| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कुन्त्युवाच॥
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥१॥
न विषादः त्वया कार्यः भयात् अस्मात् कथञ्चन । उपायः परिदृष्टः अत्र तस्मात् मोक्षाय रक्षसः ॥१॥
na viṣādaḥ tvayā kāryaḥ bhayāt asmāt kathañcana . upāyaḥ paridṛṣṭaḥ atra tasmāt mokṣāya rakṣasaḥ ..1..
एकस्तव सुतो बालः कन्या चैका तपस्विनी । न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥२॥
एकः तव सुतः बालः कन्या च एका तपस्विनी । न ते तयोः तथा पत्न्याः गमनम् तत्र रोचये ॥२॥
ekaḥ tava sutaḥ bālaḥ kanyā ca ekā tapasvinī . na te tayoḥ tathā patnyāḥ gamanam tatra rocaye ..2..
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥३॥
मम पञ्च सुताः ब्रह्मन् तेषाम् एकः गमिष्यति । त्वद्-अर्थम् बलिम् आदाय तस्य पापस्य रक्षसः ॥३॥
mama pañca sutāḥ brahman teṣām ekaḥ gamiṣyati . tvad-artham balim ādāya tasya pāpasya rakṣasaḥ ..3..
ब्राह्मण उवाच॥
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥४॥
न अहम् एतत् करिष्यामि जीवित-अर्थी कथञ्चन । ब्राह्मणस्य अतिथेः च एव स्व-अर्थे प्राणैः वियोजनम् ॥४॥
na aham etat kariṣyāmi jīvita-arthī kathañcana . brāhmaṇasya atitheḥ ca eva sva-arthe prāṇaiḥ viyojanam ..4..
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥५॥
न तु एतत् अकुलीनासु न अधर्मिष्ठासु विद्यते । यत् ब्राह्मण-अर्थे विसृजेत् आत्मानम् अपि च आत्मजम् ॥५॥
na tu etat akulīnāsu na adharmiṣṭhāsu vidyate . yat brāhmaṇa-arthe visṛjet ātmānam api ca ātmajam ..5..
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये । ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥६॥
आत्मनः तु मया श्रेयः बोद्धव्यम् इति रोचये । ब्रह्म-वध्या आत्मवध्या वा श्रेयः आत्मवधः मम ॥६॥
ātmanaḥ tu mayā śreyaḥ boddhavyam iti rocaye . brahma-vadhyā ātmavadhyā vā śreyaḥ ātmavadhaḥ mama ..6..
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥७॥
ब्रह्म-वध्या परम् पापम् निष्कृतिः न अत्र विद्यते । अबुद्धि-पूर्वम् कृत्वा अपि श्रेयः आत्मवधः मम ॥७॥
brahma-vadhyā param pāpam niṣkṛtiḥ na atra vidyate . abuddhi-pūrvam kṛtvā api śreyaḥ ātmavadhaḥ mama ..7..
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥८॥
न तु अहम् वधम् आकाङ्क्षे स्वयम् एव आत्मनः शुभे । परैः कृते वधे पापम् न किञ्चिद् मयि विद्यते ॥८॥
na tu aham vadham ākāṅkṣe svayam eva ātmanaḥ śubhe . paraiḥ kṛte vadhe pāpam na kiñcid mayi vidyate ..8..
अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया । निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥९॥
अभिसन्धि-कृते तस्मिन् ब्राह्मणस्य वधे मया । निष्कृतिम् न प्रपश्यामि नृशंसम् क्षुद्रम् एव च ॥९॥
abhisandhi-kṛte tasmin brāhmaṇasya vadhe mayā . niṣkṛtim na prapaśyāmi nṛśaṃsam kṣudram eva ca ..9..
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसं परमं मतम् ॥१०॥
आगतस्य गृहे त्यागः तथा एव शरण-अर्थिनः । याचमानस्य च वधः नृशंसम् परमम् मतम् ॥१०॥
āgatasya gṛhe tyāgaḥ tathā eva śaraṇa-arthinaḥ . yācamānasya ca vadhaḥ nṛśaṃsam paramam matam ..10..
