| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥१॥
प्रबुद्धाः ते हिडिम्बायाः रूपम् दृष्ट्वा अति मानुषम् । विस्मिताः पुरुष-व्याघ्राः बभूवुः पृथया सह ॥१॥
prabuddhāḥ te hiḍimbāyāḥ rūpam dṛṣṭvā ati mānuṣam . vismitāḥ puruṣa-vyāghrāḥ babhūvuḥ pṛthayā saha ..1..
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा । उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥२॥
ततस् कुन्ती समीक्ष्य एनाम् विस्मिता रूप-सम्पदा । उवाच मधुरम् वाक्यम् सान्त्व-पूर्वम् इदम् शनैस् ॥२॥
tatas kuntī samīkṣya enām vismitā rūpa-sampadā . uvāca madhuram vākyam sāntva-pūrvam idam śanais ..2..
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि । केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥३॥
कस्य त्वम् सुर-गर्भ-आभे का च असि वरवर्णिनि । केन कार्येण सुश्रोणि कुतस् च आगमनम् तव ॥३॥
kasya tvam sura-garbha-ābhe kā ca asi varavarṇini . kena kāryeṇa suśroṇi kutas ca āgamanam tava ..3..
यदि वास्य वनस्यासि देवता यदि वाप्सराः । आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥४॥
यदि वा अस्य वनस्य असि देवता यदि वा अप्सराः । आचक्ष्व मम तत् सर्वम् किमर्थम् च इह तिष्ठसि ॥४॥
yadi vā asya vanasya asi devatā yadi vā apsarāḥ . ācakṣva mama tat sarvam kimartham ca iha tiṣṭhasi ..4..
हिडिम्बोवाच॥
यदेतत्पश्यसि वनं नीलमेघनिभं महत् । निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥५॥
यत् एतत् पश्यसि वनम् नील-मेघ-निभम् महत् । निवासः राक्षसस्य एतत् हिडिम्बस्य मम एव च ॥५॥
yat etat paśyasi vanam nīla-megha-nibham mahat . nivāsaḥ rākṣasasya etat hiḍimbasya mama eva ca ..5..
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥६॥
तस्य माम् राक्षस-इन्द्रस्य भगिनीम् विद्धि भामिनि । भ्रात्रा सम्प्रेषिताम् आर्ये त्वाम् स पुत्राम् जिघांसता ॥६॥
tasya mām rākṣasa-indrasya bhaginīm viddhi bhāmini . bhrātrā sampreṣitām ārye tvām sa putrām jighāṃsatā ..6..
क्रूरबुद्धेरहं तस्य वचनादागता इह । अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥७॥
क्रूर-बुद्धेः अहम् तस्य वचनात् आगताः इह । अद्राक्षम् हेम-वर्ण-आभम् तव पुत्रम् महा-ओजसम् ॥७॥
krūra-buddheḥ aham tasya vacanāt āgatāḥ iha . adrākṣam hema-varṇa-ābham tava putram mahā-ojasam ..7..
ततोऽहं सर्वभूतानां भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥८॥
ततस् अहम् सर्व-भूतानाम् भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वश-अनुगा ॥८॥
tatas aham sarva-bhūtānām bhāve vicaratā śubhe . coditā tava putrasya manmathena vaśa-anugā ..8..
ततो वृतो मया भर्ता तव पुत्रो महाबलः । अपनेतुं च यतितो न चैव शकितो मया ॥९॥
ततस् वृतः मया भर्ता तव पुत्रः महा-बलः । अपनेतुम् च यतितः न च एव शकितः मया ॥९॥
tatas vṛtaḥ mayā bhartā tava putraḥ mahā-balaḥ . apanetum ca yatitaḥ na ca eva śakitaḥ mayā ..9..
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥१०॥
चिरायमाणाम् माम् ज्ञात्वा ततस् स पुरुषादकः । स्वयम् एव आगतः हन्तुम् इमान् सर्वान् तव आत्मजान् ॥१०॥
cirāyamāṇām mām jñātvā tatas sa puruṣādakaḥ . svayam eva āgataḥ hantum imān sarvān tava ātmajān ..10..
स तेन मम कान्तेन तव पुत्रेण धीमता । बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥११॥
स तेन मम कान्तेन तव पुत्रेण धीमता । बलात् इतस् विनिष्पिष्य व्यपकृष्टः महात्मना ॥११॥
sa tena mama kāntena tava putreṇa dhīmatā . balāt itas viniṣpiṣya vyapakṛṣṭaḥ mahātmanā ..11..
