| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीम उवाच॥
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥१॥
स्मरन्ति वैरम् रक्षांसि मायाम् आश्रित्य मोहिनीम् । हिडिम्बे व्रज पन्थानम् त्वम् वै भ्रातृ-निषेवितम् ॥१॥
smaranti vairam rakṣāṃsi māyām āśritya mohinīm . hiḍimbe vraja panthānam tvam vai bhrātṛ-niṣevitam ..1..
युधिष्ठिर उवाच॥
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥२॥
क्रुद्धः अपि पुरुष-व्याघ्र भीम मा स्म स्त्रियम् वधीः । शरीर-गुप्त्या अभ्यधिकम् धर्मम् गोपय पाण्डव ॥२॥
kruddhaḥ api puruṣa-vyāghra bhīma mā sma striyam vadhīḥ . śarīra-guptyā abhyadhikam dharmam gopaya pāṇḍava ..2..
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥३॥
वध-अभिप्रायम् आयान्तम् अवधीः त्वम् महा-बलम् । रक्षसः तस्य भगिनी किम् नः क्रुद्धा करिष्यति ॥३॥
vadha-abhiprāyam āyāntam avadhīḥ tvam mahā-balam . rakṣasaḥ tasya bhaginī kim naḥ kruddhā kariṣyati ..3..
वैशम्पायन उवाच॥
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥४॥
हिडिम्बा तु ततस् कुन्तीम् अभिवाद्य कृताञ्जलिः । युधिष्ठिरम् च कौन्तेयम् इदम् वचनम् अब्रवीत् ॥४॥
hiḍimbā tu tatas kuntīm abhivādya kṛtāñjaliḥ . yudhiṣṭhiram ca kaunteyam idam vacanam abravīt ..4..
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥५॥
आर्ये जानासि यत् दुःखम् इह स्त्रीणाम् अनङ्ग-जम् । तत् इदम् माम् अनुप्राप्तम् भीमसेन-कृतम् शुभे ॥५॥
ārye jānāsi yat duḥkham iha strīṇām anaṅga-jam . tat idam mām anuprāptam bhīmasena-kṛtam śubhe ..5..
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥६॥
सोढम् तत् परमम् दुःखम् मया काल-प्रतीक्षया । सः अयम् अभ्यागतः कालः भविता मे सुखाय वै ॥६॥
soḍham tat paramam duḥkham mayā kāla-pratīkṣayā . saḥ ayam abhyāgataḥ kālaḥ bhavitā me sukhāya vai ..6..
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥७॥
मया हि उत्सृज्य सुहृदः स्वधर्मम् स्व-जनम् तथा । वृतः अयम् पुरुष-व्याघ्रः तव पुत्रः पतिः शुभे ॥७॥
mayā hi utsṛjya suhṛdaḥ svadharmam sva-janam tathā . vṛtaḥ ayam puruṣa-vyāghraḥ tava putraḥ patiḥ śubhe ..7..
वरेणापि तथानेन त्वया चापि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥८॥
वरेण अपि तथा अनेन त्वया च अपि यशस्विनि । तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियाम् प्रति ॥८॥
vareṇa api tathā anena tvayā ca api yaśasvini . tathā bruvantī hi tadā pratyākhyātā kriyām prati ..8..
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा । भर्त्रानेन महाभागे संयोजय सुतेन ते ॥९॥
त्वम् माम् मूढा इति वा मत्वा भक्ता वा अनुगता इति वा । भर्त्रा अनेन महाभागे संयोजय सुतेन ते ॥९॥
tvam mām mūḍhā iti vā matvā bhaktā vā anugatā iti vā . bhartrā anena mahābhāge saṃyojaya sutena te ..9..
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् । पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥१०॥
तम् उपादाय गच्छेयम् यथा इष्टम् देव-रूपिणम् । पुनर् च एव आगमिष्यामि विश्रम्भम् कुरु मे शुभे ॥१०॥
tam upādāya gaccheyam yathā iṣṭam deva-rūpiṇam . punar ca eva āgamiṣyāmi viśrambham kuru me śubhe ..10..
