| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्राह्मण उवाच॥
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१॥
अमर्षी द्रुपदः राजा कर्म-सिद्धान् द्विजर्षभान् । अन्विच्छन् परिचक्राम ब्राह्मण-आवसथान् बहून् ॥१॥
amarṣī drupadaḥ rājā karma-siddhān dvijarṣabhān . anvicchan paricakrāma brāhmaṇa-āvasathān bahūn ..1..
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥२॥
पुत्र-जन्म परीप्सन् वै शोक-उपहत-चेतनः । न अस्ति श्रेष्ठम् मम अपत्यम् इति नित्यम् अचिन्तयत् ॥२॥
putra-janma parīpsan vai śoka-upahata-cetanaḥ . na asti śreṣṭham mama apatyam iti nityam acintayat ..2..
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥३॥
जातान् पुत्रान् स निर्वेदात् धिक् बन्धून् इति च अब्रवीत् । निःश्वास-परमः च आसीत् द्रोणम् प्रतिचिकीर्षया ॥३॥
jātān putrān sa nirvedāt dhik bandhūn iti ca abravīt . niḥśvāsa-paramaḥ ca āsīt droṇam praticikīrṣayā ..3..
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥४॥ ( प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥४॥ )
प्रभावम् विनयम् शिक्षाम् द्रोणस्य चरितानि च । क्षात्रेण च बलेन अस्य चिन्तयन् न अन्वपद्यत ॥४॥ ( प्रतिकर्तुम् नृप-श्रेष्ठः यतमानः अपि भारत ॥४॥ )
prabhāvam vinayam śikṣām droṇasya caritāni ca . kṣātreṇa ca balena asya cintayan na anvapadyata ..4.. ( pratikartum nṛpa-śreṣṭhaḥ yatamānaḥ api bhārata ..4.. )
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् । ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥५॥
अभितस् सः अथ कल्माषीम् गङ्गा-कूले परिभ्रमन् । ब्राह्मण-आवसथम् पुण्यम् आससाद महीपतिः ॥५॥
abhitas saḥ atha kalmāṣīm gaṅgā-kūle paribhraman . brāhmaṇa-āvasatham puṇyam āsasāda mahīpatiḥ ..5..
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥६॥
तत्र न अस्नातकः कश्चिद् न च आसीत् अव्रती द्विजः । तथा एव ना अ महाभागः सः अपश्यत् संशित-व्रतौ ॥६॥
tatra na asnātakaḥ kaścid na ca āsīt avratī dvijaḥ . tathā eva nā a mahābhāgaḥ saḥ apaśyat saṃśita-vratau ..6..
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥७॥
याज-उपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषत-आत्मजः । संहित-अध्ययने युक्तौ गोत्रतः च अपि काश्यपौ ॥७॥
yāja-upayājau brahmarṣī śāmyantau pṛṣata-ātmajaḥ . saṃhita-adhyayane yuktau gotrataḥ ca api kāśyapau ..7..
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ । स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥८॥
तारणे युक्त-रूपौ तौ ब्राह्मणौ ऋषि-सत्तमौ । स तौ आमन्त्रयामास सर्व-कामैः अतन्द्रितः ॥८॥
tāraṇe yukta-rūpau tau brāhmaṇau ṛṣi-sattamau . sa tau āmantrayāmāsa sarva-kāmaiḥ atandritaḥ ..8..
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे । प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥९॥
बुद्ध्वा तयोः बलम् बुद्धिम् कनीयांसम् उपह्वरे । प्रपेदे छन्दयन् कामैः उपयाजम् धृत-व्रतम् ॥९॥
buddhvā tayoḥ balam buddhim kanīyāṃsam upahvare . prapede chandayan kāmaiḥ upayājam dhṛta-vratam ..9..
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः । अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१०॥
पाद-शुश्रूषणे युक्तः प्रिय-वाच् सर्व-काम-दः । अर्हयित्वा यथान्यायम् उपयाजम् उवाच सः ॥१०॥
pāda-śuśrūṣaṇe yuktaḥ priya-vāc sarva-kāma-daḥ . arhayitvā yathānyāyam upayājam uvāca saḥ ..10..
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे । उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥११॥
येन मे कर्मणा ब्रह्मन् पुत्रः स्यात् द्रोण-मृत्यवे । उपयाज-कृते तस्मिन् गवाम् दातास्मि ते अर्बुदम् ॥११॥
yena me karmaṇā brahman putraḥ syāt droṇa-mṛtyave . upayāja-kṛte tasmin gavām dātāsmi te arbudam ..11..
