| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्राह्मण्युवाच॥
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् । न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥१॥
न सन्तापः त्वया कार्यः प्राकृतेन इव कर्हिचित् । न हि सन्ताप-कालः अयम् वैद्यस्य तव विद्यते ॥१॥
na santāpaḥ tvayā kāryaḥ prākṛtena iva karhicit . na hi santāpa-kālaḥ ayam vaidyasya tava vidyate ..1..
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ॥२॥
अवश्यम् निधनम् सर्वैः गन्तव्यम् इह मानवैः । अवश्य-भाविनि अर्थे वै सन्तापः न इह विद्यते ॥२॥
avaśyam nidhanam sarvaiḥ gantavyam iha mānavaiḥ . avaśya-bhāvini arthe vai santāpaḥ na iha vidyate ..2..
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते । व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥३॥
भार्या पुत्रः अथ दुहिता सर्वम् आत्म-अर्थम् इष्यते । व्यथाम् जहि सु बुद्ध्या त्वम् स्वयम् यास्यामि तत्र वै ॥३॥
bhāryā putraḥ atha duhitā sarvam ātma-artham iṣyate . vyathām jahi su buddhyā tvam svayam yāsyāmi tatra vai ..3..
एतद्धि परमं नार्याः कार्यं लोके सनातनम् । प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥४॥
एतत् हि परमम् नार्याः कार्यम् लोके सनातनम् । प्राणान् अपि परित्यज्य यत् भर्तृ-हितम् आचरेत् ॥४॥
etat hi paramam nāryāḥ kāryam loke sanātanam . prāṇān api parityajya yat bhartṛ-hitam ācaret ..4..
तच्च तत्र कृतं कर्म तवापीह सुखावहम् । भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥५॥
तत् च तत्र कृतम् कर्म तव अपि इह सुख-आवहम् । भवति अमुत्र च अक्षय्यम् लोके अस्मिन् च यशस्करम् ॥५॥
tat ca tatra kṛtam karma tava api iha sukha-āvaham . bhavati amutra ca akṣayyam loke asmin ca yaśaskaram ..5..
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव । अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥६॥
एष च एव गुरुः धर्मः यम् प्रवक्षामि अहम् तव । अर्थः च तव धर्मः च भूयान् अत्र प्रदृश्यते ॥६॥
eṣa ca eva guruḥ dharmaḥ yam pravakṣāmi aham tava . arthaḥ ca tava dharmaḥ ca bhūyān atra pradṛśyate ..6..
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि । कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥७॥
यद्-अर्थम् इष्यते भार्या प्राप्तः सः अर्थः त्वया मयि । कन्या च एव कुमारः च कृता अहम् अनृणा त्वया ॥७॥
yad-artham iṣyate bhāryā prāptaḥ saḥ arthaḥ tvayā mayi . kanyā ca eva kumāraḥ ca kṛtā aham anṛṇā tvayā ..7..
समर्थः पोषणे चासि सुतयो रक्षणे तथा । न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥८॥
समर्थः पोषणे च असि सुतयोः रक्षणे तथा । न तु अहम् सुतयोः शक्ता तथा रक्षण-पोषणे ॥८॥
samarthaḥ poṣaṇe ca asi sutayoḥ rakṣaṇe tathā . na tu aham sutayoḥ śaktā tathā rakṣaṇa-poṣaṇe ..8..
मम हि त्वद्विहीनायाः सर्वकामा न आपदः । कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥९॥
मम हि त्वद्-विहीनायाः सर्व-कामाः नः आपदः । कथम् स्याताम् सुतौ बालौ भवेयम् च कथम् तु अहम् ॥९॥
mama hi tvad-vihīnāyāḥ sarva-kāmāḥ naḥ āpadaḥ . katham syātām sutau bālau bhaveyam ca katham tu aham ..9..
कथं हि विधवानाथा बालपुत्रा विना त्वया । मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥१०॥
कथम् हि विधवा-अनाथाः बाल-पुत्राः विना त्वया । मिथुनम् जीवयिष्यामि स्थिता साधु-गते पथि ॥१०॥
katham hi vidhavā-anāthāḥ bāla-putrāḥ vinā tvayā . mithunam jīvayiṣyāmi sthitā sādhu-gate pathi ..10..
अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् । अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ॥११॥
अहङ्कृत-अवलिप्तैः च प्रार्थ्यमानाम् इमाम् सुताम् । अयुक्तैः तव सम्बन्धे कथम् शक्ष्यामि रक्षितुम् ॥११॥
ahaṅkṛta-avaliptaiḥ ca prārthyamānām imām sutām . ayuktaiḥ tava sambandhe katham śakṣyāmi rakṣitum ..11..
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥१२॥
उत्सृष्टम् आमिषम् भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे वीर-हीनाम् तथा स्त्रियम् ॥१२॥
utsṛṣṭam āmiṣam bhūmau prārthayanti yathā khagāḥ . prārthayanti janāḥ sarve vīra-hīnām tathā striyam ..12..