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन । इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥११॥
कुर्यात् न निन्दितम् कर्म न नृशंसम् कदाचन । इति पूर्वे महात्मानः आपद्-धर्म-विदः विदुः ॥११॥
kuryāt na ninditam karma na nṛśaṃsam kadācana . iti pūrve mahātmānaḥ āpad-dharma-vidaḥ viduḥ ..11..
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ॥१२॥
श्रेयान् तु सहदारस्य विनाशः अद्य मम स्वयम् । ब्राह्मणस्य वधम् न अहम् अनुमंस्ये कथञ्चन ॥१२॥
śreyān tu sahadārasya vināśaḥ adya mama svayam . brāhmaṇasya vadham na aham anumaṃsye kathañcana ..12..
कुन्त्युवाच॥
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥१३॥
मम अपि एषा मतिः ब्रह्मन् विप्राः रक्ष्याः इति स्थिरा । न च अपि अनिष्टः पुत्रः मे यदि पुत्र-शतम् भवेत् ॥१३॥
mama api eṣā matiḥ brahman viprāḥ rakṣyāḥ iti sthirā . na ca api aniṣṭaḥ putraḥ me yadi putra-śatam bhavet ..13..
न चासौ राक्षसः शक्तो मम पुत्रविनाशने । वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥१४॥
न च असौ राक्षसः शक्तः मम पुत्र-विनाशने । वीर्यवान् मन्त्र-सिद्धः च तेजस्वी च सुतः मम ॥१४॥
na ca asau rākṣasaḥ śaktaḥ mama putra-vināśane . vīryavān mantra-siddhaḥ ca tejasvī ca sutaḥ mama ..14..
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥१५॥
राक्षसाय च तत् सर्वम् प्रापयिष्यति भोजनम् । मोक्षयिष्यति च आत्मानम् इति मे निश्चिता मतिः ॥१५॥
rākṣasāya ca tat sarvam prāpayiṣyati bhojanam . mokṣayiṣyati ca ātmānam iti me niścitā matiḥ ..15..
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥१६॥
समागताः च वीरेण दृष्ट-पूर्वाः च राक्षसाः । बलवन्तः महा-कायाः निहताः च अपि अनेकशस् ॥१६॥
samāgatāḥ ca vīreṇa dṛṣṭa-pūrvāḥ ca rākṣasāḥ . balavantaḥ mahā-kāyāḥ nihatāḥ ca api anekaśas ..16..
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन । विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥१७॥
न तु इदम् केषुचिद् ब्रह्मन् व्याहर्तव्यम् कथञ्चन । विद्या-अर्थिनः हि मे पुत्रान् विप्रकुर्युः कुतूहलात् ॥१७॥
na tu idam keṣucid brahman vyāhartavyam kathañcana . vidyā-arthinaḥ hi me putrān viprakuryuḥ kutūhalāt ..17..
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम । न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥१८॥
गुरुणा च अननुज्ञातः ग्राहयेत् यम् सुतः मम । न स कुर्यात् तया कार्यम् विद्यया इति सताम् मतम् ॥१८॥
guruṇā ca ananujñātaḥ grāhayet yam sutaḥ mama . na sa kuryāt tayā kāryam vidyayā iti satām matam ..18..
वैशम्पायन उवाच॥
एवमुक्तस्तु पृथया स विप्रो भार्यया सह । हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥१९॥
एवम् उक्तः तु पृथया स विप्रः भार्यया सह । हृष्टः सम्पूजयामास तद्-वाक्यम् अमृत-उपमम् ॥१९॥
evam uktaḥ tu pṛthayā sa vipraḥ bhāryayā saha . hṛṣṭaḥ sampūjayāmāsa tad-vākyam amṛta-upamam ..19..
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥२०॥1.160.20
ततस् कुन्ती च विप्रः च सहितौ अनिलात्मजम् । तम् अब्रूताम् कुरुष्व इति स तथा इति अब्रवीत् च तौ ॥२०॥१।१६०।२०
tatas kuntī ca vipraḥ ca sahitau anilātmajam . tam abrūtām kuruṣva iti sa tathā iti abravīt ca tau ..20..1.160.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In