| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः । निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥१॥
तेन शब्देन वित्रस्तः जनः तस्य अथ रक्षसः । निष्पपात गृहात् राजन् सह एव परिचारिभिः ॥१॥
tena śabdena vitrastaḥ janaḥ tasya atha rakṣasaḥ . niṣpapāta gṛhāt rājan saha eva paricāribhiḥ ..1..
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः । सान्त्वयामास बलवान्समये च न्यवेशयत् ॥२॥
तान् भीतान् विगत-ज्ञानान् भीमः प्रहरताम् वरः । सान्त्वयामास बलवान् समये च न्यवेशयत् ॥२॥
tān bhītān vigata-jñānān bhīmaḥ praharatām varaḥ . sāntvayāmāsa balavān samaye ca nyaveśayat ..2..
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् । हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥३॥
न हिंस्याः मानुषाः भूयस् युष्माभिः इह कर्हिचित् । हिंसताम् हि वधः शीघ्रम् एवम् एव भवेत् इति ॥३॥
na hiṃsyāḥ mānuṣāḥ bhūyas yuṣmābhiḥ iha karhicit . hiṃsatām hi vadhaḥ śīghram evam eva bhavet iti ..3..
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत । एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥४॥
तस्य तत् वचनम् श्रुत्वा तानि रक्षांसि भारत । एवम् अस्तु इति तम् प्राहुः जगृहुः समयम् च तम् ॥४॥
tasya tat vacanam śrutvā tāni rakṣāṃsi bhārata . evam astu iti tam prāhuḥ jagṛhuḥ samayam ca tam ..4..
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत । नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥५॥
ततस् प्रभृति रक्षांसि तत्र सौम्यानि भारत । नगरे प्रत्यदृश्यन्त नरैः नगर-वासिभिः ॥५॥
tatas prabhṛti rakṣāṃsi tatra saumyāni bhārata . nagare pratyadṛśyanta naraiḥ nagara-vāsibhiḥ ..5..
ततो भिमस्तमादाय गतासुं पुरुषादकम् । द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥६॥
ततस् भिमस्तम् आदाय गतासुम् पुरुषादकम् । द्वार-देशे विनिक्षिप्य जगाम अनुपलक्षितः ॥६॥
tatas bhimastam ādāya gatāsum puruṣādakam . dvāra-deśe vinikṣipya jagāma anupalakṣitaḥ ..6..
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् । आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥७॥
ततस् स भीमः तम् हत्वा गत्वा ब्राह्मण-वेश्म तत् । आचचक्षे यथावृत्तम् राज्ञः सर्वम् अशेषतस् ॥७॥
tatas sa bhīmaḥ tam hatvā gatvā brāhmaṇa-veśma tat . ācacakṣe yathāvṛttam rājñaḥ sarvam aśeṣatas ..7..
ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु । ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥८॥
ततस् नराः विनिष्क्रान्ताः नगरात् काल्यम् एव तु । ददृशुः निहतम् भूमौ राक्षसम् रुधिर-उक्षितम् ॥८॥
tatas narāḥ viniṣkrāntāḥ nagarāt kālyam eva tu . dadṛśuḥ nihatam bhūmau rākṣasam rudhira-ukṣitam ..8..
तमद्रिकूटसदृशं विनिकीर्णं भयावहम् । एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥९॥
तम् अद्रि-कूट-सदृशम् विनिकीर्णम् भय-आवहम् । एकचक्राम् ततस् गत्वा प्रवृत्तिम् प्रददुः परे ॥९॥
tam adri-kūṭa-sadṛśam vinikīrṇam bhaya-āvaham . ekacakrām tatas gatvā pravṛttim pradaduḥ pare ..9..
ततः सहस्रशो राजन्नरा नगरवासिनः । तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥१०॥
ततस् सहस्रशस् राजन् नराः नगर-वासिनः । तत्र आजग्मुः बकम् द्रष्टुम् स स्त्री-वृद्ध-कुमारकाः ॥१०॥
tatas sahasraśas rājan narāḥ nagara-vāsinaḥ . tatra ājagmuḥ bakam draṣṭum sa strī-vṛddha-kumārakāḥ ..10..