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥१३॥
सा अहम् विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । स्थातुम् पथि न शक्ष्यामि सत्-जन-इष्टे द्विजोत्तम ॥१३॥
sā aham vicālyamānā vai prārthyamānā durātmabhiḥ . sthātum pathi na śakṣyāmi sat-jana-iṣṭe dvijottama ..13..
कथं तव कुलस्यैकामिमां बालामसंस्कृताम् । पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥१४॥
कथम् तव कुलस्य एकाम् इमाम् बालाम् अ संस्कृताम् । पितृपैतामहे मार्गे नियोक्तुम् अहम् उत्सहे ॥१४॥
katham tava kulasya ekām imām bālām a saṃskṛtām . pitṛpaitāmahe mārge niyoktum aham utsahe ..14..
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् । अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥१५॥
कथम् शक्ष्यामि बाले अस्मिन् गुणान् आधातुम् ईप्षितान् । अनाथे सर्वतस् लुप्ते यथा त्वम् धर्म-दर्शिवान् ॥१५॥
katham śakṣyāmi bāle asmin guṇān ādhātum īpṣitān . anāthe sarvatas lupte yathā tvam dharma-darśivān ..15..
इमामपि च ते बालामनाथां परिभूय माम् । अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥१६॥
इमाम् अपि च ते बालाम् अनाथाम् परिभूय माम् । अनर्हाः प्रार्थयिष्यन्ति शूद्राः वेद-श्रुतिम् यथा ॥१६॥
imām api ca te bālām anāthām paribhūya mām . anarhāḥ prārthayiṣyanti śūdrāḥ veda-śrutim yathā ..16..
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् । प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥१७॥
ताम् चेद् अहम् न दित्सेयम् त्वद्-गुणैः उपबृंहिताम् । प्रमथ्य एनाम् हरेयुः ते हविः-ध्वाङ्क्षाः इव अध्वरात् ॥१७॥
tām ced aham na ditseyam tvad-guṇaiḥ upabṛṃhitām . pramathya enām hareyuḥ te haviḥ-dhvāṅkṣāḥ iva adhvarāt ..17..
सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः । अनर्हवशमापन्नामिमां चापि सुतां तव ॥१८॥
सम्प्रेक्षमाणा पुत्रम् ते न अनुरूपम् इव आत्मनः । अनर्ह-वशम् आपन्नाम् इमाम् च अपि सुताम् तव ॥१८॥
samprekṣamāṇā putram te na anurūpam iva ātmanaḥ . anarha-vaśam āpannām imām ca api sutām tava ..18..
अवज्ञाता च लोकस्य तथात्मानमजानती । अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥१९॥
अवज्ञाता च लोकस्य तथा आत्मानम् अ जानती । अवलिप्तैः नरैः ब्रह्मन् मरिष्यामि न संशयः ॥१९॥
avajñātā ca lokasya tathā ātmānam a jānatī . avaliptaiḥ naraiḥ brahman mariṣyāmi na saṃśayaḥ ..19..
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ । विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥२०॥
तौ विहीनौ मया बालौ त्वया च एव मम आत्मजौ । विनश्येताम् न संदेहः मत्स्यौ इव जल-क्षये ॥२०॥
tau vihīnau mayā bālau tvayā ca eva mama ātmajau . vinaśyetām na saṃdehaḥ matsyau iva jala-kṣaye ..20..
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् । त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥२१॥
त्रितयम् सर्वथा अपि एवम् विनशिष्यति असंशयम् । त्वया विहीनम् तस्मात् त्वम् माम् परित्यक्तुम् अर्हसि ॥२१॥
tritayam sarvathā api evam vinaśiṣyati asaṃśayam . tvayā vihīnam tasmāt tvam mām parityaktum arhasi ..21..
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः । न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ॥२२॥
व्युष्टिः एषा परा स्त्रीणाम् पूर्वम् भर्तुः परा गतिः । न तु ब्राह्मण-पुत्राणाम् विषये परिवर्तितुम् ॥२२॥
vyuṣṭiḥ eṣā parā strīṇām pūrvam bhartuḥ parā gatiḥ . na tu brāhmaṇa-putrāṇām viṣaye parivartitum ..22..
परित्यक्तः सुतश्चायं दुहितेयं तथा मया । बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥२३॥
परित्यक्तः सुतः च अयम् दुहिता इयम् तथा मया । बान्धवाः च परित्यक्ताः त्वद्-अर्थम् जीवितम् च मे ॥२३॥
parityaktaḥ sutaḥ ca ayam duhitā iyam tathā mayā . bāndhavāḥ ca parityaktāḥ tvad-artham jīvitam ca me ..23..
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥२४॥
यज्ञैः तपोभिः नियमैः दानैः च विविधैः तथा । विशिष्यते स्त्रियाः भर्तुः नित्यम् प्रिय-हिते स्थितिः ॥२४॥
yajñaiḥ tapobhiḥ niyamaiḥ dānaiḥ ca vividhaiḥ tathā . viśiṣyate striyāḥ bhartuḥ nityam priya-hite sthitiḥ ..24..
