| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् । सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ॥१॥
एतत् श्रुत्वा तु कौन्तेयाः शल्य-विद्धाः इव अभवन् । सर्वे च अस्वस्थ-मनसः बभूवुः ते महा-रथाः ॥१॥
etat śrutvā tu kaunteyāḥ śalya-viddhāḥ iva abhavan . sarve ca asvastha-manasaḥ babhūvuḥ te mahā-rathāḥ ..1..
ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः । युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥२॥
ततस् कुन्ती सुतान् दृष्ट्वा विभ्रान्तान् गत-चेतसः । युधिष्ठिरम् उवाच इदम् वचनम् सत्य-वादिनी ॥२॥
tatas kuntī sutān dṛṣṭvā vibhrāntān gata-cetasaḥ . yudhiṣṭhiram uvāca idam vacanam satya-vādinī ..2..
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने । रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ॥३॥
चिर-रात्र-उषिताः स्म इह ब्राह्मणस्य निवेशने । रममाणाः पुरे रम्ये लब्ध-भैक्षाः युधिष्ठिर ॥३॥
cira-rātra-uṣitāḥ sma iha brāhmaṇasya niveśane . ramamāṇāḥ pure ramye labdha-bhaikṣāḥ yudhiṣṭhira ..3..
यानीह रमणीयानि वनान्युपवनानि च । सर्वाणि तानि दृष्टानि पुनः पुनररिंदम ॥४॥
यानि इह रमणीयानि वनानि उपवनानि च । सर्वाणि तानि दृष्टानि पुनर् पुनर् अरिंदम ॥४॥
yāni iha ramaṇīyāni vanāni upavanāni ca . sarvāṇi tāni dṛṣṭāni punar punar ariṃdama ..4..
पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा । भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥५॥
पुनर् दृष्टानि तानि एव प्रीणयन्ति न नः तथा । भैक्षम् च न तथा वीर लभ्यते कुरु-नन्दन ॥५॥
punar dṛṣṭāni tāni eva prīṇayanti na naḥ tathā . bhaikṣam ca na tathā vīra labhyate kuru-nandana ..5..
ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे । अपूर्वदर्शनं तात रमणीयं भविष्यति ॥६॥
ते वयम् साधु पाञ्चालान् गच्छाम यदि मन्यसे । अपूर्व-दर्शनम् तात रमणीयम् भविष्यति ॥६॥
te vayam sādhu pāñcālān gacchāma yadi manyase . apūrva-darśanam tāta ramaṇīyam bhaviṣyati ..6..
सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन । यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ॥७॥
सुभिक्षाः च एव पाञ्चालाः श्रूयन्ते शत्रु-कर्शन । यज्ञसेनः च राजा असौ ब्रह्मण्यः इति शुश्रुमः ॥७॥
subhikṣāḥ ca eva pāñcālāḥ śrūyante śatru-karśana . yajñasenaḥ ca rājā asau brahmaṇyaḥ iti śuśrumaḥ ..7..
एकत्र चिरवासो हि क्षमो न च मतो मम । ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥८॥
एकत्र चिर-वासः हि क्षमः न च मतः मम । ते तत्र साधु गच्छामः यदि त्वम् पुत्र मन्यसे ॥८॥
ekatra cira-vāsaḥ hi kṣamaḥ na ca mataḥ mama . te tatra sādhu gacchāmaḥ yadi tvam putra manyase ..8..
युधिष्ठिर उवाच॥
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् । अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥९॥
भवत्या यत् मतम् कार्यम् तत् अस्माकम् परम् हितम् । अनुजान् तु न जानामि गच्छेयुः न इति वा पुनर् ॥९॥
bhavatyā yat matam kāryam tat asmākam param hitam . anujān tu na jānāmi gaccheyuḥ na iti vā punar ..9..
वैशम्पायन उवाच॥
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा । उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥१०॥
ततस् कुन्ती भीमसेनम् अर्जुनम् यम-जौ तथा । उवाच गमनम् ते च तथा इति एव ब्रुवन् तदा ॥१०॥
tatas kuntī bhīmasenam arjunam yama-jau tathā . uvāca gamanam te ca tathā iti eva bruvan tadā ..10..
तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह । प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥११॥1.167.11
ततस् आमन्त्र्य तम् विप्रम् कुन्तिः राजन् सुतैः सह । प्रतस्थे नगरीम् रम्याम् द्रुपदस्य महात्मनः ॥११॥१।१६७।११
tatas āmantrya tam vipram kuntiḥ rājan sutaiḥ saha . pratasthe nagarīm ramyām drupadasya mahātmanaḥ ..11..1.167.11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In