| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१॥
ते तथा पुरुष-व्याघ्राः निहत्य बक-राक्षसम् । अतस् ऊर्ध्वम् ततस् ब्रह्मन् किम् अकुर्वत पाण्डवाः ॥१॥
te tathā puruṣa-vyāghrāḥ nihatya baka-rākṣasam . atas ūrdhvam tatas brahman kim akurvata pāṇḍavāḥ ..1..
वैशम्पायन उवाच॥
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥२॥
तत्र एव न्यवसन् राजन् निहत्य बक-राक्षसम् । अधीयानाः परम् ब्रह्म ब्राह्मणस्य निवेशने ॥२॥
tatra eva nyavasan rājan nihatya baka-rākṣasam . adhīyānāḥ param brahma brāhmaṇasya niveśane ..2..
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥३॥
ततस् कतिपयाहस्य ब्राह्मणः संशित-व्रतः । प्रतिश्रय-अर्थम् तत् वेश्म ब्राह्मणस्य आजगाम ह ॥३॥
tatas katipayāhasya brāhmaṇaḥ saṃśita-vrataḥ . pratiśraya-artham tat veśma brāhmaṇasya ājagāma ha ..3..
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा । ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥४॥
स सम्यक् पूजयित्वा तम् विद्वान् विप्र-ऋषभः तदा । ददौ प्रतिश्रयम् तस्मै सदा सर्व-अतिथि-व्रती ॥४॥
sa samyak pūjayitvā tam vidvān vipra-ṛṣabhaḥ tadā . dadau pratiśrayam tasmai sadā sarva-atithi-vratī ..4..
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥५॥
ततस् ते पाण्डवाः सर्वे सह कुन्त्याः नर-ऋषभाः । उपासाम् चक्रिरे विप्रम् कथयानम् कथाः तदा ॥५॥
tatas te pāṇḍavāḥ sarve saha kuntyāḥ nara-ṛṣabhāḥ . upāsām cakrire vipram kathayānam kathāḥ tadā ..5..
कथयामास देशान्स तीर्थानि विविधानि च । राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥६॥
कथयामास देशान् स तीर्थानि विविधानि च । राज्ञाम् च विविध-आश्चर्याः पुराणि विविधानि च ॥६॥
kathayāmāsa deśān sa tīrthāni vividhāni ca . rājñām ca vividha-āścaryāḥ purāṇi vividhāni ca ..6..
स तत्राकथयद्विप्रः कथान्ते जनमेजय । पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥७॥
स तत्र अकथयत् विप्रः कथा-अन्ते जनमेजय । पाञ्चालेषु अद्भुत-आकारम् याज्ञसेन्याः स्वयंवरम् ॥७॥
sa tatra akathayat vipraḥ kathā-ante janamejaya . pāñcāleṣu adbhuta-ākāram yājñasenyāḥ svayaṃvaram ..7..
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥८॥
धृष्टद्युम्नस्य च उत्पत्तिम् उत्पत्तिम् च शिखण्डिनः । अ योनि-ज-त्वम् कृष्णायाः द्रुपदस्य महा-मखे ॥८॥
dhṛṣṭadyumnasya ca utpattim utpattim ca śikhaṇḍinaḥ . a yoni-ja-tvam kṛṣṇāyāḥ drupadasya mahā-makhe ..8..
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥९॥
तत् अद्भुततमम् श्रुत्वा लोके तस्य महात्मनः । विस्तरेण एव पप्रच्छुः कथाम् ताम् पुरुष-ऋषभाः ॥९॥
tat adbhutatamam śrutvā loke tasya mahātmanaḥ . vistareṇa eva papracchuḥ kathām tām puruṣa-ṛṣabhāḥ ..9..
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥१०॥
कथम् द्रुपद-पुत्रस्य धृष्टद्युम्नस्य पावकात् । वेदि-मध्यात् च कृष्णायाः सम्भवः कथम् अद्भुतः ॥१०॥
katham drupada-putrasya dhṛṣṭadyumnasya pāvakāt . vedi-madhyāt ca kṛṣṇāyāḥ sambhavaḥ katham adbhutaḥ ..10..
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥११॥
कथम् द्रोणात् महा-इष्वासात् सर्वाणि अस्त्राणि अशिक्षत । कथम् प्रिय-सखायौ तौ भिन्नौ कस्य कृतेन च ॥११॥
katham droṇāt mahā-iṣvāsāt sarvāṇi astrāṇi aśikṣata . katham priya-sakhāyau tau bhinnau kasya kṛtena ca ..11..
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥१२॥1.164.12
एवम् तैः चोदितः राजन् स विप्रः पुरुष-ऋषभैः । कथयामास तत् सर्वम् द्रौपदी-सम्भवम् तदा ॥१२॥१।१६४।१२
evam taiḥ coditaḥ rājan sa vipraḥ puruṣa-ṛṣabhaiḥ . kathayāmāsa tat sarvam draupadī-sambhavam tadā ..12..1.164.12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In