| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥१॥
एकचक्राम् गताः ते तु कुन्ती-पुत्राः महा-रथाः । अतस् परम् द्विजश्रेष्ठ किम् अकुर्वत पाण्डवाः ॥१॥
ekacakrām gatāḥ te tu kuntī-putrāḥ mahā-rathāḥ . atas param dvijaśreṣṭha kim akurvata pāṇḍavāḥ ..1..
वैशम्पायन उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥२॥
एकचक्राम् गताः ते तु कुन्ती-पुत्राः महा-रथाः । ऊषुः न अतिचिरम् कालम् ब्राह्मणस्य निवेशने ॥२॥
ekacakrām gatāḥ te tu kuntī-putrāḥ mahā-rathāḥ . ūṣuḥ na aticiram kālam brāhmaṇasya niveśane ..2..
रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥३॥
रमणीयानि पश्यन्तः वनानि विविधानि च । पार्थिवान् अपि च उद्देशान् सरितः च सरांसि च ॥३॥
ramaṇīyāni paśyantaḥ vanāni vividhāni ca . pārthivān api ca uddeśān saritaḥ ca sarāṃsi ca ..3..
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥४॥
चेरुः भैक्षम् तदा ते तु सर्वे एव विशाम् पते । बभूवुः नागराणाम् च स्वैः गुणैः प्रिय-दर्शनाः ॥४॥
ceruḥ bhaikṣam tadā te tu sarve eva viśām pate . babhūvuḥ nāgarāṇām ca svaiḥ guṇaiḥ priya-darśanāḥ ..4..
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥५॥
निवेदयन्ति स्म च ते भैक्षम् कुन्त्याः सदा निशि । तया विभक्तान् भागान् ते भुञ्जते स्म पृथक् पृथक् ॥५॥
nivedayanti sma ca te bhaikṣam kuntyāḥ sadā niśi . tayā vibhaktān bhāgān te bhuñjate sma pṛthak pṛthak ..5..
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥६॥
अर्धम् ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धम् भैक्षस्य सर्वस्य भीमः भुङ्क्ते महा-बलः ॥६॥
ardham te bhuñjate vīrāḥ saha mātrā parantapāḥ . ardham bhaikṣasya sarvasya bhīmaḥ bhuṅkte mahā-balaḥ ..6..
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥७॥
तथा तु तेषाम् वसताम् तत्र राजन् महात्मनाम् । अतिचक्राम सु महान् कालः अथ भरत-ऋषभ ॥७॥
tathā tu teṣām vasatām tatra rājan mahātmanām . aticakrāma su mahān kālaḥ atha bharata-ṛṣabha ..7..
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥८॥
ततस् कदाचिद् भैक्षाय गताः ते भरत-ऋषभाः । सङ्गत्या भीमसेनः तु तत्र आस्ते पृथया सह ॥८॥
tatas kadācid bhaikṣāya gatāḥ te bharata-ṛṣabhāḥ . saṅgatyā bhīmasenaḥ tu tatra āste pṛthayā saha ..8..
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥९॥
अथ आर्ति-जम् महा-शब्दम् ब्राह्मणस्य निवेशने । भृशम् उत्पतितम् घोरम् कुन्ती शुश्राव भारत ॥९॥
atha ārti-jam mahā-śabdam brāhmaṇasya niveśane . bhṛśam utpatitam ghoram kuntī śuśrāva bhārata ..9..
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥१०॥
रोरूयमाणान् तान् सर्वान् परिदेवयतः च सा । कारुण्यात् साधु-भावात् च देवी राजन् न चक्षमे ॥१०॥
rorūyamāṇān tān sarvān paridevayataḥ ca sā . kāruṇyāt sādhu-bhāvāt ca devī rājan na cakṣame ..10..
मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥११॥
मथ्यमाना इव दुःखेन हृदयेन पृथा ततस् । उवाच भीमम् कल्याणी कृपा-अन्वितम् इदम् वचः ॥११॥
mathyamānā iva duḥkhena hṛdayena pṛthā tatas . uvāca bhīmam kalyāṇī kṛpā-anvitam idam vacaḥ ..11..