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥११॥
अहम् हि मनसा ध्याता सर्वान् नेष्यामि वः सदा । वृजिने तारयिष्यामि दुर्गेषु च नर-ऋषभान् ॥११॥
aham hi manasā dhyātā sarvān neṣyāmi vaḥ sadā . vṛjine tārayiṣyāmi durgeṣu ca nara-ṛṣabhān ..11..
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः । यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥१२॥
पृष्ठेन वः वहिष्यामि शीघ्राम् गतिम् अभीप्सतः । यूयम् प्रसादम् कुरुत भीमसेनः भजेत माम् ॥१२॥
pṛṣṭhena vaḥ vahiṣyāmi śīghrām gatim abhīpsataḥ . yūyam prasādam kuruta bhīmasenaḥ bhajeta mām ..12..
आपदस्तरणे प्राणान्धारयेद्येन येन हि । सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥१३॥
आपदः तरणे प्राणान् धारयेत् येन येन हि । सर्वम् आदृत्य कर्तव्यम् तद्-धर्मम् अनुवर्तता ॥१३॥
āpadaḥ taraṇe prāṇān dhārayet yena yena hi . sarvam ādṛtya kartavyam tad-dharmam anuvartatā ..13..
आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः । व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥१४॥
आपत्सु यः धारयति ध्रमम् धर्म-विद्-उत्तमः । व्यसनम् हि एव धर्मस्य धर्मिणाम् आपद् उच्यते ॥१४॥
āpatsu yaḥ dhārayati dhramam dharma-vid-uttamaḥ . vyasanam hi eva dharmasya dharmiṇām āpad ucyate ..14..
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते । येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥१५॥
पुण्यम् प्राणान् धारयति पुण्यम् प्राण-दम् उच्यते । येन येन आचरेत् धर्मम् तस्मिन् गर्हा न विद्यते ॥१५॥
puṇyam prāṇān dhārayati puṇyam prāṇa-dam ucyate . yena yena ācaret dharmam tasmin garhā na vidyate ..15..
युधिष्ठिर उवाच॥
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः । स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥१६॥
एवम् एतत् यथा आत्थ त्वम् हिडिम्बे न अत्र संशयः । स्थातव्यम् तु त्वया धर्मे यथा ब्रूयाम् सुमध्यमे ॥१६॥
evam etat yathā āttha tvam hiḍimbe na atra saṃśayaḥ . sthātavyam tu tvayā dharme yathā brūyām sumadhyame ..16..
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥१७॥
स्नातम् कृत-आह्निकम् भद्रे कृत-कौतुकमङ्गलम् । भीमसेनम् भजेथाः त्वम् प्राक् अस्त-गमनात् रवेः ॥१७॥
snātam kṛta-āhnikam bhadre kṛta-kautukamaṅgalam . bhīmasenam bhajethāḥ tvam prāk asta-gamanāt raveḥ ..17..
अहःसु विहरानेन यथाकामं मनोजवा । अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥१८॥
अहःसु विहर अनेन यथाकामम् मनः-जवा । अयम् तु आनयितव्यः ते भीमसेनः सदा निशि ॥१८॥
ahaḥsu vihara anena yathākāmam manaḥ-javā . ayam tu ānayitavyaḥ te bhīmasenaḥ sadā niśi ..18..
वैशम्पायन उवाच॥
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥१९॥
तथा इति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा । भीमसेनम् उपादाय ऊर्ध्वम् आचक्रमे ततस् ॥१९॥
tathā iti tat pratijñāya hiḍimbā rākṣasī tadā . bhīmasenam upādāya ūrdhvam ācakrame tatas ..19..
शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥२०॥
शैल-शृङ्गेषु रम्येषु देवतायतनेषु च । मृग-पक्षि-विघुष्टेषु रमणीयेषु सर्वदा ॥२०॥
śaila-śṛṅgeṣu ramyeṣu devatāyataneṣu ca . mṛga-pakṣi-vighuṣṭeṣu ramaṇīyeṣu sarvadā ..20..
कृत्वा च परमं रूपं सर्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥२१॥
कृत्वा च परमम् रूपम् सर्व-आभरण-भूषिता । सञ्जल्पन्ती सुमधुरम् रमयामास पाण्डवम् ॥२१॥
kṛtvā ca paramam rūpam sarva-ābharaṇa-bhūṣitā . sañjalpantī sumadhuram ramayāmāsa pāṇḍavam ..21..
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥२२॥
तथा एव वन-दुर्गेषु पुष्पित-द्रुम-सानुषु । सरःसु रमणीयेषु पद्म-उत्पल-युतेषु च ॥२२॥
tathā eva vana-durgeṣu puṣpita-druma-sānuṣu . saraḥsu ramaṇīyeṣu padma-utpala-yuteṣu ca ..22..
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥२३॥
नदी-द्वीप-प्रदेशेषु वैडूर्य-सिकतासु च । सु तीर्थ-वन-तोयासु तथा गिरि-नदीषु च ॥२३॥
nadī-dvīpa-pradeśeṣu vaiḍūrya-sikatāsu ca . su tīrtha-vana-toyāsu tathā giri-nadīṣu ca ..23..
सगरस्य प्रदेशेषु मणिहेमचितेषु च । पत्तनेषु च रम्येषु महाशालवनेषु च ॥२४॥
सगरस्य प्रदेशेषु मणि-हेम-चितेषु च । पत्तनेषु च रम्येषु महा-शाल-वनेषु च ॥२४॥
sagarasya pradeśeṣu maṇi-hema-citeṣu ca . pattaneṣu ca ramyeṣu mahā-śāla-vaneṣu ca ..24..
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । गुह्यकानां निवासेषु तापसायतनेषु च ॥२५॥
देव-अरण्येषु पुण्येषु तथा पर्वत-सानुषु । गुह्यकानाम् निवासेषु तापस-आयतनेषु च ॥२५॥
deva-araṇyeṣu puṇyeṣu tathā parvata-sānuṣu . guhyakānām nivāseṣu tāpasa-āyataneṣu ca ..25..
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च । बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥२६॥
सर्व-ऋतु-फल-पुष्पेषु मानसेषु सरःसु च । बिभ्रती परमम् रूपम् रमयामास पाण्डवम् ॥२६॥
sarva-ṛtu-phala-puṣpeṣu mānaseṣu saraḥsu ca . bibhratī paramam rūpam ramayāmāsa pāṇḍavam ..26..
रमयन्ती तथा भीमं तत्र तत्र मनोजवा । प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥२७॥
रमयन्ती तथा भीमम् तत्र तत्र मनः-जवा । प्रजज्ञे राक्षसी पुत्रम् भीमसेनात् महा-बलम् ॥२७॥
ramayantī tathā bhīmam tatra tatra manaḥ-javā . prajajñe rākṣasī putram bhīmasenāt mahā-balam ..27..
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥२८॥
विरूप-अक्षम् महा-वक्त्रम् शङ्कु-कर्णम् विभीषणम् । भीम-रूपम् सु ताम्र-उष्ठम् तीक्ष्ण-दंष्ट्रम् महा-बलम् ॥२८॥
virūpa-akṣam mahā-vaktram śaṅku-karṇam vibhīṣaṇam . bhīma-rūpam su tāmra-uṣṭham tīkṣṇa-daṃṣṭram mahā-balam ..28..
