| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
करिष्य इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥१॥
करिष्ये इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुः ते ततस् सर्वे भैक्षम् आदाय पाण्डवाः ॥१॥
kariṣye iti bhīmena pratijñāte tu bhārata . ājagmuḥ te tatas sarve bhaikṣam ādāya pāṇḍavāḥ ..1..
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥२॥
आकारेण एव तम् ज्ञात्वा पाण्डु-पुत्रः युधिष्ठिरः । रहः समुपविश्य एकः ततस् पप्रच्छ मातरम् ॥२॥
ākāreṇa eva tam jñātvā pāṇḍu-putraḥ yudhiṣṭhiraḥ . rahaḥ samupaviśya ekaḥ tatas papraccha mātaram ..2..
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥३॥
किम् चिकीर्षति अयम् कर्म भीमः भीम-पराक्रमः । भवति अनुमते कच्चित् अयम् कर्तुम् इह इच्छति ॥३॥
kim cikīrṣati ayam karma bhīmaḥ bhīma-parākramaḥ . bhavati anumate kaccit ayam kartum iha icchati ..3..
कुन्त्युवाच॥
ममैव वचनादेष करिष्यति परन्तपः । ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥४॥
मम एव वचनात् एष करिष्यति परन्तपः । ब्राह्मण-अर्थे महत् कृत्यम् मोष्काय नगरस्य च ॥४॥
mama eva vacanāt eṣa kariṣyati parantapaḥ . brāhmaṇa-arthe mahat kṛtyam moṣkāya nagarasya ca ..4..
युधिष्ठिर उवाच॥
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् । परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥५॥
किम् इदम् साहसम् तीक्ष्णम् भवत्या दुष्कृतम् कृतम् । परित्यागम् हि पुत्रस्य न प्रशंसन्ति साधवः ॥५॥
kim idam sāhasam tīkṣṇam bhavatyā duṣkṛtam kṛtam . parityāgam hi putrasya na praśaṃsanti sādhavaḥ ..5..
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥६॥
कथम् पर-सुतस्य अर्थे स्व-सुतम् त्यक्तुम् इच्छसि । लोक-वृत्ति-विरुद्धम् वै पुत्र-त्यागात् कृतम् त्वया ॥६॥
katham para-sutasya arthe sva-sutam tyaktum icchasi . loka-vṛtti-viruddham vai putra-tyāgāt kṛtam tvayā ..6..
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे । राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥७॥
यस्य बाहू समाश्रित्य सुखम् सर्वे स्वपामहे । राज्यम् च अपहृतम् क्षुद्रैः आजिहीर्षामहे पुनर् ॥७॥
yasya bāhū samāśritya sukham sarve svapāmahe . rājyam ca apahṛtam kṣudraiḥ ājihīrṣāmahe punar ..7..
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः । न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥८॥
यस्य दुर्योधनः वीर्यम् चिन्तयन् अमित-ओजसः । न शेते वसतीः सर्वाः दुःखात् शकुनिना सह ॥८॥
yasya duryodhanaḥ vīryam cintayan amita-ojasaḥ . na śete vasatīḥ sarvāḥ duḥkhāt śakuninā saha ..8..
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् । अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥९॥
यस्य वीरस्य वीर्येण मुक्ताः जतु-गृहात् वयम् । अन्येभ्यः च एव पापेभ्यः निहतः च पुरोचनः ॥९॥
yasya vīrasya vīryeṇa muktāḥ jatu-gṛhāt vayam . anyebhyaḥ ca eva pāpebhyaḥ nihataḥ ca purocanaḥ ..9..
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् । इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥१०॥
यस्य वीर्यम् समाश्रित्य वसु-पूर्णाम् वसुन्धराम् । इमाम् मन्यामहे प्राप्ताम् निहत्य धृतराष्ट्र-जान् ॥१०॥
yasya vīryam samāśritya vasu-pūrṇām vasundharām . imām manyāmahe prāptām nihatya dhṛtarāṣṭra-jān ..10..
