| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन । अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥१॥
एतस्मिन् एव काले तु भगिन्यौ ते तपोधन । अपश्यताम् समायान्तम् उच्चैःश्रवसम् अन्तिकात् ॥१॥
etasmin eva kāle tu bhaginyau te tapodhana . apaśyatām samāyāntam uccaiḥśravasam antikāt ..1..
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् । मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥२॥
यम् तम् देव-गणाः सर्वे हृष्ट-रूपाः अपूजयन् । मथ्यमाने अमृते जातम् अश्व-रत्नम् अनुत्तमम् ॥२॥
yam tam deva-gaṇāḥ sarve hṛṣṭa-rūpāḥ apūjayan . mathyamāne amṛte jātam aśva-ratnam anuttamam ..2..
महौघबलमश्वानामुत्तमं जवतां वरम् । श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥३॥
महा-ओघ-बलम् अश्वानाम् उत्तमम् जवताम् वरम् । श्रीमन्तम् अजरम् दिव्यम् सर्व-लक्षण-लक्षितम् ॥३॥
mahā-ogha-balam aśvānām uttamam javatām varam . śrīmantam ajaram divyam sarva-lakṣaṇa-lakṣitam ..3..
शौनक उवाच॥
कथं तदमृतं देवैर्मथितं क्व च शंस मे । यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥४॥
कथम् तत् अमृतम् देवैः मथितम् क्व च शंस मे । यत्र जज्ञे महा-वीर्यः सः अश्वराजः महा-द्युतिः ॥४॥
katham tat amṛtam devaiḥ mathitam kva ca śaṃsa me . yatra jajñe mahā-vīryaḥ saḥ aśvarājaḥ mahā-dyutiḥ ..4..
सूत उवाच॥
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् । आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥५॥
ज्वलन्तम् अचलम् मेरुम् तेजः-राशिम् अनुत्तमम् । आक्षिपन्तम् प्रभाम् भानोः स्व-शृङ्गैः काञ्चन-उज्ज्वलैः ॥५॥
jvalantam acalam merum tejaḥ-rāśim anuttamam . ākṣipantam prabhām bhānoḥ sva-śṛṅgaiḥ kāñcana-ujjvalaiḥ ..5..
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् । अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥६॥
काञ्चन-आभरणम् चित्रम् देव-गन्धर्व-सेवितम् । अप्रमेयम् अनाधृष्यम् अधर्म-बहुलैः जनैः ॥६॥
kāñcana-ābharaṇam citram deva-gandharva-sevitam . aprameyam anādhṛṣyam adharma-bahulaiḥ janaiḥ ..6..
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् । नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥७॥
व्यालैः आचरितम् घोरैः दिव्य-ओषधि-विदीपितम् । नाकम् आवृत्य तिष्ठन्तम् उच्छ्रयेण महा-गिरिम् ॥७॥
vyālaiḥ ācaritam ghoraiḥ divya-oṣadhi-vidīpitam . nākam āvṛtya tiṣṭhantam ucchrayeṇa mahā-girim ..7..
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् । नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥८॥
अगम्यम् मनसा अपि अन्यैः नदी-वृक्ष-समन्वितम् । नाना पतग-सङ्घैः च नादितम् सु मनोहरैः ॥८॥
agamyam manasā api anyaiḥ nadī-vṛkṣa-samanvitam . nānā pataga-saṅghaiḥ ca nāditam su manoharaiḥ ..8..
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् । अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥९॥
तस्य पृष्ठम् उपारुह्य बहु-रत्न-आचितम् शुभम् । अनन्त-कल्पम् उद्विद्धम् सुराः सर्वे महा-ओजसः ॥९॥
tasya pṛṣṭham upāruhya bahu-ratna-ācitam śubham . ananta-kalpam udviddham surāḥ sarve mahā-ojasaḥ ..9..
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः । अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥१०॥
ते मन्त्रयितुम् आरब्धाः तत्र आसीनाः दिवौकसः । अमृत-अर्थे समागम्य तपः-नियम-संस्थिताः ॥१०॥
te mantrayitum ārabdhāḥ tatra āsīnāḥ divaukasaḥ . amṛta-arthe samāgamya tapaḥ-niyama-saṃsthitāḥ ..10..
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् । चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥११॥
तत्र नारायणः देवः ब्रह्माणम् इदम् अब्रवीत् । चिन्तयत्सु सुरेषु एवम् मन्त्रयत्सु च सर्वशस् ॥११॥
tatra nārāyaṇaḥ devaḥ brahmāṇam idam abravīt . cintayatsu sureṣu evam mantrayatsu ca sarvaśas ..11..
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः । भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥१२॥
देवैः असुर-सङ्घैः च मथ्यताम् कलश-उदधिः । भविष्यति अमृतम् तत्र मथ्यमाने महोदधौ ॥१२॥
devaiḥ asura-saṅghaiḥ ca mathyatām kalaśa-udadhiḥ . bhaviṣyati amṛtam tatra mathyamāne mahodadhau ..12..
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि । मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥१३॥1.17.13
सर्व-ओषधीः समावाप्य सर्व-रत्नानि च एव हि । मन्थध्वम् उदधिम् देवाः वेत्स्यध्वम् अमृतम् ततस् ॥१३॥१।१७।१३
sarva-oṣadhīḥ samāvāpya sarva-ratnāni ca eva hi . manthadhvam udadhim devāḥ vetsyadhvam amṛtam tatas ..13..1.17.13

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In