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् । इष्टं चैव हितं चैव तव चैव कुलस्य च ॥२५॥
तत् इदम् यत् चिकीर्षामि धर्म्यम् परम-संमतम् । इष्टम् च एव हितम् च एव तव च एव कुलस्य च ॥२५॥
tat idam yat cikīrṣāmi dharmyam parama-saṃmatam . iṣṭam ca eva hitam ca eva tava ca eva kulasya ca ..25..
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥२६॥
इष्टानि च अपि अपत्यानि द्रव्याणि सुहृदः प्रियाः । आपद्-धर्म-विमोक्षाय भार्या च अपि सताम् मतम् ॥२६॥
iṣṭāni ca api apatyāni dravyāṇi suhṛdaḥ priyāḥ . āpad-dharma-vimokṣāya bhāryā ca api satām matam ..26..
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन । न समं सर्वमेवेति बुधानामेष निश्चयः ॥२७॥
एकतस् वा कुलम् कृत्स्नम् आत्मा वा कुल-वर्धन । न समम् सर्वम् एव इति बुधानाम् एष निश्चयः ॥२७॥
ekatas vā kulam kṛtsnam ātmā vā kula-vardhana . na samam sarvam eva iti budhānām eṣa niścayaḥ ..27..
स कुरुष्व मया कार्यं तारयात्मानमात्मना । अनुजानीहि मामार्य सुतौ मे परिरक्ष च ॥२८॥
स कुरुष्व मया कार्यम् तारय आत्मानम् आत्मना । अनुजानीहि माम् आर्य सुतौ मे परिरक्ष च ॥२८॥
sa kuruṣva mayā kāryam tāraya ātmānam ātmanā . anujānīhi mām ārya sutau me parirakṣa ca ..28..
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये । धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥२९॥
अवध्याः स्त्रियः इति आहुः धर्म-ज्ञाः धर्म-निश्चये । धर्म-ज्ञान् राक्षसान् आहुः न हन्यात् स च माम् अपि ॥२९॥
avadhyāḥ striyaḥ iti āhuḥ dharma-jñāḥ dharma-niścaye . dharma-jñān rākṣasān āhuḥ na hanyāt sa ca mām api ..29..
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः । अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥३०॥
निःसंशयः वधः पुंसाम् स्त्रीणाम् संशयितः वधः । अतस् माम् एव धर्म-ज्ञ प्रस्थापयितुम् अर्हसि ॥३०॥
niḥsaṃśayaḥ vadhaḥ puṃsām strīṇām saṃśayitaḥ vadhaḥ . atas mām eva dharma-jña prasthāpayitum arhasi ..30..
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥३१॥
भुक्तम् प्रियाणि अवाप्तानि धर्मः च चरितः मया । त्वद्-प्रसूतिः प्रिया प्राप्ता न माम् तप्स्यति अजीवितम् ॥३१॥
bhuktam priyāṇi avāptāni dharmaḥ ca caritaḥ mayā . tvad-prasūtiḥ priyā prāptā na mām tapsyati ajīvitam ..31..
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा । समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥३२॥
जात-पुत्रा च वृद्धा च प्रिय-कामा च ते सदा । समीक्ष्य एतत् अहम् सर्वम् व्यवसायम् करोमि अतस् ॥३२॥
jāta-putrā ca vṛddhā ca priya-kāmā ca te sadā . samīkṣya etat aham sarvam vyavasāyam karomi atas ..32..
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् । ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥३३॥
उत्सृज्य अपि च माम् आर्य वेत्स्यसि अन्याम् अपि स्त्रियम् । ततस् प्रतिष्ठितः धर्मः भविष्यति पुनर् तव ॥३३॥
utsṛjya api ca mām ārya vetsyasi anyām api striyam . tatas pratiṣṭhitaḥ dharmaḥ bhaviṣyati punar tava ..33..
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥३४॥
न च अपि अधर्मः कल्याण बहु-पत्नीक-ता नृणाम् । स्त्रीणाम् अधर्मः सु महान् भर्तुः पूर्वस्य लङ्घने ॥३४॥
na ca api adharmaḥ kalyāṇa bahu-patnīka-tā nṛṇām . strīṇām adharmaḥ su mahān bhartuḥ pūrvasya laṅghane ..34..
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् । आत्मानं तारय मया कुलं चेमौ च दारकौ ॥३५॥
एतत् सर्वम् समीक्ष्य त्वम् आत्मत्यागम् च गर्हितम् । आत्मानम् तारय मया कुलम् च इमौ च दारकौ ॥३५॥
etat sarvam samīkṣya tvam ātmatyāgam ca garhitam . ātmānam tāraya mayā kulam ca imau ca dārakau ..35..
वैशम्पायन उवाच॥
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत । मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥३६॥1.157.38
एवम् उक्तः तया भर्ता ताम् समालिङ्ग्य भारत । मुमोच बाष्पम् शनकैस् स भार्यः भृश-दुःखितः ॥३६॥१।१५७।३८
evam uktaḥ tayā bhartā tām samāliṅgya bhārata . mumoca bāṣpam śanakais sa bhāryaḥ bhṛśa-duḥkhitaḥ ..36..1.157.38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In