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥१२॥
विकर्षन्तौ महा-वेगौ गर्जमानौ परस्परम् । पश्यध्वम् युधि विक्रान्तौ एतौ तौ नर-राक्षसौ ॥१२॥
vikarṣantau mahā-vegau garjamānau parasparam . paśyadhvam yudhi vikrāntau etau tau nara-rākṣasau ..12..
वैशम्पायन उवाच॥
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥१३॥
तस्याः श्रुत्वा एव वचनम् उत्पपात युधिष्ठिरः । अर्जुनः नकुलः च एव सहदेवः च वीर्यवान् ॥१३॥
tasyāḥ śrutvā eva vacanam utpapāta yudhiṣṭhiraḥ . arjunaḥ nakulaḥ ca eva sahadevaḥ ca vīryavān ..13..
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥१४॥
तौ ते ददृशुः आसक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयम् च एव सिंहौ इव रण-उत्कटौ ॥१४॥
tau te dadṛśuḥ āsaktau vikarṣantau parasparam . kāṅkṣamāṇau jayam ca eva siṃhau iva raṇa-utkaṭau ..14..
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् । दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥१५॥
तौ अन्योन्यम् समाश्लिष्य विकर्षन्तौ परस्परम् । दाव-अग्नि-धूम-सदृशम् चक्रतुः पार्थिवम् रजः ॥१५॥
tau anyonyam samāśliṣya vikarṣantau parasparam . dāva-agni-dhūma-sadṛśam cakratuḥ pārthivam rajaḥ ..15..
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ । विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥१६॥
वसुधा-रेणु-संवीतौ वसुधाधर-संनिभौ । विभ्राजेताम् यथा शैलौ नीहारेण अभिसंवृतौ ॥१६॥
vasudhā-reṇu-saṃvītau vasudhādhara-saṃnibhau . vibhrājetām yathā śailau nīhāreṇa abhisaṃvṛtau ..16..
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु । उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥१७॥
राक्षसेन तथा भीमम् क्लिश्यमानम् निरीक्ष्य तु । उवाच इदम् वचः पार्थः प्रहसन् शनकैस् इव ॥१७॥
rākṣasena tathā bhīmam kliśyamānam nirīkṣya tu . uvāca idam vacaḥ pārthaḥ prahasan śanakais iva ..17..
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् । समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥१८॥
भीम मा भैः महा-बाहो न त्वाम् बुध्यामहे वयम् । समेतम् भीम-रूपेण प्रसुप्ताः श्रम-कर्शिताः ॥१८॥
bhīma mā bhaiḥ mahā-bāho na tvām budhyāmahe vayam . sametam bhīma-rūpeṇa prasuptāḥ śrama-karśitāḥ ..18..
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥१९॥
साहाय्ये अस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवः च मातरम् गोपयिष्यतः ॥१९॥
sāhāyye asmi sthitaḥ pārtha yodhayiṣyāmi rākṣasam . nakulaḥ sahadevaḥ ca mātaram gopayiṣyataḥ ..19..
भीम उवाच॥
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया । न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥२०॥
उदासीनः निरीक्षस्व न कार्यः सम्भ्रमः त्वया । न जातु अयम् पुनर् जीवेत् मद्-बाहु-अन्तरम् आगतः ॥२०॥
udāsīnaḥ nirīkṣasva na kāryaḥ sambhramaḥ tvayā . na jātu ayam punar jīvet mad-bāhu-antaram āgataḥ ..20..
अर्जुन उवाच॥
किमनेन चिरं भीम जीवता पापरक्षसा । गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥२१॥
किम् अनेन चिरम् भीम जीवता पाप-रक्षसा । गन्तव्यम् न चिरम् स्थातुम् इह शक्यम् अरिंदम ॥२१॥
kim anena ciram bhīma jīvatā pāpa-rakṣasā . gantavyam na ciram sthātum iha śakyam ariṃdama ..21..
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥२२॥
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥२२॥
purā saṃrajyate prācī purā sandhyā pravartate . raudre muhūrte rakṣāṃsi prabalāni bhavanti ca ..22..
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥२३॥
त्वरस्व भीम मा क्रीड जहि रक्षः विभीषणम् । पुरा विकुरुते मायाम् भुजयोः सारम् अर्पय ॥२३॥
tvarasva bhīma mā krīḍa jahi rakṣaḥ vibhīṣaṇam . purā vikurute māyām bhujayoḥ sāram arpaya ..23..