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१२॥
यत् वा ते अन्यत् द्विजश्रेष्ठ मनसः सु प्रियम् भवेत् । सर्वम् तत् ते प्रदाता अहम् न हि मे अस्ति अत्र संशयः ॥१२॥
yat vā te anyat dvijaśreṣṭha manasaḥ su priyam bhavet . sarvam tat te pradātā aham na hi me asti atra saṃśayaḥ ..12..
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह । आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१३॥
इति उक्तः न अहम् इति एवम् तम् ऋषिः प्रत्युवाच ह । आराधयिष्यन् द्रुपदः स तम् पर्यचरत् पुनर् ॥१३॥
iti uktaḥ na aham iti evam tam ṛṣiḥ pratyuvāca ha . ārādhayiṣyan drupadaḥ sa tam paryacarat punar ..13..
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१४॥
ततस् संवत्सरस्य अन्ते द्रुपदम् स द्विजोत्तमः । उपयाजः अब्रवीत् राजन् काले मधुरया गिरा ॥१४॥
tatas saṃvatsarasya ante drupadam sa dvijottamaḥ . upayājaḥ abravīt rājan kāle madhurayā girā ..14..
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे । अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१५॥
ज्येष्ठः भ्राता मम अगृह्णात् विचरन् वन-निर्झरे । अ परिज्ञात-शौचायाम् भूमौ निपतितम् फलम् ॥१५॥
jyeṣṭhaḥ bhrātā mama agṛhṇāt vicaran vana-nirjhare . a parijñāta-śaucāyām bhūmau nipatitam phalam ..15..
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ॥१६॥
तत् अपश्यम् अहम् भ्रातुः असांप्रतम् अनुव्रजन् । विमर्शम् सङ्कर-आदाने न अयम् कुर्यात् कथञ्चन ॥१६॥
tat apaśyam aham bhrātuḥ asāṃpratam anuvrajan . vimarśam saṅkara-ādāne na ayam kuryāt kathañcana ..16..
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः । विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१७॥
दृष्ट्वा फलस्य न अपश्यत् दोषाः ये अस्य अनुबन्धिकाः । विविनक्ति न शौचम् यः सः अन्यत्र अपि कथम् भवेत् ॥१७॥
dṛṣṭvā phalasya na apaśyat doṣāḥ ye asya anubandhikāḥ . vivinakti na śaucam yaḥ saḥ anyatra api katham bhavet ..17..
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ॥१८॥ ( कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१८॥ )
संहिता-अध्ययनम् कुर्वन् वसन् गुरु-कुले च यः । भैक्षम् उच्छिष्टम् अन्येषाम् भुङ्क्ते च अपि सदा सदा ॥१८॥ ( कीर्तयन् गुणम् अन्नानाम् अघृणी च पुनर् पुनर् ॥१८॥ )
saṃhitā-adhyayanam kurvan vasan guru-kule ca yaḥ . bhaikṣam ucchiṣṭam anyeṣām bhuṅkte ca api sadā sadā ..18.. ( kīrtayan guṇam annānām aghṛṇī ca punar punar ..18.. )
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा । तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१९॥
तम् अहम् फल-अर्थिनम् मन्ये भ्रातरम् तर्क-चक्षुषा । तम् वै गच्छस्व नृपते स त्वाम् संयाजयिष्यति ॥१९॥
tam aham phala-arthinam manye bhrātaram tarka-cakṣuṣā . tam vai gacchasva nṛpate sa tvām saṃyājayiṣyati ..19..
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् । उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ॥२०॥ ( अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥२०॥ )
जुगुप्समानः नृपतिः मनसा इदम् विचिन्तयन् । उपयाज-वचः श्रुत्वा नृपतिः सर्व-धर्म-विद् ॥२०॥ ( अभिसम्पूज्य पूजा-अर्हम् ऋषिम् याजम् उवाच ह ॥२०॥ )
jugupsamānaḥ nṛpatiḥ manasā idam vicintayan . upayāja-vacaḥ śrutvā nṛpatiḥ sarva-dharma-vid ..20.. ( abhisampūjya pūjā-arham ṛṣim yājam uvāca ha ..20.. )
अयुतानि ददान्यष्टौ गवां याजय मां विभो । द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ॥२१॥
अयुतानि ददानि अष्टौ गवाम् याजय माम् विभो । द्रोण-वैर-अभिसन्तप्तम् त्वम् ह्लादयितुम् अर्हसि ॥२१॥
ayutāni dadāni aṣṭau gavām yājaya mām vibho . droṇa-vaira-abhisantaptam tvam hlādayitum arhasi ..21..