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् । महाजवं महाकायं महामायमरिंदमम् ॥२९॥
महा-इष्वासम् महा-वीर्यम् महा-सत्त्वम् महा-भुजम् । महा-जवम् महा-कायम् महा-मायम् अरिंदमम् ॥२९॥
mahā-iṣvāsam mahā-vīryam mahā-sattvam mahā-bhujam . mahā-javam mahā-kāyam mahā-māyam ariṃdamam ..29..
अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥३०॥
अमानुषम् मानुष-जम् भीम-वेगम् महा-बलम् । यः पिशाचान् अतीव अन्यान् बभूव अति स मानुषान् ॥३०॥
amānuṣam mānuṣa-jam bhīma-vegam mahā-balam . yaḥ piśācān atīva anyān babhūva ati sa mānuṣān ..30..
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते । सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥३१॥
बालः अपि यौवनम् प्राप्तः मानुषेषु विशाम् पते । सर्व-अस्त्रेषु परम् वीरः प्रकर्षम् अगमत् बली ॥३१॥
bālaḥ api yauvanam prāptaḥ mānuṣeṣu viśām pate . sarva-astreṣu param vīraḥ prakarṣam agamat balī ..31..
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥३२॥
सद्यस् हि गर्भम् राक्षस्यः लभन्ते प्रसवन्ति च । काम-रूप-धराः च एव भवन्ति बहु-रूपिणः ॥३२॥
sadyas hi garbham rākṣasyaḥ labhante prasavanti ca . kāma-rūpa-dharāḥ ca eva bhavanti bahu-rūpiṇaḥ ..32..
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥३३॥
प्रणम्य विकचः पादौ अगृह्णात् स पितुः तदा । मातुः च परम-इष्वासः तौ च नाम अस्य चक्रतुः ॥३३॥
praṇamya vikacaḥ pādau agṛhṇāt sa pituḥ tadā . mātuḥ ca parama-iṣvāsaḥ tau ca nāma asya cakratuḥ ..33..
घटभासोत्कच इति मातरं सोऽभ्यभाषत । अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥३४॥
घट-भास-उत्कचः इति मातरम् सः अभ्यभाषत । अभवत् तेन नाम अस्य घटोत्कचः इति स्म ह ॥३४॥
ghaṭa-bhāsa-utkacaḥ iti mātaram saḥ abhyabhāṣata . abhavat tena nāma asya ghaṭotkacaḥ iti sma ha ..34..
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥३५॥
अनुरक्तः च तान् आसीत् पाण्डवान् स घटोत्कचः । तेषाम् च दयितः नित्यम् आत्म-भूतः बभूव सः ॥३५॥
anuraktaḥ ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ . teṣām ca dayitaḥ nityam ātma-bhūtaḥ babhūva saḥ ..35..
संवाससमयो जीर्ण इत्यभाषत तं ततः । हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥३६॥
संवास-समयः जीर्णः इति अभाषत तम् ततस् । हिडिम्बा समयम् कृत्वा स्वाम् गतिम् प्रत्यपद्यत ॥३६॥
saṃvāsa-samayaḥ jīrṇaḥ iti abhāṣata tam tatas . hiḍimbā samayam kṛtvā svām gatim pratyapadyata ..36..
कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः । आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥३७॥
कृत्य-काले उपस्थास्ये पितृन् इति घटोत्कचः । आमन्त्र्य राक्षस-श्रेष्ठः प्रतस्थे च उत्तराम् दिशम् ॥३७॥
kṛtya-kāle upasthāsye pitṛn iti ghaṭotkacaḥ . āmantrya rākṣasa-śreṣṭhaḥ pratasthe ca uttarām diśam ..37..
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना । कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥३८॥1.154.46
स हि सृष्टः मघवता शक्ति-हेतोः महात्मना । कर्णस्य अप्रतिवीर्यस्य विनाशाय महात्मनः ॥३८॥१।१५४।४६
sa hi sṛṣṭaḥ maghavatā śakti-hetoḥ mahātmanā . karṇasya aprativīryasya vināśāya mahātmanaḥ ..38..1.154.46

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In