| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु । आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥१॥
वसत्सु तेषु प्रच्छन्नम् पाण्डवेषु महात्मसु । आजगाम अथ तान् द्रष्टुम् व्यासः सत्यवती-सुतः ॥१॥
vasatsu teṣu pracchannam pāṇḍaveṣu mahātmasu . ājagāma atha tān draṣṭum vyāsaḥ satyavatī-sutaḥ ..1..
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः । प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥२॥
तम् आगतम् अभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः । प्रणिपत्य अभिवाद्य एनम् तस्थुः प्राञ्जलयः तदा ॥२॥
tam āgatam abhiprekṣya pratyudgamya parantapāḥ . praṇipatya abhivādya enam tasthuḥ prāñjalayaḥ tadā ..2..
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् । प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥३॥
समनुज्ञाप्य तान् सर्वान् आसीनान् मुनिः अब्रवीत् । प्रसन्नः पूजितः पार्थैः प्रीति-पूर्वम् इदम् वचः ॥३॥
samanujñāpya tān sarvān āsīnān muniḥ abravīt . prasannaḥ pūjitaḥ pārthaiḥ prīti-pūrvam idam vacaḥ ..3..
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः । अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥४॥
अपि धर्मेण वर्तध्वम् शास्त्रेण च परन्तपाः । अपि विप्रेषु वः पूजा पूजा-अर्हेषु न हीयते ॥४॥
api dharmeṇa vartadhvam śāstreṇa ca parantapāḥ . api vipreṣu vaḥ pūjā pūjā-arheṣu na hīyate ..4..
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः । विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥५॥
अथ धर्म-अर्थ-वत् वाक्यम् उक्त्वा स भगवान् ऋषिः । विचित्राः च कथाः ताः ताः पुनर् एव इदम् अब्रवीत् ॥५॥
atha dharma-artha-vat vākyam uktvā sa bhagavān ṛṣiḥ . vicitrāḥ ca kathāḥ tāḥ tāḥ punar eva idam abravīt ..5..
आसीत्तपोवने काचिदृषेः कन्या महात्मनः । विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥६॥
आसीत् तपः-वने काचिद् ऋषेः कन्या महात्मनः । विलग्न-मध्या सु श्रोणी सुभ्रूः सर्व-गुण-अन्विता ॥६॥
āsīt tapaḥ-vane kācid ṛṣeḥ kanyā mahātmanaḥ . vilagna-madhyā su śroṇī subhrūḥ sarva-guṇa-anvitā ..6..
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥७॥
कर्मभिः स्व-कृतैः सा तु दुर्भगा समपद्यत । न अध्यगच्छत् पतिम् सा तु कन्या रूपवती सती ॥७॥
karmabhiḥ sva-kṛtaiḥ sā tu durbhagā samapadyata . na adhyagacchat patim sā tu kanyā rūpavatī satī ..7..
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः । तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥८॥
तपः तप्तुम् अथ आरेभे पति-अर्थम् असुखा ततस् । तोषयामास तपसा सा किल उग्रेण शङ्करम् ॥८॥
tapaḥ taptum atha ārebhe pati-artham asukhā tatas . toṣayāmāsa tapasā sā kila ugreṇa śaṅkaram ..8..
तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् । वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ॥९॥
तस्याः स भगवान् तुष्टः ताम् उवाच तपस्विनीम् । वरम् वरय भद्रम् ते वर-दः अस्मि इति भामिनि ॥९॥
tasyāḥ sa bhagavān tuṣṭaḥ tām uvāca tapasvinīm . varam varaya bhadram te vara-daḥ asmi iti bhāmini ..9..
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥१०॥
अथा ईश्वरम् उवाच इदम् आत्मनः सा वचः हितम् । पतिम् सर्व-गुण-उपेतम् इच्छामि इति पुनर् पुनर् ॥१०॥
athā īśvaram uvāca idam ātmanaḥ sā vacaḥ hitam . patim sarva-guṇa-upetam icchāmi iti punar punar ..10..
तामथ प्रत्युवाचेदमीशानो वदतां वरः । पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥११॥
ताम् अथ प्रत्युवाच इदम् ईशानः वदताम् वरः । पञ्च ते पतयः भद्रे भविष्यन्ति इति शङ्करः ॥११॥
tām atha pratyuvāca idam īśānaḥ vadatām varaḥ . pañca te patayaḥ bhadre bhaviṣyanti iti śaṅkaraḥ ..11..
प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् । पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ॥१२॥
प्रतिब्रुवन्तीम् एकम् मे पतिम् देहि इति शङ्करम् । पुनर् एव अब्रवीत् देवः इदम् वचनम् उत्तमम् ॥१२॥
pratibruvantīm ekam me patim dehi iti śaṅkaram . punar eva abravīt devaḥ idam vacanam uttamam ..12..
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥१३॥
पञ्च-कृत्वस् त्वया उक्तः पतिम् देहि इति अहम् पुनर् । देहम् अन्यम् गतायाः ते यथा उक्तम् तत् भविष्यति ॥१३॥
pañca-kṛtvas tvayā uktaḥ patim dehi iti aham punar . deham anyam gatāyāḥ te yathā uktam tat bhaviṣyati ..13..
द्रुपदस्य कुले जाता कन्या सा देवरूपिणी । निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ॥१४॥
द्रुपदस्य कुले जाता कन्या सा देव-रूपिणी । निर्दिष्टा भवताम् पत्नी कृष्णा पार्षती अनिन्दिता ॥१४॥
drupadasya kule jātā kanyā sā deva-rūpiṇī . nirdiṣṭā bhavatām patnī kṛṣṇā pārṣatī aninditā ..14..
पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः । सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥१५॥
पाञ्चाल-नगरम् तस्मात् प्रविशध्वम् महा-बलाः । सुखिनः ताम् अनुप्राप्य भविष्यथ न संशयः ॥१५॥
pāñcāla-nagaram tasmāt praviśadhvam mahā-balāḥ . sukhinaḥ tām anuprāpya bhaviṣyatha na saṃśayaḥ ..15..
एवमुक्त्वा महाभागः पाण्डवानां पितामहः । पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥१६॥1.1168.16
एवम् उक्त्वा महाभागः पाण्डवानाम् पितामहः । पार्थान् आमन्त्र्य कुन्तीम् च प्रातिष्ठत महा-तपाः ॥१६॥१।११६८।१६
evam uktvā mahābhāgaḥ pāṇḍavānām pitāmahaḥ . pārthān āmantrya kuntīm ca prātiṣṭhata mahā-tapāḥ ..16..1.1168.16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In