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥२२॥
स हि ब्रह्म-विदाम् श्रेष्ठः ब्रह्मास्त्रे च अपि अनुत्तमः । तस्मात् द्रोणः पराजैषीत् माम् वै स सखी-विग्रहे ॥२२॥
sa hi brahma-vidām śreṣṭhaḥ brahmāstre ca api anuttamaḥ . tasmāt droṇaḥ parājaiṣīt mām vai sa sakhī-vigrahe ..22..
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः । कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥२३॥
क्षत्रियः न अस्ति तुल्यः अस्य पृथिव्याम् कश्चिद् अग्रणीः । कौरव-आचार्य-मुख्यस्य भारद्वाजस्य धीमतः ॥२३॥
kṣatriyaḥ na asti tulyaḥ asya pṛthivyām kaścid agraṇīḥ . kaurava-ācārya-mukhyasya bhāradvājasya dhīmataḥ ..23..
द्रोणस्य शरजालानि प्राणिदेहहराणि च । षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥२४॥
द्रोणस्य शर-जालानि प्राणि-देह-हराणि च । षष्-अरत्नि धनुः च अस्य दृश्यते अप्रतिमम् महत् ॥२४॥
droṇasya śara-jālāni prāṇi-deha-harāṇi ca . ṣaṣ-aratni dhanuḥ ca asya dṛśyate apratimam mahat ..24..
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् । प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥२५॥
स हि ब्राह्मण-वेगेन क्षात्रम् वेगम् असंशयम् । प्रतिहन्ति महा-इष्वासः भारद्वाजः महा-मनाः ॥२५॥
sa hi brāhmaṇa-vegena kṣātram vegam asaṃśayam . pratihanti mahā-iṣvāsaḥ bhāradvājaḥ mahā-manāḥ ..25..
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥२६॥
क्षत्र-उच्छेदाय विहितः जामदग्न्यः इव आस्थितः । तस्य हि अस्त्र-बलम् घोरम् अप्रसह्यम् नरैः भुवि ॥२६॥
kṣatra-ucchedāya vihitaḥ jāmadagnyaḥ iva āsthitaḥ . tasya hi astra-balam ghoram aprasahyam naraiḥ bhuvi ..26..
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः । समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ॥२७॥ ( ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥२७॥ )
ब्राह्मम् उच्चारयन् तेजः हुत-आहुतिः इव अनलः । समेत्य स दहति आजौ क्षत्रम् ब्रह्म-पुरःसरः ॥२७॥ ( ब्रह्म-क्षत्रे च विहिते ब्रह्म-तेजः विशिष्यते ॥२७॥ )
brāhmam uccārayan tejaḥ huta-āhutiḥ iva analaḥ . sametya sa dahati ājau kṣatram brahma-puraḥsaraḥ ..27.. ( brahma-kṣatre ca vihite brahma-tejaḥ viśiṣyate ..27.. )
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् । द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥२८॥
सः अहम् क्षत्र-बलात् हीनः ब्रह्म-तेजः प्रपेदिवान् । द्रोणात् विशिष्टम् आसाद्य भवन्तम् ब्रह्म-वित्तमम् ॥२८॥
saḥ aham kṣatra-balāt hīnaḥ brahma-tejaḥ prapedivān . droṇāt viśiṣṭam āsādya bhavantam brahma-vittamam ..28..
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥२९॥
द्रोण-अन्तकम् अहम् पुत्रम् लभेयम् युधि दुर्जयम् । तत् कर्म कुरु मे याज निर्वपामि अर्बुदम् गवाम् ॥२९॥
droṇa-antakam aham putram labheyam yudhi durjayam . tat karma kuru me yāja nirvapāmi arbudam gavām ..29..
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् । गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥३०॥ ( याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥३०॥ )
तथा इति उक्त्वा तु तम् याजः याज्य-अर्थम् उपकल्पयत् । गुरु-अर्थः इति च अकामम् उपयाजम् अचोदयत् ॥३०॥ ( याजः द्रोण-विनाशाय प्रतिजज्ञे तथा च सः ॥३०॥ )
tathā iti uktvā tu tam yājaḥ yājya-artham upakalpayat . guru-arthaḥ iti ca akāmam upayājam acodayat ..30.. ( yājaḥ droṇa-vināśāya pratijajñe tathā ca saḥ ..30.. )
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥३१॥
ततस् तस्य नरेन्द्रस्य उपयाजः महा-तपाः । आचख्यौ कर्म वैतानम् तदा पुत्र-फलाय वै ॥३१॥
tatas tasya narendrasya upayājaḥ mahā-tapāḥ . ācakhyau karma vaitānam tadā putra-phalāya vai ..31..
