| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥१॥
ते वनेन वनम् वीराः घ्नन्तः मृग-गणान् बहून् । अपक्रम्य ययुः राजन् त्वरमाणाः महा-रथाः ॥१॥
te vanena vanam vīrāḥ ghnantaḥ mṛga-gaṇān bahūn . apakramya yayuḥ rājan tvaramāṇāḥ mahā-rathāḥ ..1..
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥२॥
मत्स्यान् त्रिगर्तान् पाञ्चालान् कीचकान् अन्तरेण च । रमणीयान् वन-उद्देशान् प्रेक्षमाणाः सरांसि च ॥२॥
matsyān trigartān pāñcālān kīcakān antareṇa ca . ramaṇīyān vana-uddeśān prekṣamāṇāḥ sarāṃsi ca ..2..
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥३॥
जटाः कृत्वा आत्मनः सर्वे वल्कल-अजिन-वाससः । सह कुन्त्याः महात्मानः बिभ्रतः तापसम् वपुः ॥३॥
jaṭāḥ kṛtvā ātmanaḥ sarve valkala-ajina-vāsasaḥ . saha kuntyāḥ mahātmānaḥ bibhrataḥ tāpasam vapuḥ ..3..
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥४॥
क्वचिद् वहन्तः जननीम् त्वरमाणाः महा-रथाः । क्वचिद् छन्देन गच्छन्तः ते जग्मुः प्रसभम् पुनर् ॥४॥
kvacid vahantaḥ jananīm tvaramāṇāḥ mahā-rathāḥ . kvacid chandena gacchantaḥ te jagmuḥ prasabham punar ..4..
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥५॥
ब्राह्मम् वेदम् अधीयानाः वेदाङ्गानि च सर्वशस् । नीति-शास्त्रम् च धर्म-ज्ञाः ददृशुः ते पितामहम् ॥५॥
brāhmam vedam adhīyānāḥ vedāṅgāni ca sarvaśas . nīti-śāstram ca dharma-jñāḥ dadṛśuḥ te pitāmaham ..5..
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥६॥
ते अभिवाद्य महात्मानम् कृष्णद्वैपायनम् तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥६॥
te abhivādya mahātmānam kṛṣṇadvaipāyanam tadā . tasthuḥ prāñjalayaḥ sarve saha mātrā parantapāḥ ..6..
व्यास उवाच॥
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥७॥
मया इदम् मनसा पूर्वम् विदितम् भरत-ऋषभाः । यथा स्थितैः अधर्मेण धार्तराष्ट्रैः विवासिताः ॥७॥
mayā idam manasā pūrvam viditam bharata-ṛṣabhāḥ . yathā sthitaiḥ adharmeṇa dhārtarāṣṭraiḥ vivāsitāḥ ..7..
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् । न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥८॥
तत् विदित्वा अस्मि सम्प्राप्तः चिकीर्षुः परमम् हितम् । न विषादः अत्र कर्तव्यः सर्वम् एतत् सुखाय वः ॥८॥
tat viditvā asmi samprāptaḥ cikīrṣuḥ paramam hitam . na viṣādaḥ atra kartavyaḥ sarvam etat sukhāya vaḥ ..8..
समास्ते चैव मे सर्वे यूयं चैव न संशयः । दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥९॥
समास्ते च एव मे सर्वे यूयम् च एव न संशयः । दीनतः बालतः च एव स्नेहम् कुर्वन्ति बान्धवाः ॥९॥
samāste ca eva me sarve yūyam ca eva na saṃśayaḥ . dīnataḥ bālataḥ ca eva sneham kurvanti bāndhavāḥ ..9..
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् । स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥१०॥
तस्मात् अभ्यधिकः स्नेहः युष्मासु मम साम्प्रतम् । स्नेह-पूर्वम् चिकीर्षामि हितम् वः तत् निबोधत ॥१०॥
tasmāt abhyadhikaḥ snehaḥ yuṣmāsu mama sāmpratam . sneha-pūrvam cikīrṣāmi hitam vaḥ tat nibodhata ..10..
इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥११॥
इदम् नगरम् अभ्याशे रमणीयम् निरामयम् । वसत इह प्रतिच्छन्नाः मम आगमन-काङ्क्षिणः ॥११॥
idam nagaram abhyāśe ramaṇīyam nirāmayam . vasata iha praticchannāḥ mama āgamana-kāṅkṣiṇaḥ ..11..
वैशम्पायन उवाच॥
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् । एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥१२॥
एवम् स तान् समाश्वास्य व्यासः पार्थान् अरिंदमान् । एकचक्राम् अभिगतः कुन्तीम् आश्वासयत् प्रभुः ॥१२॥
evam sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān . ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ ..12..
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः । पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥१३॥
जीवपुत्रि सुतः ते अयम् धर्मपुत्रः युधिष्ठिरः । पृथिव्याम् पार्थिवान् सर्वान् प्रशासिष्यति धर्मराज् ॥१३॥
jīvaputri sutaḥ te ayam dharmaputraḥ yudhiṣṭhiraḥ . pṛthivyām pārthivān sarvān praśāsiṣyati dharmarāj ..13..
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥१४॥
धर्मेण जित्वा पृथिवीम् अखिलाम् धर्म-विद् वशी । भीमसेन-अर्जुन-बलात् भोक्ष्यति अयम् असंशयः ॥१४॥
dharmeṇa jitvā pṛthivīm akhilām dharma-vid vaśī . bhīmasena-arjuna-balāt bhokṣyati ayam asaṃśayaḥ ..14..
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥१५॥
पुत्राः तव च माद्र्याः च सर्वे एव महा-रथाः । स्व-राष्ट्रे विहरिष्यन्ति सुखम् सुमनसः तदा ॥१५॥
putrāḥ tava ca mādryāḥ ca sarve eva mahā-rathāḥ . sva-rāṣṭre vihariṣyanti sukham sumanasaḥ tadā ..15..
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥१६॥
यक्ष्यन्ति च नर-व्याघ्राः विजित्य पृथिवीम् इमाम् । राजसूय-अश्वमेध-आद्यैः क्रतुभिः भूरि-दक्षिणैः ॥१६॥
yakṣyanti ca nara-vyāghrāḥ vijitya pṛthivīm imām . rājasūya-aśvamedha-ādyaiḥ kratubhiḥ bhūri-dakṣiṇaiḥ ..16..
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥१७॥
अनुगृह्य सुहृद्-वर्गम् धनेन च सुखेन च । पितृपैतामहम् राज्यम् इह भोक्ष्यन्ति ते सुताः ॥१७॥
anugṛhya suhṛd-vargam dhanena ca sukhena ca . pitṛpaitāmaham rājyam iha bhokṣyanti te sutāḥ ..17..
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने । अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥१८॥
एवम् उक्त्वा निवेश्य एनान् ब्राह्मणस्य निवेशने । अब्रवीत् पार्थिव-श्रेष्ठम् ऋषिः द्वैपायनः तदा ॥१८॥
evam uktvā niveśya enān brāhmaṇasya niveśane . abravīt pārthiva-śreṣṭham ṛṣiḥ dvaipāyanaḥ tadā ..18..
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः । देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥१९॥
इह माम् सम्प्रतीक्षध्वम् आगमिष्यामि अहम् पुनर् । देश-कालौ विदित्वा एव वेत्स्यध्वम् परमाम् मुदम् ॥१९॥
iha mām sampratīkṣadhvam āgamiṣyāmi aham punar . deśa-kālau viditvā eva vetsyadhvam paramām mudam ..19..
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप । जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥२०॥1.155.19
स तैः प्राञ्जलिभिः सर्वैः तथा इति उक्तः नराधिप । जगाम भगवान् व्यासः यथाकामम् ऋषिः प्रभुः ॥२०॥१।१५५।१९
sa taiḥ prāñjalibhiḥ sarvaiḥ tathā iti uktaḥ narādhipa . jagāma bhagavān vyāsaḥ yathākāmam ṛṣiḥ prabhuḥ ..20..1.155.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In