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥१२॥
वसामः सु सुखम् पुत्र ब्राह्मणस्य निवेशने । अज्ञाताः धार्तराष्ट्राणाम् सत्कृताः वीत-मन्यवः ॥१२॥
vasāmaḥ su sukham putra brāhmaṇasya niveśane . ajñātāḥ dhārtarāṣṭrāṇām satkṛtāḥ vīta-manyavaḥ ..12..
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥१३॥
सा चिन्तये सदा पुत्र ब्राह्मणस्य अस्य किम् नु अहम् । प्रियम् कुर्याम् इति गृहे यत् कुर्युः उषिताः सुखम् ॥१३॥
sā cintaye sadā putra brāhmaṇasya asya kim nu aham . priyam kuryām iti gṛhe yat kuryuḥ uṣitāḥ sukham ..13..
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥१४॥
एतावान् पुरुषः तात कृतम् यस्मिन् न नश्यति । यावत् च कुर्यात् अन्यः अस्य कुर्यात् अभ्यधिकम् ततस् ॥१४॥
etāvān puruṣaḥ tāta kṛtam yasmin na naśyati . yāvat ca kuryāt anyaḥ asya kuryāt abhyadhikam tatas ..14..
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥१५॥
तत् इदम् ब्राह्मणस्य अस्य दुःखम् आपतितम् ध्रुवम् । तत्र अस्य यदि साहाय्यम् कुर्याम सुकृतम् भवेत् ॥१५॥
tat idam brāhmaṇasya asya duḥkham āpatitam dhruvam . tatra asya yadi sāhāyyam kuryāma sukṛtam bhavet ..15..
भीम उवाच॥
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥१६॥
ज्ञायताम् अस्य यत् दुःखम् यतस् च एव समुत्थितम् । विदिते व्यवसिष्यामि यदि अपि स्यात् सु दुष्करम् ॥१६॥
jñāyatām asya yat duḥkham yatas ca eva samutthitam . vidite vyavasiṣyāmi yadi api syāt su duṣkaram ..16..
वैशम्पायन उवाच॥
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥१७॥
तथा हि कथयन्तौ तौ भूयस् शुश्रुवतुः स्वनम् । आर्ति-जम् तस्य विप्रस्य स भार्यस्य विशाम् पते ॥१७॥
tathā hi kathayantau tau bhūyas śuśruvatuḥ svanam . ārti-jam tasya viprasya sa bhāryasya viśām pate ..17..
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥१८॥
अन्तःपुरम् ततस् तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्ध-वत्सा इव सौरभी ॥१८॥
antaḥpuram tatas tasya brāhmaṇasya mahātmanaḥ . viveśa kuntī tvaritā baddha-vatsā iva saurabhī ..18..
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥१९॥
ततस् तम् ब्राह्मणम् तत्र भार्यया च सुतेन च । दुहित्रा च एव सहितम् ददर्श विकृत-आननम् ॥१९॥
tatas tam brāhmaṇam tatra bhāryayā ca sutena ca . duhitrā ca eva sahitam dadarśa vikṛta-ānanam ..19..
ब्राह्मण उवाच॥
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥२०॥
धिक् इदम् जीवितम् लोके अनल-सारम् अनर्थकम् । दुःख-मूलम् पर-अधीनम् भृशम् अप्रिय-भागि च ॥२०॥
dhik idam jīvitam loke anala-sāram anarthakam . duḥkha-mūlam para-adhīnam bhṛśam apriya-bhāgi ca ..20..
जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥२१॥
जीविते परमम् दुःखम् जीविते परमः ज्वरः । जीविते वर्तमानस्य द्वन्द्वानाम् आगमः ध्रुवः ॥२१॥
jīvite paramam duḥkham jīvite paramaḥ jvaraḥ . jīvite vartamānasya dvandvānām āgamaḥ dhruvaḥ ..21..
एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥२२॥
एकात्मा अपि हि धर्म-अर्थौ कामम् च न निषेवते । एतैः च विप्रयोगः अपि दुःखम् परमकम् मतम् ॥२२॥
ekātmā api hi dharma-arthau kāmam ca na niṣevate . etaiḥ ca viprayogaḥ api duḥkham paramakam matam ..22..
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥२३॥
आहुः केचिद् परम् मोक्षम् स च ना अस्ति कथञ्चन । अर्थ-प्राप्तौ च नरकः कृत्स्नः एव उपपद्यते ॥२३॥
āhuḥ kecid param mokṣam sa ca nā asti kathañcana . artha-prāptau ca narakaḥ kṛtsnaḥ eva upapadyate ..23..
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥२४॥
अर्थ-ईप्सु-ता परम् दुःखम् अर्थ-प्राप्तौ ततस् अधिकम् । जात-स्नेहस्य च अर्थेषु विप्रयोगे महत्तरम् ॥२४॥
artha-īpsu-tā param duḥkham artha-prāptau tatas adhikam . jāta-snehasya ca artheṣu viprayoge mahattaram ..24..
न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥२५॥
न हि योगम् प्रपश्यामि येन मुच्येयम् आपदः । पुत्र-दारेण वा सार्धम् प्राद्रवेयाम् अनामयम् ॥२५॥
na hi yogam prapaśyāmi yena mucyeyam āpadaḥ . putra-dāreṇa vā sārdham prādraveyām anāmayam ..25..
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥२६॥
यतितम् वै मया पूर्वम् यथा त्वम् वेत्थ ब्राह्मणि । यतस् क्षेमम् ततस् गन्तुम् त्वया तु मम न श्रुतम् ॥२६॥
yatitam vai mayā pūrvam yathā tvam vettha brāhmaṇi . yatas kṣemam tatas gantum tvayā tu mama na śrutam ..26..
इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥२७॥
इह जाता विवृद्धा अस्मि पिता च इह मम इति च । उक्तवती असि दुर्मेधे याच्यमाना मया असकृत् ॥२७॥
iha jātā vivṛddhā asmi pitā ca iha mama iti ca . uktavatī asi durmedhe yācyamānā mayā asakṛt ..27..
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥२८॥
स्वर् गतः हि पिता वृद्धः तथा माता चिरम् तव । बान्धवाः भूतपूर्वाः च तत्र वासे तु का रतिः ॥२८॥
svar gataḥ hi pitā vṛddhaḥ tathā mātā ciram tava . bāndhavāḥ bhūtapūrvāḥ ca tatra vāse tu kā ratiḥ ..28..
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥२९॥
सः अयम् ते बन्धु-कामायाः अ शृण्वन्त्याः वचः मम । बन्धु-प्रणाशः सम्प्राप्तः भृशम् दुःख-करः मम ॥२९॥
saḥ ayam te bandhu-kāmāyāḥ a śṛṇvantyāḥ vacaḥ mama . bandhu-praṇāśaḥ samprāptaḥ bhṛśam duḥkha-karaḥ mama ..29..
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥३०॥
अथवा मद्-विनाशः अयम् न हि शक्ष्यामि कञ्चन । परित्यक्तुम् अहम् बन्धुम् स्वयम् जीवन् नृशंस-वत् ॥३०॥
athavā mad-vināśaḥ ayam na hi śakṣyāmi kañcana . parityaktum aham bandhum svayam jīvan nṛśaṃsa-vat ..30..
सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥३१॥
सहधर्म-चरीम् दान्ताम् नित्यम् मातृ-समाम् मम । सखायम् अयम् विहिताम् देवैः नित्यम् परमिकाम् गतिम् ॥३१॥
sahadharma-carīm dāntām nityam mātṛ-samām mama . sakhāyam ayam vihitām devaiḥ nityam paramikām gatim ..31..
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥३२॥
मात्रा पित्रा च विहिताम् सदा गार्हस्थ्य-भागिनीम् । वरयित्वा यथान्यायम् मन्त्रवत् परिणीय च ॥३२॥
mātrā pitrā ca vihitām sadā gārhasthya-bhāginīm . varayitvā yathānyāyam mantravat pariṇīya ca ..32..