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥११॥
तस्य व्यवसितः त्यागः बुद्धिम् आस्थाय काम् त्वया । कच्चित् न दुःखैः बुद्धिः ते विप्लुताः गत-चेतसः ॥११॥
tasya vyavasitaḥ tyāgaḥ buddhim āsthāya kām tvayā . kaccit na duḥkhaiḥ buddhiḥ te viplutāḥ gata-cetasaḥ ..11..
कुन्त्युवाच॥
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् । न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥१२॥
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् । न च अयम् बुद्धि-दौर्बल्यात् व्यवसायः कृतः मया ॥१२॥
yudhiṣṭhira na santāpaḥ kāryaḥ prati vṛkodaram . na ca ayam buddhi-daurbalyāt vyavasāyaḥ kṛtaḥ mayā ..12..
इह विप्रस्य भवने वयं पुत्र सुखोषिताः । तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ॥१३॥ ( एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥१३॥ )
इह विप्रस्य भवने वयम् पुत्र सुख-उषिताः । तस्य प्रतिक्रिया तात मया इयम् प्रसमीक्षिता ॥१३॥ ( एतावान् एव पुरुषः कृतम् यस्मिन् न नश्यति ॥१३॥ )
iha viprasya bhavane vayam putra sukha-uṣitāḥ . tasya pratikriyā tāta mayā iyam prasamīkṣitā ..13.. ( etāvān eva puruṣaḥ kṛtam yasmin na naśyati ..13.. )
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् । हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥१४॥
दृष्ट्वा भीष्मस्य विक्रान्तम् तदा जतु-गृहे महत् । हिडिम्बस्य वधात् च एव विश्वासः मे वृकोदरे ॥१४॥
dṛṣṭvā bhīṣmasya vikrāntam tadā jatu-gṛhe mahat . hiḍimbasya vadhāt ca eva viśvāsaḥ me vṛkodare ..14..
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् । येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥१५॥
बाह्वोः बलम् हि भीमस्य नाग-अयुत-समम् महत् । येन यूयम् गज-प्रख्याः निर्व्यूढाः वारणावतात् ॥१५॥
bāhvoḥ balam hi bhīmasya nāga-ayuta-samam mahat . yena yūyam gaja-prakhyāḥ nirvyūḍhāḥ vāraṇāvatāt ..15..
वृकोदरबलो नान्यो न भूतो न भविष्यति । योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥१६॥
वृकोदर-बलः न अन्यः न भूतः न भविष्यति । यः अभ्युदीयात् युधि श्रेष्ठम् अपि वज्रधरम् स्वयम् ॥१६॥
vṛkodara-balaḥ na anyaḥ na bhūtaḥ na bhaviṣyati . yaḥ abhyudīyāt yudhi śreṣṭham api vajradharam svayam ..16..
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ । शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥१७॥
जात-मात्रः पुरा च एष मम अङ्कात् पतितः गिरौ । शरीर-गौरवात् तस्य शिला गात्रैः विचूर्णिता ॥१७॥
jāta-mātraḥ purā ca eṣa mama aṅkāt patitaḥ girau . śarīra-gauravāt tasya śilā gātraiḥ vicūrṇitā ..17..
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव । प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥१८॥
तत् अहम् प्रज्ञया स्मृत्वा बलम् भीमस्य पाण्डव । प्रतीकारम् च विप्रस्य ततस् कृतवती मतिम् ॥१८॥
tat aham prajñayā smṛtvā balam bhīmasya pāṇḍava . pratīkāram ca viprasya tatas kṛtavatī matim ..18..
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥१९॥
न इदम् लोभात् न च अज्ञानात् न च मोहात् विनिश्चितम् । बुद्धि-पूर्वम् तु धर्मस्य व्यवसायः कृतः मया ॥१९॥
na idam lobhāt na ca ajñānāt na ca mohāt viniścitam . buddhi-pūrvam tu dharmasya vyavasāyaḥ kṛtaḥ mayā ..19..
