| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्राह्मण उवाच॥
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥१॥
गङ्गाद्वारम् प्रति महान् बभूव ऋषिः महा-तपाः । भरद्वाजः महा-प्राज्ञः सततम् संशित-व्रतः ॥१॥
gaṅgādvāram prati mahān babhūva ṛṣiḥ mahā-tapāḥ . bharadvājaḥ mahā-prājñaḥ satatam saṃśita-vrataḥ ..1..
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥२॥
सः अभिषेक्तुम् गतः गङ्गाम् पूर्वम् एव आगताम् सतीम् । ददर्श अप्सरसम् तत्र घृताचीम् आप्लुताम् ऋषिः ॥२॥
saḥ abhiṣektum gataḥ gaṅgām pūrvam eva āgatām satīm . dadarśa apsarasam tatra ghṛtācīm āplutām ṛṣiḥ ..2..
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥३॥
तस्याः वायुः नदी-तीरे वसनम् व्यहरत् तदा । अपकृष्ट-अम्बराम् दृष्ट्वा ताम् ऋषिः चकमे ततस् ॥३॥
tasyāḥ vāyuḥ nadī-tīre vasanam vyaharat tadā . apakṛṣṭa-ambarām dṛṣṭvā tām ṛṣiḥ cakame tatas ..3..
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥४॥
तस्याम् संसक्त-मनसः कौमार-ब्रह्मचारिणः । हृष्टस्य रेतः चस्कन्द तत् ऋषिः द्रोणे आदधे ॥४॥
tasyām saṃsakta-manasaḥ kaumāra-brahmacāriṇaḥ . hṛṣṭasya retaḥ caskanda tat ṛṣiḥ droṇe ādadhe ..4..
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥५॥
ततस् समभवत् द्रोणः कुमारः तस्य धीमतः । अध्यगीष्ट स वेदान् च वेदाङ्गानि च सर्वशस् ॥५॥
tatas samabhavat droṇaḥ kumāraḥ tasya dhīmataḥ . adhyagīṣṭa sa vedān ca vedāṅgāni ca sarvaśas ..5..
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥६॥
भरद्वाजस्य तु सखा पृषतः नाम पार्थिवः । तस्य अपि द्रुपदः नाम तदा समभवत् सुतः ॥६॥
bharadvājasya tu sakhā pṛṣataḥ nāma pārthivaḥ . tasya api drupadaḥ nāma tadā samabhavat sutaḥ ..6..
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥७॥
स नित्यम् आश्रमम् गत्वा द्रोणेन सह पार्षतः । चिक्रीड अध्ययनम् च एव चकार क्षत्रिय-ऋषभः ॥७॥
sa nityam āśramam gatvā droṇena saha pārṣataḥ . cikrīḍa adhyayanam ca eva cakāra kṣatriya-ṛṣabhaḥ ..7..
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥८॥
ततस् तु पृषते अतीते स राजा द्रुपदः अभवत् । द्रोणः अपि रामम् शुश्राव दित्सन्तम् वसु सर्वशस् ॥८॥
tatas tu pṛṣate atīte sa rājā drupadaḥ abhavat . droṇaḥ api rāmam śuśrāva ditsantam vasu sarvaśas ..8..
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥९॥
वनम् तु प्रस्थितम् रामम् भरद्वाज-सुतः अब्रवीत् । आगतम् वित्त-कामम् माम् विद्धि द्रोणम् द्विजर्षभ ॥९॥
vanam tu prasthitam rāmam bharadvāja-sutaḥ abravīt . āgatam vitta-kāmam mām viddhi droṇam dvijarṣabha ..9..
राम उवाच॥
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥१०॥
शरीर-मात्रम् एव अद्य मया इदम् अवशेषितम् । अस्त्राणि वा शरीरम् वा ब्रह्मन् अन्यतरत् वृणु ॥१०॥
śarīra-mātram eva adya mayā idam avaśeṣitam . astrāṇi vā śarīram vā brahman anyatarat vṛṇu ..10..
द्रोण उवाच॥
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥११॥
अस्त्राणि च एव सर्वाणि तेषाम् संहारम् एव च । प्रयोगम् च एव सर्वेषाम् दातुम् अर्हति मे भवान् ॥११॥
astrāṇi ca eva sarvāṇi teṣām saṃhāram eva ca . prayogam ca eva sarveṣām dātum arhati me bhavān ..11..
ब्राह्मण उवाच॥
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥१२॥
तथा इति उक्त्वा ततस् तस्मै प्रददौ भृगुनन्दनः । प्रतिगृह्य ततस् द्रोणः कृतकृत्यः अभवत् तदा ॥१२॥
tathā iti uktvā tatas tasmai pradadau bhṛgunandanaḥ . pratigṛhya tatas droṇaḥ kṛtakṛtyaḥ abhavat tadā ..12..
सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् । ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥१३॥
सम्प्रहृष्ट-मनाः च अपि रामात् परम-संमतम् । ब्रह्मास्त्रम् समनुप्राप्य नरेषु अभ्यधिकः अभवत् ॥१३॥
samprahṛṣṭa-manāḥ ca api rāmāt parama-saṃmatam . brahmāstram samanuprāpya nareṣu abhyadhikaḥ abhavat ..13..
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥१४॥
ततस् द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् । अब्रवीत् पुरुष-व्याघ्रः सखायम् विद्धि माम् इति ॥१४॥
tatas drupadam āsādya bhāradvājaḥ pratāpavān . abravīt puruṣa-vyāghraḥ sakhāyam viddhi mām iti ..14..
द्रुपद उवाच॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१५॥
न अ श्रोत्रियः श्रोत्रियस्य न अ रथी रथिनः सखा । न अ राजा पार्थिवस्य अपि सखिपूर्वम् किम् इष्यते ॥१५॥
na a śrotriyaḥ śrotriyasya na a rathī rathinaḥ sakhā . na a rājā pārthivasya api sakhipūrvam kim iṣyate ..15..
ब्राह्मण उवाच॥
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१६॥
स विनिश्चित्य मनसा पाञ्चाल्यम् प्रति बुद्धिमान् । जगाम कुरु-मुख्यानाम् नगरम् नागसाह्वयम् ॥१६॥
sa viniścitya manasā pāñcālyam prati buddhimān . jagāma kuru-mukhyānām nagaram nāgasāhvayam ..16..
तस्मै पौत्रान्समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥१७॥
तस्मै पौत्रान् समादाय वसूनि विविधानि च । प्राप्ताय प्रददौ भीष्मः शिष्यान् द्रोणाय धीमते ॥१७॥
tasmai pautrān samādāya vasūni vividhāni ca . prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate ..17..
द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् । समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥१८॥
द्रोणः शिष्यान् ततस् सर्वान् इदम् वचनम् अब्रवीत् । समानीय तदा विद्वान् द्रुपदस्य असुखाय वै ॥१८॥
droṇaḥ śiṣyān tatas sarvān idam vacanam abravīt . samānīya tadā vidvān drupadasya asukhāya vai ..18..
आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥१९॥
आचार्य-वेतनम् किञ्चिद् हृदि सम्परिवर्तते । कृतास्त्रैः तत् प्रदेयम् स्यात् तत् ऋतम् वदत अनघाः ॥१९॥
ācārya-vetanam kiñcid hṛdi samparivartate . kṛtāstraiḥ tat pradeyam syāt tat ṛtam vadata anaghāḥ ..19..
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः । ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥२०॥
यदा च पाण्डवाः सर्वे कृतास्त्राः कृत-निश्रमाः । ततस् द्रोणः अब्रवीत् भूयस् वेतन-अर्थम् इदम् वचः ॥२०॥
yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛta-niśramāḥ . tatas droṇaḥ abravīt bhūyas vetana-artham idam vacaḥ ..20..
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥२१॥
पार्षतः द्रुपदः नाम छत्रवत्याम् नरेश्वरः । तस्य अपकृष्य तत् राज्यम् मम शीघ्रम् प्रदीयताम् ॥२१॥
pārṣataḥ drupadaḥ nāma chatravatyām nareśvaraḥ . tasya apakṛṣya tat rājyam mama śīghram pradīyatām ..21..
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥२२॥
ततस् पाण्डु-सुताः पञ्च निर्जित्य द्रुपदम् युधि । द्रोणाय दर्शयामासुः बद्ध्वा स सचिवम् तदा ॥२२॥
tatas pāṇḍu-sutāḥ pañca nirjitya drupadam yudhi . droṇāya darśayāmāsuḥ baddhvā sa sacivam tadā ..22..
द्रोण उवाच॥
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । अराजा किल नो राज्ञः सखा भवितुमर्हति ॥२३॥
प्रार्थयामि त्वया सख्यम् पुनर् एव नराधिप । अ राजा किल नो राज्ञः सखा भवितुम् अर्हति ॥२३॥
prārthayāmi tvayā sakhyam punar eva narādhipa . a rājā kila no rājñaḥ sakhā bhavitum arhati ..23..
अतः प्रयतितं राज्ये यज्ञसेन मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥२४॥
अतस् प्रयतितम् राज्ये यज्ञसेन मया तव । राजा असि दक्षिणे कूले भागीरथ्या अहम् उत्तरे ॥२४॥
atas prayatitam rājye yajñasena mayā tava . rājā asi dakṣiṇe kūle bhāgīrathyā aham uttare ..24..
ब्राह्मण उवाच॥
असत्कारः स सुमहान्मुहूर्तमपि तस्य तु । न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥२५॥1.165.28
असत्कारः स सु महान् मुहूर्तम् अपि तस्य तु । न व्येति हृदयात् राज्ञः दुर्मनाः स कृशः अभवत् ॥२५॥१।१६५।२८
asatkāraḥ sa su mahān muhūrtam api tasya tu . na vyeti hṛdayāt rājñaḥ durmanāḥ sa kṛśaḥ abhavat ..25..1.165.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In