| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः । समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः ॥१॥
ते प्रतस्थुः पुरस्कृत्य मातरम् पुरुष-ऋषभाः । समैः उदक्-मुखैः मार्गैः यथोद्दिष्टम् परन्तपाः ॥१॥
te pratasthuḥ puraskṛtya mātaram puruṣa-ṛṣabhāḥ . samaiḥ udak-mukhaiḥ mārgaiḥ yathoddiṣṭam parantapāḥ ..1..
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् । आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥२॥
ते गच्छन्तः तु अहोरात्रम् तीर्थम् सोमश्रवायणम् । आसेदुः पुरुष-व्याघ्राः गङ्गायाम् पाण्डु-नन्दनाः ॥२॥
te gacchantaḥ tu ahorātram tīrtham somaśravāyaṇam . āseduḥ puruṣa-vyāghrāḥ gaṅgāyām pāṇḍu-nandanāḥ ..2..
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः । प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥३॥
उल्मुकम् तु समुद्यम्य तेषाम् अग्रे धनञ्जयः । प्रकाश-अर्थम् ययौ तत्र रक्षा-अर्थम् च महा-यशाः ॥३॥
ulmukam tu samudyamya teṣām agre dhanañjayaḥ . prakāśa-artham yayau tatra rakṣā-artham ca mahā-yaśāḥ ..3..
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः । ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ॥४॥
तत्र गङ्गा-जले रम्ये विविक्ते क्रीडयन् स्त्रियः । ईर्ष्युः गन्धर्व-राजः स्म जल-क्रीडाम् उपागतः ॥४॥
tatra gaṅgā-jale ramye vivikte krīḍayan striyaḥ . īrṣyuḥ gandharva-rājaḥ sma jala-krīḍām upāgataḥ ..4..
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् । तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥५॥
शब्दम् तेषाम् स शुश्राव नदीम् समुपसर्पताम् । तेन शब्देन च आविष्टः चुक्रोध बलवत्-बली ॥५॥
śabdam teṣām sa śuśrāva nadīm samupasarpatām . tena śabdena ca āviṣṭaḥ cukrodha balavat-balī ..5..
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् । विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥६॥
स दृष्ट्वा पाण्डवान् तत्र सह मात्रा परन्तपान् । विस्फारयन् धनुः घोरम् इदम् वचनम् अब्रवीत् ॥६॥
sa dṛṣṭvā pāṇḍavān tatra saha mātrā parantapān . visphārayan dhanuḥ ghoram idam vacanam abravīt ..6..
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या । अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ॥७॥
सन्ध्या संरज्यते घोरा पूर्वरात्र-आगमेषु या । अशीतिभिः त्रुटैः हीनम् तम् मुहूर्तम् प्रचक्षते ॥७॥
sandhyā saṃrajyate ghorā pūrvarātra-āgameṣu yā . aśītibhiḥ truṭaiḥ hīnam tam muhūrtam pracakṣate ..7..
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् । शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ॥८॥
विहितम् कामचाराणाम् यक्ष-गन्धर्व-रक्षसाम् । शेषम् अन्यत् मनुष्याणाम् कामचारम् इह स्मृतम् ॥८॥
vihitam kāmacārāṇām yakṣa-gandharva-rakṣasām . śeṣam anyat manuṣyāṇām kāmacāram iha smṛtam ..8..
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् । उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥९॥
लोभात् प्रचारम् चरतः तासु वेलासु वै नरान् । उपक्रान्ताः निगृह्णीमः राक्षसैः सह बालिशान् ॥९॥
lobhāt pracāram carataḥ tāsu velāsu vai narān . upakrāntāḥ nigṛhṇīmaḥ rākṣasaiḥ saha bāliśān ..9..
