| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः । भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥१॥1.162.4
ततस् रात्र्याम् व्यतीतायाम् अन्नम् आदाय पाण्डवः । भीमसेनः ययौ तत्र यत्र असौ पुरुषादकः ॥१॥१।१६२।४
tatas rātryām vyatītāyām annam ādāya pāṇḍavaḥ . bhīmasenaḥ yayau tatra yatra asau puruṣādakaḥ ..1..1.162.4
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली । आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥२॥
आसाद्य तु वनम् तस्य रक्षसः पाण्डवः बली । आजुहाव ततस् नाम्ना तत् अन्नम् उपयोजयन् ॥२॥
āsādya tu vanam tasya rakṣasaḥ pāṇḍavaḥ balī . ājuhāva tatas nāmnā tat annam upayojayan ..2..
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः । आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ॥३॥
ततस् स राक्षसः श्रुत्वा भीमसेनस्य तत् वचः । आजगाम सु सङ्क्रुद्धः यत्र भीमः व्यवस्थितः ॥३॥
tatas sa rākṣasaḥ śrutvā bhīmasenasya tat vacaḥ . ājagāma su saṅkruddhaḥ yatra bhīmaḥ vyavasthitaḥ ..3..
महाकायो महावेगो दारयन्निव मेदिनीम् । त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥४॥
महा-कायः महा-वेगः दारयन् इव मेदिनीम् । त्रि-शिखाम् भृकुटिम् कृत्वा संदश्य दशनच्छदम् ॥४॥
mahā-kāyaḥ mahā-vegaḥ dārayan iva medinīm . tri-śikhām bhṛkuṭim kṛtvā saṃdaśya daśanacchadam ..4..
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः । विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥५॥
भुञ्जानम् अन्नम् तम् दृष्ट्वा भीमसेनम् स राक्षसः । विवृत्य नयने क्रुद्धः इदम् वचनम् अब्रवीत् ॥५॥
bhuñjānam annam tam dṛṣṭvā bhīmasenam sa rākṣasaḥ . vivṛtya nayane kruddhaḥ idam vacanam abravīt ..5..
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् । पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥६॥
कः अयम् अन्नम् इदम् भुङ्क्ते मद्-अर्थम् उपकल्पितम् । पश्यतः मम दुर्बुद्धिः यियासुः यम-सादनम् ॥६॥
kaḥ ayam annam idam bhuṅkte mad-artham upakalpitam . paśyataḥ mama durbuddhiḥ yiyāsuḥ yama-sādanam ..6..
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत । राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥७॥
भीमसेनः तु तत् श्रुत्वा प्रहसन् इव भारत । राक्षसम् तम् अन् आदृत्य भुङ्क्ते एव पराङ्मुखः ॥७॥
bhīmasenaḥ tu tat śrutvā prahasan iva bhārata . rākṣasam tam an ādṛtya bhuṅkte eva parāṅmukhaḥ ..7..
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ । अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥८॥
ततस् स भैरवम् कृत्वा समुद्यम्य करौ उभौ । अभ्यद्रवत् भीमसेनम् जिघांसुः पुरुषादकः ॥८॥
tatas sa bhairavam kṛtvā samudyamya karau ubhau . abhyadravat bhīmasenam jighāṃsuḥ puruṣādakaḥ ..8..
तथापि परिभूयैनं नेक्षमाणो वृकोदरः । राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥९॥
तथा अपि परिभूय एनम् न ईक्षमाणः वृकोदरः । राक्षसम् भुङ्क्ते एव अन्नम् पाण्डवः पर-वीर-हा ॥९॥
tathā api paribhūya enam na īkṣamāṇaḥ vṛkodaraḥ . rākṣasam bhuṅkte eva annam pāṇḍavaḥ para-vīra-hā ..9..
अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः । जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥१०॥
अमर्षेण तु सम्पूर्णः कुन्ती-पुत्रस्य राक्षसः । जघान पृष्ठम् पाणिभ्याम् उभाभ्याम् पृष्ठतस् स्थितः ॥१०॥
amarṣeṇa tu sampūrṇaḥ kuntī-putrasya rākṣasaḥ . jaghāna pṛṣṭham pāṇibhyām ubhābhyām pṛṣṭhatas sthitaḥ ..10..
तथा बलवता भीमः पाणिभ्यां भृशमाहतः । नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥११॥
तथा बलवता भीमः पाणिभ्याम् भृशम् आहतः । न एव अवलोकयामास राक्षसम् भुङ्क्ते एव सः ॥११॥
tathā balavatā bhīmaḥ pāṇibhyām bhṛśam āhataḥ . na eva avalokayāmāsa rākṣasam bhuṅkte eva saḥ ..11..
ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः । ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥१२॥
ततस् स भूयस् सङ्क्रुद्धः वृक्षम् आदाय राक्षसः । ताडयिष्यन् तदा भीमम् पुनर् अभ्यद्रवत् बली ॥१२॥
tatas sa bhūyas saṅkruddhaḥ vṛkṣam ādāya rākṣasaḥ . tāḍayiṣyan tadā bhīmam punar abhyadravat balī ..12..
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः । वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥१३॥
ततस् भीमः शनैस् भुक्त्वा तत् अन्नम् पुरुष-ऋषभः । वारि उपस्पृश्य संहृष्टः तस्थौ युधि महा-बलः ॥१३॥
tatas bhīmaḥ śanais bhuktvā tat annam puruṣa-ṛṣabhaḥ . vāri upaspṛśya saṃhṛṣṭaḥ tasthau yudhi mahā-balaḥ ..13..
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् । सव्येन पाणिना भीमः प्रहसन्निव भारत ॥१४॥
क्षिप्तम् क्रुद्धेन तम् वृक्षम् प्रतिजग्राह वीर्यवान् । सव्येन पाणिना भीमः प्रहसन् इव भारत ॥१४॥
kṣiptam kruddhena tam vṛkṣam pratijagrāha vīryavān . savyena pāṇinā bhīmaḥ prahasan iva bhārata ..14..
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली । प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥१५॥
ततस् स पुनर् उद्यम्य वृक्षान् बहुविधान् बली । प्राहिणोत् भीमसेनाय तस्मै भीमः च पाण्डवः ॥१५॥
tatas sa punar udyamya vṛkṣān bahuvidhān balī . prāhiṇot bhīmasenāya tasmai bhīmaḥ ca pāṇḍavaḥ ..15..
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । घोररूपं महाराज बकपाण्डवयोर्महत् ॥१६॥
तत् वृक्ष-युद्धम् अभवत् महीरुह-विनाशनम् । घोर-रूपम् महा-राज बक-पाण्डवयोः महत् ॥१६॥
tat vṛkṣa-yuddham abhavat mahīruha-vināśanam . ghora-rūpam mahā-rāja baka-pāṇḍavayoḥ mahat ..16..
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् । भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ॥१७॥
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् । भुजाभ्याम् परिजग्राह भीमसेनम् महा-बलम् ॥१७॥
nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam . bhujābhyām parijagrāha bhīmasenam mahā-balam ..17..
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः । विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥१८॥
भीमसेनः अपि तत् रक्षः परिरभ्य महा-भुजः । विस्फुरन्तम् महा-वेगम् विचकर्ष बलात् बली ॥१८॥
bhīmasenaḥ api tat rakṣaḥ parirabhya mahā-bhujaḥ . visphurantam mahā-vegam vicakarṣa balāt balī ..18..
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् । समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥१९॥
स कृष्यमाणः भीमेन कर्षमाणः च पाण्डवम् । समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥१९॥
sa kṛṣyamāṇaḥ bhīmena karṣamāṇaḥ ca pāṇḍavam . samayujyata tīvreṇa śrameṇa puruṣādakaḥ ..19..
तयोर्वेगेन महता पृथिवी समकम्पत । पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ॥२०॥
तयोः वेगेन महता पृथिवी समकम्पत । पादपान् च महा-कायान् चूर्णयामासतुः तदा ॥२०॥
tayoḥ vegena mahatā pṛthivī samakampata . pādapān ca mahā-kāyān cūrṇayāmāsatuḥ tadā ..20..
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ । निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥२१॥
हीयमानम् तु तत् रक्षः समीक्ष्य भरत-ऋषभ । निष्पिष्य भूमौ पाणिभ्याम् समाजघ्ने वृकोदरः ॥२१॥
hīyamānam tu tat rakṣaḥ samīkṣya bharata-ṛṣabha . niṣpiṣya bhūmau pāṇibhyām samājaghne vṛkodaraḥ ..21..
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव । बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥२२॥
ततस् अस्य जानुना पृष्ठम् अवपीड्य बलात् इव । बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥२२॥
tatas asya jānunā pṛṣṭham avapīḍya balāt iva . bāhunā parijagrāha dakṣiṇena śirodharām ..22..
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥२३॥
सव्येन च कटी-देशे गृह्य वाससि पाण्डवः । तत् रक्षः द्विगुणम् चक्रे नदन्तम् भैरवान् रवान् ॥२३॥
savyena ca kaṭī-deśe gṛhya vāsasi pāṇḍavaḥ . tat rakṣaḥ dviguṇam cakre nadantam bhairavān ravān ..23..
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते । भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥२४॥1.162.28
ततस् अस्य रुधिरम् वक्त्रात् प्रादुरासीत् विशाम् पते । भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥२४॥१।१६२।२८
tatas asya rudhiram vaktrāt prādurāsīt viśām pate . bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ ..24..1.162.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In