| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कुन्त्युवाच॥
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥१॥
कुतोमूलम् इदम् दुःखम् ज्ञातुम् इच्छामि तत्त्वतः । विदित्वा अपकर्षेयम् शक्यम् चेद् अपकर्षितुम् ॥१॥
kutomūlam idam duḥkham jñātum icchāmi tattvataḥ . viditvā apakarṣeyam śakyam ced apakarṣitum ..1..
ब्राह्मण उवाच॥
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥२॥
उपपन्नम् सताम् एतत् यत् ब्रवीषि तपोधने । न तु दुःखम् इदम् शक्यम् मानुषेण व्यपोहितुम् ॥२॥
upapannam satām etat yat bravīṣi tapodhane . na tu duḥkham idam śakyam mānuṣeṇa vyapohitum ..2..
समीपे नगरस्यास्य बको वसति राक्षसः । ईशो जनपदस्यास्य पुरस्य च महाबलः ॥३॥
समीपे नगरस्य अस्य बकः वसति राक्षसः । ईशः जनपदस्य अस्य पुरस्य च महा-बलः ॥३॥
samīpe nagarasya asya bakaḥ vasati rākṣasaḥ . īśaḥ janapadasya asya purasya ca mahā-balaḥ ..3..
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः । रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥४॥
पुष्टः मानुष-मांसेन दुर्बुद्धिः पुरुषादकः । रक्षति असुर-राज् नित्यम् इमम् जनपदम् बली ॥४॥
puṣṭaḥ mānuṣa-māṃsena durbuddhiḥ puruṣādakaḥ . rakṣati asura-rāj nityam imam janapadam balī ..4..
नगरं चैव देशं च रक्षोबलसमन्वितः । तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥५॥
नगरम् च एव देशम् च रक्षः-बल-समन्वितः । तद्-कृते पर-चक्रात् च भूतेभ्यः च न नः भयम् ॥५॥
nagaram ca eva deśam ca rakṣaḥ-bala-samanvitaḥ . tad-kṛte para-cakrāt ca bhūtebhyaḥ ca na naḥ bhayam ..5..
वेतनं तस्य विहितं शालिवाहस्य भोजनम् । महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥६॥
वेतनम् तस्य विहितम् शालिवाहस्य भोजनम् । महिषौ पुरुषः च एकः यः तत् आदाय गच्छति ॥६॥
vetanam tasya vihitam śālivāhasya bhojanam . mahiṣau puruṣaḥ ca ekaḥ yaḥ tat ādāya gacchati ..6..
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥७॥
एकैकः च एव पुरुषः तत् प्रयच्छति भोजनम् । स वारः बहुभिः वर्षैः भवति असुतरः नरैः ॥७॥
ekaikaḥ ca eva puruṣaḥ tat prayacchati bhojanam . sa vāraḥ bahubhiḥ varṣaiḥ bhavati asutaraḥ naraiḥ ..7..
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥८॥
तद्-विमोक्षाय ये च अपि यतन्ते पुरुषाः क्वचिद् । स पुत्र-दारान् तान् हत्वा तत् रक्षः भक्षयति उत ॥८॥
tad-vimokṣāya ye ca api yatante puruṣāḥ kvacid . sa putra-dārān tān hatvā tat rakṣaḥ bhakṣayati uta ..8..
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥९॥
वेत्रकीयगृहे राजा न अयम् नयम् इह आस्थितः । अनामयम् जनस्य अस्य येन स्यात् अद्य शाश्वतम् ॥९॥
vetrakīyagṛhe rājā na ayam nayam iha āsthitaḥ . anāmayam janasya asya yena syāt adya śāśvatam ..9..
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये । विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥१०॥
एतद्-अर्हाः वयम् नूनम् वसामः दुर्बलस्य ये । विषये नित्यम् उद्विग्नाः कु राजानम् उपाश्रिताः ॥१०॥
etad-arhāḥ vayam nūnam vasāmaḥ durbalasya ye . viṣaye nityam udvignāḥ ku rājānam upāśritāḥ ..10..
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥११॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्द-चारिणः । गुणैः एते हि वास्यन्ते काम-गाः पक्षिणः यथा ॥११॥
brāhmaṇāḥ kasya vaktavyāḥ kasya vā chanda-cāriṇaḥ . guṇaiḥ ete hi vāsyante kāma-gāḥ pakṣiṇaḥ yathā ..11..
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥१२॥
राजानम् प्रथमम् विन्देत् ततस् भार्याम् ततस् धनम् । त्रयस्य सञ्चये च अस्य ज्ञातीन् पुत्रान् च धारयेत् ॥१२॥
rājānam prathamam vindet tatas bhāryām tatas dhanam . trayasya sañcaye ca asya jñātīn putrān ca dhārayet ..12..
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् । त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥१३॥
विपरीतम् मया च इदम् त्रयम् सर्वम् उपार्जितम् । ते इमाम् आपदम् प्राप्य भृशम् तप्स्यामहे वयम् ॥१३॥
viparītam mayā ca idam trayam sarvam upārjitam . te imām āpadam prāpya bhṛśam tapsyāmahe vayam ..13..
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥१४॥
सः अयम् अस्मान् अनुप्राप्तः वारः कुल-विनाशनः । भोजनम् पुरुषः च एकः प्रदेयम् वेतनम् मया ॥१४॥
saḥ ayam asmān anuprāptaḥ vāraḥ kula-vināśanaḥ . bhojanam puruṣaḥ ca ekaḥ pradeyam vetanam mayā ..14..
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन ॥१५॥ ( गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥१५॥ )
न च मे विद्यते वित्तम् सङ्क्रेतुम् पुरुषम् क्वचिद् । सुहृद्-जनम् प्रदातुम् च न शक्ष्यामि कथञ्चन ॥१५॥ ( गतिम् च अपि न पश्यामि तस्मात् मोक्षाय रक्षसः ॥१५॥ )
na ca me vidyate vittam saṅkretum puruṣam kvacid . suhṛd-janam pradātum ca na śakṣyāmi kathañcana ..15.. ( gatim ca api na paśyāmi tasmāt mokṣāya rakṣasaḥ ..15.. )
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ॥१६॥ ( ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥१६॥1,159.17 )
सः अहम् दुःख-अर्णवे मग्नः महति असुतरे भृशम् । सह एव एतैः गमिष्यामि बान्धवैः अद्य राक्षसम् ॥१६॥ ( ततस् नः सहितन् क्षुद्रः सर्वान् एवा उपभोक्ष्यति ॥१६॥१,१५९।१७ )
saḥ aham duḥkha-arṇave magnaḥ mahati asutare bhṛśam . saha eva etaiḥ gamiṣyāmi bāndhavaiḥ adya rākṣasam ..16.. ( tatas naḥ sahitan kṣudraḥ sarvān evā upabhokṣyati ..16..1,159.17 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In