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः । गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥१०॥
ततस् रात्रौ प्राप्नुवतः जलम् ब्रह्म-विदः जनाः । गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीन् अपि ॥१०॥
tatas rātrau prāpnuvataḥ jalam brahma-vidaḥ janāḥ . garhayanti narān sarvān balasthān nṛpatīn api ..10..
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत । कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥११॥
आरात् तिष्ठत मा मह्यम् समीपम् उपसर्पत । कस्मात् माम् न अभिजानीत प्राप्तम् भागीरथी-जलम् ॥११॥
ārāt tiṣṭhata mā mahyam samīpam upasarpata . kasmāt mām na abhijānīta prāptam bhāgīrathī-jalam ..11..
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् । अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥१२॥
अङ्गारपर्णम् गन्धर्वम् वित्त माम् स्व-बल-आश्रयम् । अहम् हि मानी च ईर्ष्युः च कुबेरस्य प्रियः सखा ॥१२॥
aṅgāraparṇam gandharvam vitta mām sva-bala-āśrayam . aham hi mānī ca īrṣyuḥ ca kuberasya priyaḥ sakhā ..12..
अङ्गारपर्णमिति च ख्यतं वनमिदं मम । अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥१३॥
अङ्गारपर्णम् इति च ख्यतम् वनम् इदम् मम । अनु गङ्गाम् च वाकाम् च चित्रम् यत्र वसामि अहम् ॥१३॥
aṅgāraparṇam iti ca khyatam vanam idam mama . anu gaṅgām ca vākām ca citram yatra vasāmi aham ..13..
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः । इदं समुपसर्पन्ति तत्किं समुपसर्पथ ॥१४॥
न कुणपाः शृङ्गिणः वा न देवाः न च मानुषाः । इदम् समुपसर्पन्ति तत् किम् समुपसर्पथ ॥१४॥
na kuṇapāḥ śṛṅgiṇaḥ vā na devāḥ na ca mānuṣāḥ . idam samupasarpanti tat kim samupasarpatha ..14..
अर्जुन उवाच॥
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते । रात्रावहनि सन्धौ च कस्य कॢप्तः परिग्रहः ॥१५॥
समुद्रे हिमवत्-पार्श्वे नद्याम् अस्याम् च दुर्मते । रात्रौ अहनि सन्धौ च कस्य कॢप्तः परिग्रहः ॥१५॥
samudre himavat-pārśve nadyām asyām ca durmate . rātrau ahani sandhau ca kasya kḷptaḥ parigrahaḥ ..15..
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः । अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ॥१६॥
वयम् च शक्ति-सम्पन्नाः अकाले त्वाम् अधृष्णुमः । अशक्ताः हि क्षणे क्रूरे युष्मान् अर्चन्ति मानवाः ॥१६॥
vayam ca śakti-sampannāḥ akāle tvām adhṛṣṇumaḥ . aśaktāḥ hi kṣaṇe krūre yuṣmān arcanti mānavāḥ ..16..
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता । गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ॥१७॥
पुरा हिमवतः च एषा हेमशृङ्गात् विनिःसृता । गङ्गा गत्वा समुद्र-अम्भः सप्तधा प्रतिपद्यते ॥१७॥
purā himavataḥ ca eṣā hemaśṛṅgāt viniḥsṛtā . gaṅgā gatvā samudra-ambhaḥ saptadhā pratipadyate ..17..
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः । देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ॥१८॥
इयम् भूत्वा च एक-वप्रा शुचिः आकाश-गा पुनर् । देवेषु गङ्गा गन्धर्व प्राप्नोति अलकनन्दताम् ॥१८॥
iyam bhūtvā ca eka-vaprā śuciḥ ākāśa-gā punar . deveṣu gaṅgā gandharva prāpnoti alakanandatām ..18..