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् । दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥११॥
ततस् ते विस्मिताः सर्वे कर्म दृष्ट्वा अतिमानुषम् । दैवतानि अर्चयाम् चक्रुः सर्वे एव विशाम् पते ॥११॥
tatas te vismitāḥ sarve karma dṛṣṭvā atimānuṣam . daivatāni arcayām cakruḥ sarve eva viśām pate ..11..
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने । ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥१२॥
ततस् प्रगणयामासुः कस्य वारः अद्य भोजने । ज्ञात्वा च आगम्य तम् विप्रम् पप्रच्छुः सर्वे एव तत् ॥१२॥
tatas pragaṇayāmāsuḥ kasya vāraḥ adya bhojane . jñātvā ca āgamya tam vipram papracchuḥ sarve eva tat ..12..
एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् । उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥१३॥
एवम् पृष्टः तु बहुशस् रक्षमाणः च पाण्डवान् । उवाच नागरान् सर्वान् इदम् विप्र-ऋषभः तदा ॥१३॥
evam pṛṣṭaḥ tu bahuśas rakṣamāṇaḥ ca pāṇḍavān . uvāca nāgarān sarvān idam vipra-ṛṣabhaḥ tadā ..13..
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः । ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥१४॥
आज्ञापितम् माम् अशने रुदन्तम् सह बन्धुभिः । ददर्श ब्राह्मणः कश्चिद् मन्त्र-सिद्धः महा-बलः ॥१४॥
ājñāpitam mām aśane rudantam saha bandhubhiḥ . dadarśa brāhmaṇaḥ kaścid mantra-siddhaḥ mahā-balaḥ ..14..
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च । अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥१५॥
परिपृच्छ्य स माम् पूर्वम् परिक्लेशम् पुरस्य च । अब्रवीत् ब्राह्मण-श्रेष्ठः आश्वास्य प्रहसन् इव ॥१५॥
paripṛcchya sa mām pūrvam parikleśam purasya ca . abravīt brāhmaṇa-śreṣṭhaḥ āśvāsya prahasan iva ..15..
प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने । मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥१६॥
प्रापयिष्यामि अहम् तस्मै इदम् अन्नम् दुरात्मने । मद्-निमित्तम् भयम् च अपि न कार्यम् इति वीर्यवान् ॥१६॥
prāpayiṣyāmi aham tasmai idam annam durātmane . mad-nimittam bhayam ca api na kāryam iti vīryavān ..16..
स तदन्नमुपादाय गतो बकवनं प्रति । तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥१७॥
स तत् अन्नम् उपादाय गतः बक-वनम् प्रति । तेन नूनम् भवेत् एतत् कर्म लोक-हितम् कृतम् ॥१७॥
sa tat annam upādāya gataḥ baka-vanam prati . tena nūnam bhavet etat karma loka-hitam kṛtam ..17..
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः । वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥१८॥
ततस् ते ब्राह्मणाः सर्वे क्षत्रियाः च सुविस्मिताः । वैश्याः शूद्राः च मुदिताः चक्रुः ब्रह्म-महम् तदा ॥१८॥
tatas te brāhmaṇāḥ sarve kṣatriyāḥ ca suvismitāḥ . vaiśyāḥ śūdrāḥ ca muditāḥ cakruḥ brahma-maham tadā ..18..
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति । तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥१९॥1.163.21
ततस् जानपदाः सर्वे आजग्मुः नगरम् प्रति । तत् अद्भुततमम् द्रष्टुम् पार्थाः तत्र एव च अवसन् ॥१९॥१।१६३।२१
tatas jānapadāḥ sarve ājagmuḥ nagaram prati . tat adbhutatamam draṣṭum pārthāḥ tatra eva ca avasan ..19..1.163.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In