स च पुत्रो महावीर्यो महातेजा महाबलः । इष्यते यद्विधो राजन्भविता ते तथाविधः ॥३२॥
स च पुत्रः महा-वीर्यः महा-तेजाः महा-बलः । इष्यते यद्विधः राजन् भविता ते तथाविधः ॥३२॥
sa ca putraḥ mahā-vīryaḥ mahā-tejāḥ mahā-balaḥ . iṣyate yadvidhaḥ rājan bhavitā te tathāvidhaḥ ..32..
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥३३॥
भारद्वाजस्य हन्तारम् सः अभिसन्धाय भूमिपः । आजह्रे तत् तथा सर्वम् द्रुपदः कर्म-सिद्धये ॥३३॥
bhāradvājasya hantāram saḥ abhisandhāya bhūmipaḥ . ājahre tat tathā sarvam drupadaḥ karma-siddhaye ..33..
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा । प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥३४॥
याजः तु हवनस्य अन्ते देवीम् आह्वापयत् तदा । प्रैहि माम् राज्ञि पृषति मिथुनम् त्वाम् उपस्थितम् ॥३४॥
yājaḥ tu havanasya ante devīm āhvāpayat tadā . praihi mām rājñi pṛṣati mithunam tvām upasthitam ..34..
देव्युवाच॥
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च । सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥३५॥
अवलिप्तम् मे मुखम् ब्रह्मन् पुण्यान् गन्धान् बिभर्मि च । सुत-अर्थेन उपरुद्धा अस्मि तिष्ठ याज मम प्रिये ॥३५॥
avaliptam me mukham brahman puṇyān gandhān bibharmi ca . suta-arthena uparuddhā asmi tiṣṭha yāja mama priye ..35..
याज उवाच॥
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥३६॥
याजेन श्रपितम् हव्यम् उपयाजेन मन्त्रितम् । कथम् कामम् न संदध्यात् सा त्वम् विप्रैहि तिष्ठ वा ॥३६॥
yājena śrapitam havyam upayājena mantritam . katham kāmam na saṃdadhyāt sā tvam vipraihi tiṣṭha vā ..36..
ब्राह्मण उवाच॥
एवमुक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥३७॥
एवम् उक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात् तस्मात् कुमारः देव-संनिभः ॥३७॥
evam ukte tu yājena hute haviṣi saṃskṛte . uttasthau pāvakāt tasmāt kumāraḥ deva-saṃnibhaḥ ..37..
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥३८॥
ज्वाला-वर्णः घोर-रूपः किरीटी वर्म च उत्तमम् । बिभ्रत् स खड्गः स शरः धनुष्मान् विनदन् मुहुर् ॥३८॥
jvālā-varṇaḥ ghora-rūpaḥ kirīṭī varma ca uttamam . bibhrat sa khaḍgaḥ sa śaraḥ dhanuṣmān vinadan muhur ..38..
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥३९॥
सः अध्यारोहत् रथ-वरम् तेन च प्रययौ तदा । ततस् प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साधु इति ॥३९॥
saḥ adhyārohat ratha-varam tena ca prayayau tadā . tatas praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhu iti ..39..
भयापहो राजपुत्रः पाञ्चालानां यशस्करः । राज्ञः शोकापहो जात एष द्रोणवधाय वै ॥४०॥ ( इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥४०॥ )
भय-अपहः राज-पुत्रः पाञ्चालानाम् यशस्करः । राज्ञः शोक-अपहः जातः एष द्रोण-वधाय वै ॥४०॥ ( इति उवाच महत् भूतम् अदृश्यम् खेचरम् तदा ॥४०॥ )
bhaya-apahaḥ rāja-putraḥ pāñcālānām yaśaskaraḥ . rājñaḥ śoka-apahaḥ jātaḥ eṣa droṇa-vadhāya vai ..40.. ( iti uvāca mahat bhūtam adṛśyam khecaram tadā ..40.. )
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥४१॥
कुमारी च अपि पाञ्चाली वेदि-मध्यात् समुत्थिता । सुभगा दर्शनीय-अङ्गी वेदि-मध्या मनोरमा ॥४१॥
kumārī ca api pāñcālī vedi-madhyāt samutthitā . subhagā darśanīya-aṅgī vedi-madhyā manoramā ..41..
