| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् । भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥१॥
तयोः दुःखितयोः वाक्यम् अतिमात्रम् निशम्य तत् । भृशम् दुःख-परीत-अङ्गी कन्या तौ अभ्यभाषत ॥१॥
tayoḥ duḥkhitayoḥ vākyam atimātram niśamya tat . bhṛśam duḥkha-parīta-aṅgī kanyā tau abhyabhāṣata ..1..
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् । ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् ॥२॥
किम् इदम् भृश-दुःख-आर्तौ रोरवीथः अनाथ-वत् । मम अपि श्रूयताम् किञ्चिद् श्रुत्वा च क्रियताम् क्षमम् ॥२॥
kim idam bhṛśa-duḥkha-ārtau roravīthaḥ anātha-vat . mama api śrūyatām kiñcid śrutvā ca kriyatām kṣamam ..2..
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥३॥
धर्मतः अहम् परित्याज्या युवयोः न अत्र संशयः । त्यक्तव्याम् माम् परित्यज्य त्रातम् सर्वम् मया एकया ॥३॥
dharmataḥ aham parityājyā yuvayoḥ na atra saṃśayaḥ . tyaktavyām mām parityajya trātam sarvam mayā ekayā ..3..
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥४॥
इत्यर्थम् इष्यते अपत्यम् तारयिष्यति माम् इति । तस्मिन् उपस्थिते काले तरतम् प्लव-वत् मया ॥४॥
ityartham iṣyate apatyam tārayiṣyati mām iti . tasmin upasthite kāle taratam plava-vat mayā ..4..
इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥५॥
इह वा तारयेत् दुर्गात् उत वा प्रेत्य तारयेत् । सर्वथा तारयेत् पुत्रः पुत्रः इति उच्यते बुधैः ॥५॥
iha vā tārayet durgāt uta vā pretya tārayet . sarvathā tārayet putraḥ putraḥ iti ucyate budhaiḥ ..5..
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥६॥
आकाङ्क्षन्ते च दौहित्रान् अपि नित्यम् पितामहाः । तान् स्वयम् वै परित्रास्ये रक्षन्ती जीवितम् पितुः ॥६॥
ākāṅkṣante ca dauhitrān api nityam pitāmahāḥ . tān svayam vai paritrāsye rakṣantī jīvitam pituḥ ..6..
भ्राता च मम बालोऽयं गते लोकममुं त्वयि । अचिरेणैव कालेन विनश्येत न संशयः ॥७॥
भ्राता च मम बालः अयम् गते लोकम् अमुम् त्वयि । अचिरेण एव कालेन विनश्येत न संशयः ॥७॥
bhrātā ca mama bālaḥ ayam gate lokam amum tvayi . acireṇa eva kālena vinaśyeta na saṃśayaḥ ..7..
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे । पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥८॥
ताते अपि हि गते स्वर्गम् विनष्टे च मम अनुजे । पिण्डः पितृणाम् व्युच्छिद्येत् तत् तेषाम् अप्रियम् भवेत् ॥८॥
tāte api hi gate svargam vinaṣṭe ca mama anuje . piṇḍaḥ pitṛṇām vyucchidyet tat teṣām apriyam bhavet ..8..
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् । दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥९॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा च अहम् असंशयम् । दुःखात् दुःखतरम् प्राप्य म्रियेयम् अ तथा उचिता ॥९॥
pitrā tyaktā tathā mātrā bhrātrā ca aham asaṃśayam . duḥkhāt duḥkhataram prāpya mriyeyam a tathā ucitā ..9..
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः । सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥१०॥
त्वयि तु अरोगे निर्मुक्ते माता भ्राता च मे शिशुः । सन्तानः च एव पिण्डः च प्रतिष्ठास्यति असंशयम् ॥१०॥
tvayi tu aroge nirmukte mātā bhrātā ca me śiśuḥ . santānaḥ ca eva piṇḍaḥ ca pratiṣṭhāsyati asaṃśayam ..10..
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल । स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥११॥
आत्मा पुत्रः सखा भार्या कृच्छ्रम् तु दुहिता किल । स कृच्छ्रात् मोचय आत्मानम् माम् च धर्मेण योजय ॥११॥
ātmā putraḥ sakhā bhāryā kṛcchram tu duhitā kila . sa kṛcchrāt mocaya ātmānam mām ca dharmeṇa yojaya ..11..
अनाथा कृपणा बाला यत्रक्वचनगामिनी । भविष्यामि त्वया तात विहीना कृपणा बत ॥१२॥
अनाथा कृपणा बाला यत्र क्वचन गामिनी । भविष्यामि त्वया तात विहीना कृपणा बत ॥१२॥
anāthā kṛpaṇā bālā yatra kvacana gāminī . bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata ..12..
अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् । फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥१३॥
अथवा अहम् करिष्यामि कुलस्य अस्य विमोक्षणम् । फल-संस्था भविष्यामि कृत्वा कर्म सु दुष्करम् ॥१३॥
athavā aham kariṣyāmi kulasya asya vimokṣaṇam . phala-saṃsthā bhaviṣyāmi kṛtvā karma su duṣkaram ..13..
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम । पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥१४॥
अथवा यास्यसे तत्र त्यक्त्वा माम् द्विजसत्तम । पीडिता अहम् भविष्यामि तत् अवेक्षस्व माम् अपि ॥१४॥
athavā yāsyase tatra tyaktvā mām dvijasattama . pīḍitā aham bhaviṣyāmi tat avekṣasva mām api ..14..
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम । आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ॥१५॥
तत् अस्मद्-अर्थम् धर्म-अर्थम् प्रसव-अर्थम् च सत्तम । आत्मानम् परिरक्षस्व त्यक्तव्याम् माम् च सन्त्यज ॥१५॥
tat asmad-artham dharma-artham prasava-artham ca sattama . ātmānam parirakṣasva tyaktavyām mām ca santyaja ..15..
अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् । त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥१६॥
अवश्य-करणीये अर्थे मा त्वाम् कालः अत्यगात् अयम् । त्वया दत्तेन तोयेन भविष्यति हितम् च मे ॥१६॥
avaśya-karaṇīye arthe mā tvām kālaḥ atyagāt ayam . tvayā dattena toyena bhaviṣyati hitam ca me ..16..
किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि । याचमानाः परादन्नं परिधावेमहि श्ववत् ॥१७॥
किम् नु अतस् परमम् दुःखम् यत् वयम् स्वर्गते त्वयि । याचमानाः परादन्नम् परिधावेमहि श्व-वत् ॥१७॥
kim nu atas paramam duḥkham yat vayam svargate tvayi . yācamānāḥ parādannam paridhāvemahi śva-vat ..17..
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे । अमृते वसती लोके भविष्यामि सुखान्विता ॥१८॥
त्वयि तु अरोगे निर्मुक्ते क्लेशात् अस्मात् स बान्धवे । अमृते वसती लोके भविष्यामि सुख-अन्विता ॥१८॥
tvayi tu aroge nirmukte kleśāt asmāt sa bāndhave . amṛte vasatī loke bhaviṣyāmi sukha-anvitā ..18..
एवं बहुविधं तस्या निशम्य परिदेवितम् । पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥१९॥
एवम् बहुविधम् तस्याः निशम्य परिदेवितम् । पिता माता च सा च एव कन्या प्ररुरुदुः त्रयः ॥१९॥
evam bahuvidham tasyāḥ niśamya paridevitam . pitā mātā ca sā ca eva kanyā praruruduḥ trayaḥ ..19..
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः । उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥२०॥
ततस् प्ररुदितान् सर्वान् निशम्य अथ सुतः तयोः । उत्फुल्ल-नयनः बालः कलम् अव्यक्तम् अब्रवीत् ॥२०॥
tatas praruditān sarvān niśamya atha sutaḥ tayoḥ . utphulla-nayanaḥ bālaḥ kalam avyaktam abravīt ..20..
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् । प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥२१॥
मा रोदीः तात मा मातर् मा स्वसः त्वम् इति ब्रुवन् । प्रहसन् इव सर्वान् तान् एकैकम् सः अपसर्पति ॥२१॥
mā rodīḥ tāta mā mātar mā svasaḥ tvam iti bruvan . prahasan iva sarvān tān ekaikam saḥ apasarpati ..21..
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् । अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥२२॥
ततस् स तृणम् आदाय प्रहृष्टः पुनर् अब्रवीत् । अनेन तम् हनिष्यामि राक्षसम् पुरुषादकम् ॥२२॥
tatas sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt . anena tam haniṣyāmi rākṣasam puruṣādakam ..22..
तथापि तेषां दुःखेन परीतानां निशम्य तत् । बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥२३॥
तथा अपि तेषाम् दुःखेन परीतानाम् निशम्य तत् । बालस्य वाक्यम् अव्यक्तम् हर्षः समभवत् महान् ॥२३॥
tathā api teṣām duḥkhena parītānām niśamya tat . bālasya vākyam avyaktam harṣaḥ samabhavat mahān ..23..
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् । गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥२४॥1.158.24
अयम् कालः इति ज्ञात्वा कुन्ती समुपसृत्य तान् । गतासून् अमृतेन इव जीवयन्ती इदम् अब्रवीत् ॥२४॥१।१५८।२४
ayam kālaḥ iti jñātvā kuntī samupasṛtya tān . gatāsūn amṛtena iva jīvayantī idam abravīt ..24..1.158.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In