वैशम्पायन उवाच॥
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः । उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥२४॥
अर्जुनेन एवम् उक्तः तु भीमः भीमस्य रक्षसः । उत्क्षिप्य अभ्रामयत् देहम् तूर्णम् गुण-शत-अधिकम् ॥२४॥
arjunena evam uktaḥ tu bhīmaḥ bhīmasya rakṣasaḥ . utkṣipya abhrāmayat deham tūrṇam guṇa-śata-adhikam ..24..
भीम उवाच॥
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥२५॥
वृथामांसैः वृथा पुष्टः वृथा वृद्धः वृथामतिः । वृथा मरणम् अर्हः त्वम् वृथा अद्य न भविष्यसि ॥२५॥
vṛthāmāṃsaiḥ vṛthā puṣṭaḥ vṛthā vṛddhaḥ vṛthāmatiḥ . vṛthā maraṇam arhaḥ tvam vṛthā adya na bhaviṣyasi ..25..
अर्जुन उवाच॥
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि । करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥२६॥
अथ वा मन्यसे भारम् त्वम् इमम् राक्षसम् युधि । करोमि तव साहाय्यम् शीघ्रम् एव निहन्यताम् ॥२६॥
atha vā manyase bhāram tvam imam rākṣasam yudhi . karomi tava sāhāyyam śīghram eva nihanyatām ..26..
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥२७॥
अथ वा अपि अहम् एव एनम् हनिष्यामि वृकोदर । कृत-कर्मा परिश्रान्तः साधु तावत् उपारम ॥२७॥
atha vā api aham eva enam haniṣyāmi vṛkodara . kṛta-karmā pariśrāntaḥ sādhu tāvat upārama ..27..
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः । निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥२८॥
तस्य तत् वचनम् श्रुत्वा भीमसेनः अत्यमर्षणः । निष्पिष्य एनम् बलात् भूमौ पशुमारम् अमारयत् ॥२८॥
tasya tat vacanam śrutvā bhīmasenaḥ atyamarṣaṇaḥ . niṣpiṣya enam balāt bhūmau paśumāram amārayat ..28..
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥२९॥
स मार्यमाणः भीमेन ननाद विपुलम् स्वनम् । पूरयन् तत् वनम् सर्वम् जल-आर्द्रः इव दुन्दुभिः ॥२९॥
sa māryamāṇaḥ bhīmena nanāda vipulam svanam . pūrayan tat vanam sarvam jala-ārdraḥ iva dundubhiḥ ..29..
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥३०॥
भुजाभ्याम् योक्त्रयित्वा तम् बलवान् पाण्डु-नन्दनः । मध्ये भङ्क्त्वा स बलवान् हर्षयामास पाण्डवान् ॥३०॥
bhujābhyām yoktrayitvā tam balavān pāṇḍu-nandanaḥ . madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān ..30..
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः । अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥३१॥
हिडिम्बम् निहतम् दृष्ट्वा संहृष्टाः ते तरस्विनः । अपूजयत् नर-व्याघ्रम् भीमसेनम् अरिंदमम् ॥३१॥
hiḍimbam nihatam dṛṣṭvā saṃhṛṣṭāḥ te tarasvinaḥ . apūjayat nara-vyāghram bhīmasenam ariṃdamam ..31..
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥३२॥
अभिपूज्य महात्मानम् भीमम् भीम-पराक्रमम् । पुनर् एव अर्जुनः वाक्यम् उवाच इदम् वृकोदरम् ॥३२॥
abhipūjya mahātmānam bhīmam bhīma-parākramam . punar eva arjunaḥ vākyam uvāca idam vṛkodaram ..32..
नदूरे नगरं मन्ये वनादस्मादहं प्रभो । शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥३३॥
न दूरे नगरम् मन्ये वनात् अस्मात् अहम् प्रभो । शीघ्रम् गच्छाम भद्रम् ते न नः विद्यात् सुयोधनः ॥३३॥
na dūre nagaram manye vanāt asmāt aham prabho . śīghram gacchāma bhadram te na naḥ vidyāt suyodhanaḥ ..33..
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः । प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥३४॥1.153.36
ततस् सर्वे तथा इति उक्त्वा सह मात्रा परन्तपाः । प्रययुः पुरुष-व्याघ्राः हिडिम्बा च एव राक्षसी ॥३४॥१।१५३।३६
tatas sarve tathā iti uktvā saha mātrā parantapāḥ . prayayuḥ puruṣa-vyāghrāḥ hiḍimbā ca eva rākṣasī ..34..1.153.36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In