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥४२॥
श्यामा पद्म-पलाश-अक्षी नील-कुञ्चित-मूर्धजा । मानुषम् विग्रहम् कृत्वा साक्षात् अमर-वर्णिनी ॥४२॥
śyāmā padma-palāśa-akṣī nīla-kuñcita-mūrdhajā . mānuṣam vigraham kṛtvā sākṣāt amara-varṇinī ..42..
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति । या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥४३॥
नीलोत्पल-समः गन्धः यस्याः क्रोशात् प्रवायति । या बिभर्ति परम् रूपम् यस्याः न अस्ति उपमा भुवि ॥४३॥
nīlotpala-samaḥ gandhaḥ yasyāḥ krośāt pravāyati . yā bibharti param rūpam yasyāḥ na asti upamā bhuvi ..43..
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥४४॥
ताम् च अपि जाताम् सुश्रोणीम् वाच् उवाच अशरीरिणी । सर्व-योषित्-वरा कृष्णा क्षयम् क्षत्रम् निनीषति ॥४४॥
tām ca api jātām suśroṇīm vāc uvāca aśarīriṇī . sarva-yoṣit-varā kṛṣṇā kṣayam kṣatram ninīṣati ..44..
सुरकार्यमियं काले करिष्यति सुमध्यमा । अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥४५॥
सुर-कार्यम् इयम् काले करिष्यति सुमध्यमा । अस्याः हेतोः क्षत्रियाणाम् महत् उत्पत्स्यते भयम् ॥४५॥
sura-kāryam iyam kāle kariṣyati sumadhyamā . asyāḥ hetoḥ kṣatriyāṇām mahat utpatsyate bhayam ..45..
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् । न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ॥४६॥
तत् श्रुत्वा सर्व-पाञ्चालाः प्रणेदुः सिंह-सङ्घ-वत् । न च एतान् हर्ष-सम्पूणान् इयम् सेहे वसुन्धरा ॥४६॥
tat śrutvā sarva-pāñcālāḥ praṇeduḥ siṃha-saṅgha-vat . na ca etān harṣa-sampūṇān iyam sehe vasundharā ..46..
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ॥४७॥
तौ दृष्ट्वा पृषती याजम् प्रपेदे वै सुत-अर्थिनी । न वै मद्-अन्याम् जननीम् जानीयाताम् इमौ इति ॥४७॥
tau dṛṣṭvā pṛṣatī yājam prapede vai suta-arthinī . na vai mad-anyām jananīm jānīyātām imau iti ..47..
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥४८॥
तथा इति उवाच ताम् याजः राज्ञः प्रिय-चिकीर्षया । तयोः च नामनी चक्रुः द्विजाः सम्पूर्ण-मानसाः ॥४८॥
tathā iti uvāca tām yājaḥ rājñaḥ priya-cikīrṣayā . tayoḥ ca nāmanī cakruḥ dvijāḥ sampūrṇa-mānasāḥ ..48..
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥४९॥
धृष्ट-त्वात् अतिधृष्णु-त्वात् धर्मात् द्युत्-सम्भवात् अपि । धृष्टद्युम्नः कुमारः अयम् द्रुपदस्य भवतु इति ॥४९॥
dhṛṣṭa-tvāt atidhṛṣṇu-tvāt dharmāt dyut-sambhavāt api . dhṛṣṭadyumnaḥ kumāraḥ ayam drupadasya bhavatu iti ..49..
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥५०॥
कृष्णा इति एव ब्रुवन् कृष्णाम् कृष्णा अभूत् सा हि वर्णतः । तथा तत् मिथुनम् जज्ञे द्रुपदस्य महा-मखे ॥५०॥
kṛṣṇā iti eva bruvan kṛṣṇām kṛṣṇā abhūt sā hi varṇataḥ . tathā tat mithunam jajñe drupadasya mahā-makhe ..50..
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् । उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥५१॥
धृष्टद्युम्नम् तु पाञ्चाल्यम् आनीय स्वम् विवेशनम् । उपाकरोत् अस्त्र-हेतोः भारद्वाजः प्रतापवान् ॥५१॥
dhṛṣṭadyumnam tu pāñcālyam ānīya svam viveśanam . upākarot astra-hetoḥ bhāradvājaḥ pratāpavān ..51..
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥५२॥1.166.56
अमोक्षणीयम् दैवम् हि भावि मत्वा महामतिः । तथा तत् कृतवान् द्रोणः आत्म-कीर्ति-अनुरक्षणात् ॥५२॥१।१६६।५६
amokṣaṇīyam daivam hi bhāvi matvā mahāmatiḥ . tathā tat kṛtavān droṇaḥ ātma-kīrti-anurakṣaṇāt ..52..1.166.56

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In