāḥ ..13..
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥१४॥
बलिनम् मन्यसे यत् च आत्मानम् अपराक्रमम् । ज्ञास्यसि अद्य समागम्य मया आत्मानम् बल-अधिकम् ॥१४॥
balinam manyase yat ca ātmānam aparākramam . jñāsyasi adya samāgamya mayā ātmānam bala-adhikam ..14..
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥१५॥
न तावत् एतान् हिंसिष्ये स्वपन्तु एते यथासुखम् । एष त्वाम् एव दुर्बुद्धे निहन्मि अद्य अप्रियंवदम् ॥१५॥
na tāvat etān hiṃsiṣye svapantu ete yathāsukham . eṣa tvām eva durbuddhe nihanmi adya apriyaṃvadam ..15..
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥१६॥
पीत्वा तव असृज्-गात्रेभ्यः ततस् पश्चात् इमान् अपि । हनिष्यामि ततस् पश्चात् इमाम् विप्रिय-कारिणीम् ॥१६॥
pītvā tava asṛj-gātrebhyaḥ tatas paścāt imān api . haniṣyāmi tatas paścāt imām vipriya-kāriṇīm ..16..
वैशम्पायन उवाच॥
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥१७॥
एवम् उक्त्वा ततस् बाहुम् प्रगृह्य पुरुषादकः । अभ्यधावत सङ्क्रुद्धः भीमसेनम् अरिंदमम् ॥१७॥
evam uktvā tatas bāhum pragṛhya puruṣādakaḥ . abhyadhāvata saṅkruddhaḥ bhīmasenam ariṃdamam ..17..
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥१८॥
तस्य अभिपततः तूर्णम् भीमः भीम-पराक्रमः । वेगेन प्रहृतम् बाहुम् निजग्राह हसन् इव ॥१८॥
tasya abhipatataḥ tūrṇam bhīmaḥ bhīma-parākramaḥ . vegena prahṛtam bāhum nijagrāha hasan iva ..18..
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥१९॥
निगृह्य तम् बलात् भीमः विस्फुरन्तम् चकर्ष ह । तस्मात् देशात् धनूंषि अष्टौ सिंहः क्षुद्र-मृगम् यथा ॥१९॥
nigṛhya tam balāt bhīmaḥ visphurantam cakarṣa ha . tasmāt deśāt dhanūṃṣi aṣṭau siṃhaḥ kṣudra-mṛgam yathā ..19..
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥२०॥
ततस् स राक्षसः क्रुद्धः पाण्डवेन बलात् हृतः । भीमसेनम् समालिङ्ग्य व्यनदत् भैरवम् रवम् ॥२०॥
tatas sa rākṣasaḥ kruddhaḥ pāṇḍavena balāt hṛtaḥ . bhīmasenam samāliṅgya vyanadat bhairavam ravam ..20..
पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ॥२१॥
पुनर् भीमः बलात् एनम् विचकर्ष महा-बलः । मा शब्दः सुख-सुप्तानाम् भ्रातृणाम् मे भवेत् इति ॥२१॥
punar bhīmaḥ balāt enam vicakarṣa mahā-balaḥ . mā śabdaḥ sukha-suptānām bhrātṛṇām me bhavet iti ..21..
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥२२॥
अन्योन्यम् तौ समासाद्य विचकर्षतुः ओजसा । राक्षसः भीमसेनः च विक्रमम् चक्रतुः परम् ॥२२॥
anyonyam tau samāsādya vicakarṣatuḥ ojasā . rākṣasaḥ bhīmasenaḥ ca vikramam cakratuḥ param ..22..
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥२३॥
बभञ्जतुः महा-वृक्षान् लताः च आकर्षतुः ततस् । मत्तौ इव सु संरब्धौ वारणौ षष्टिहायनौ ॥२३॥
babhañjatuḥ mahā-vṛkṣān latāḥ ca ākarṣatuḥ tatas . mattau iva su saṃrabdhau vāraṇau ṣaṣṭihāyanau ..23..
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥२४॥1.152.45
तयोः शब्देन महता विबुद्धाः ते नर-ऋषभाः । सह मात्रा तु ददृशुः हिडिम्बाम् अग्रतस् स्थिताम् ॥२४॥१।१५२।४५
tayoḥ śabdena mahatā vibuddhāḥ te nara-ṛṣabhāḥ . saha mātrā tu dadṛśuḥ hiḍimbām agratas sthitām ..24..1.152.45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In