कुलीनां शीलसम्पन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥३३॥ ( परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥३३॥ )
कुलीनाम् शील-सम्पन्नाम् अपत्य-जननीम् मम । त्वाम् अहम् जीवितस्य अर्थे साध्वीम् अनपकारिणीम् ॥३३॥ ( परित्यक्तुम् न शक्ष्यामि भार्याम् नित्यम् अनुव्रताम् ॥३३॥ )
kulīnām śīla-sampannām apatya-jananīm mama . tvām aham jīvitasya arthe sādhvīm anapakāriṇīm ..33.. ( parityaktum na śakṣyāmi bhāryām nityam anuvratām ..33.. )
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥३४॥
कुतस् एव परित्यक्तुम् सुताम् शक्ष्यामि अहम् स्वयम् । बालाम् अप्राप्त-वयसम् अजात-व्यञ्जन-आकृतिम् ॥३४॥
kutas eva parityaktum sutām śakṣyāmi aham svayam . bālām aprāpta-vayasam ajāta-vyañjana-ākṛtim ..34..
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ॥३५॥ ( स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥३५॥ )
भर्तुः अर्थाय निक्षिप्ताम् न्यासम् धात्रा महात्मना । यस्याम् दौहित्र-जान् लोकान् आशंसे पितृभिः सह ॥३५॥ ( स्वयम् उत्पाद्य ताम् बालाम् कथम् उत्स्रष्टुम् उत्सहे ॥३५॥ )
bhartuḥ arthāya nikṣiptām nyāsam dhātrā mahātmanā . yasyām dauhitra-jān lokān āśaṃse pitṛbhiḥ saha ..35.. ( svayam utpādya tām bālām katham utsraṣṭum utsahe ..35.. )
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥३६॥
मन्यन्ते केचिद् अधिकम् स्नेहम् पुत्रे पितुः नराः । कन्यायाम् ना एव तु पुनर् मम तुल्यौ उभौ मतौ ॥३६॥
manyante kecid adhikam sneham putre pituḥ narāḥ . kanyāyām nā eva tu punar mama tulyau ubhau matau ..36..
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥३७॥
यस्मिन् लोकाः प्रसूतिः च स्थिता नित्यम् अथो सुखम् । अपापाम् ताम् अहम् बालाम् कथम् उत्स्रष्टुम् उत्सहे ॥३७॥
yasmin lokāḥ prasūtiḥ ca sthitā nityam atho sukham . apāpām tām aham bālām katham utsraṣṭum utsahe ..37..
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥३८॥
आत्मानम् अपि च उत्सृज्य तप्स्ये प्रेत-वशम् गतः । त्यक्ताः हि एते मया व्यक्तम् ना इह शक्ष्यन्ति जीवितुम् ॥३८॥
ātmānam api ca utsṛjya tapsye preta-vaśam gataḥ . tyaktāḥ hi ete mayā vyaktam nā iha śakṣyanti jīvitum ..38..
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥३९॥
एषाम् च अन्यतम-त्यागः नृशंसः गर्हितः बुधैः । आत्मत्यागे कृते च इमे मरिष्यन्ति मया विना ॥३९॥
eṣām ca anyatama-tyāgaḥ nṛśaṃsaḥ garhitaḥ budhaiḥ . ātmatyāge kṛte ca ime mariṣyanti mayā vinā ..39..
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ॥४०॥
स कृच्छ्राम् अहम् आपन्नः न शक्तः तर्तुम् आपदम् । अहो धिक्काम् गतिम् तु अद्य गमिष्यामि स बान्धवः ॥४०॥
sa kṛcchrām aham āpannaḥ na śaktaḥ tartum āpadam . aho dhikkām gatim tu adya gamiṣyāmi sa bāndhavaḥ ..40..
सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥४०॥1.156.41
सर्वैः सह मृतम् श्रेयः न तु मे जीवितम् क्षमम् ॥४०॥१।१५६।४१
sarvaiḥ saha mṛtam śreyaḥ na tu me jīvitam kṣamam ..40..1.156.41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In