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥२०॥
अर्थौ द्वौ अपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारः च वासस्य धर्मः च चरितः महान् ॥२०॥
arthau dvau api niṣpannau yudhiṣṭhira bhaviṣyataḥ . pratīkāraḥ ca vāsasya dharmaḥ ca caritaḥ mahān ..20..
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् । क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥२१॥
यः ब्राह्मणस्य साहाय्यम् कुर्यात् अर्थेषु कर्हिचित् । क्षत्रियः स शुभान् लोकान् प्राप्नुयात् इति मे श्रुतम् ॥२१॥
yaḥ brāhmaṇasya sāhāyyam kuryāt artheṣu karhicit . kṣatriyaḥ sa śubhān lokān prāpnuyāt iti me śrutam ..21..
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् । विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥२२॥
क्षत्रियः क्षत्रियस्य एव कुर्वाणः वध-मोक्षणम् । विपुलाम् कीर्तिम् आप्नोति लोके अस्मिन् च परत्र च ॥२२॥
kṣatriyaḥ kṣatriyasya eva kurvāṇaḥ vadha-mokṣaṇam . vipulām kīrtim āpnoti loke asmin ca paratra ca ..22..
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि । स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥२३॥
वैश्यस्य एव तु साहाय्यम् कुर्वाणः क्षत्रियः युधि । स सर्वेषु अपि लोकेषु प्रजाः रञ्जयते ध्रुवम् ॥२३॥
vaiśyasya eva tu sāhāyyam kurvāṇaḥ kṣatriyaḥ yudhi . sa sarveṣu api lokeṣu prajāḥ rañjayate dhruvam ..23..
शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् । प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ॥२४॥1.161.25
शूद्रम् तु मोक्षयन् राजा शरण-अर्थिनम् आगतम् । प्राप्नोति इह कुले जन्म स द्रव्ये राज-सत्कृते ॥२४॥१।१६१।२५
śūdram tu mokṣayan rājā śaraṇa-arthinam āgatam . prāpnoti iha kule janma sa dravye rāja-satkṛte ..24..1.161.25
एवं स भगवान्व्यासः पुरा कौरवनन्दन । प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ॥२५॥1.161.26
एवम् स भगवान् व्यासः पुरा कौरव-नन्दन । प्रोवाच सुतराम् प्राज्ञः तस्मात् एतत् चिकीर्षितम् ॥२५॥१।१६१।२६
evam sa bhagavān vyāsaḥ purā kaurava-nandana . provāca sutarām prājñaḥ tasmāt etat cikīrṣitam ..25..1.161.26
युधिष्ठिर उवाच॥
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ॥२६॥1.162.1 ( ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥२६॥ )
उपपन्नम् इदम् मातर् त्वया यत् बुद्धि-पूर्वकम् । आर्तस्य ब्राह्मणस्य एवम् अनुक्रोशात् इदम् कृतम् ॥२६॥१।१६२।१ ( ध्रुवम् एष्यति भीमः अयम् निहत्य पुरुषादकम् ॥२६॥ )
upapannam idam mātar tvayā yat buddhi-pūrvakam . ārtasya brāhmaṇasya evam anukrośāt idam kṛtam ..26..1.162.1 ( dhruvam eṣyati bhīmaḥ ayam nihatya puruṣādakam ..26.. )
यथा त्विदं न विन्देयुर्नरा नगरवासिनः । तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥२७॥
यथा तु इदम् न विन्देयुः नराः नगर-वासिनः । तथा अयम् ब्राह्मणः वाच्यः परिग्राह्यः च यत्नतः ॥२७॥
yathā tu idam na vindeyuḥ narāḥ nagara-vāsinaḥ . tathā ayam brāhmaṇaḥ vācyaḥ parigrāhyaḥ ca yatnataḥ ..27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In