तथा पितृन्वैतरणी दुस्तरा पापकर्मभिः । गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ॥१९॥
तथा पितृन् वैतरणी दुस्तरा पाप-कर्मभिः । गङ्गा भवति गन्धर्व यथा द्वैपायनः अब्रवीत् ॥१९॥
tathā pitṛn vaitaraṇī dustarā pāpa-karmabhiḥ . gaṅgā bhavati gandharva yathā dvaipāyanaḥ abravīt ..19..
असम्बाधा देवनदी स्वर्गसम्पादनी शुभा । कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥२०॥
असम्बाधा देव-नदी स्वर्ग-सम्पादनी शुभा । कथम् इच्छसि ताम् रोद्धुम् न एष धर्मः सनातनः ॥२०॥
asambādhā deva-nadī svarga-sampādanī śubhā . katham icchasi tām roddhum na eṣa dharmaḥ sanātanaḥ ..20..
अनिवार्यमसम्बाधं तव वाचा कथं वयम् । न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥२१॥
अनिवार्यम् असम्बाधम् तव वाचा कथम् वयम् । न स्पृशेम यथाकामम् पुण्यम् भागीरथी-जलम् ॥२१॥
anivāryam asambādham tava vācā katham vayam . na spṛśema yathākāmam puṇyam bhāgīrathī-jalam ..21..
वैशम्पायन उवाच॥
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् । मुमोच सायकान्दीप्तानहीनाशीविषानिव ॥२२॥
अङ्गारपर्णः तत् श्रुत्वा क्रुद्धः आनम्य कार्मुकम् । मुमोच सायकान् दीप्तान् अहीन-आशीविषान् इव ॥२२॥
aṅgāraparṇaḥ tat śrutvā kruddhaḥ ānamya kārmukam . mumoca sāyakān dīptān ahīna-āśīviṣān iva ..22..
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् । व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः ॥२३॥
उल्मुकम् भ्रामयन् तूर्णम् पाण्डवः चर्म च उत्तमम् । व्यपोवाह शरान् तस्य सर्वान् एव धनञ्जयः ॥२३॥
ulmukam bhrāmayan tūrṇam pāṇḍavaḥ carma ca uttamam . vyapovāha śarān tasya sarvān eva dhanañjayaḥ ..23..
अर्जुन उवाच॥
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते । अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ॥२४॥
विभीषिका एषा गन्धर्व न अस्त्र-ज्ञेषु प्रयुज्यते । अस्त्र-ज्ञेषु प्रयुक्ता एषा फेन-वत् प्रविलीयते ॥२४॥
vibhīṣikā eṣā gandharva na astra-jñeṣu prayujyate . astra-jñeṣu prayuktā eṣā phena-vat pravilīyate ..24..
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये । तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥२५॥
मानुषान् अति गन्धर्वान् सर्वान् गन्धर्व लक्षये । तस्मात् अस्त्रेण दिव्येन योत्स्ये अहम् न तु मायया ॥२५॥
mānuṣān ati gandharvān sarvān gandharva lakṣaye . tasmāt astreṇa divyena yotsye aham na tu māyayā ..25..
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः । भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥२६॥
पुरा अस्त्रम् इदम् आग्नेयम् प्रादात् किल बृहस्पतिः । भरद्वाजस्य गन्धर्व गुरु-पुत्रः शतक्रतोः ॥२६॥
purā astram idam āgneyam prādāt kila bṛhaspatiḥ . bharadvājasya gandharva guru-putraḥ śatakratoḥ ..26..
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम । स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ॥२७॥
भरद्वाजात् अग्निवेश्यः अग्निवेश्यात् गुरुः मम । स तु इदम् मह्यम् अददात् द्रोणः ब्राह्मण-सत्तमः ॥२७॥
bharadvājāt agniveśyaḥ agniveśyāt guruḥ mama . sa tu idam mahyam adadāt droṇaḥ brāhmaṇa-sattamaḥ ..27..
वैशम्पायन उवाच॥
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह । प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥२८॥
इति उक्त्वा पाण्डवः क्रुद्धः गन्धर्वाय मुमोच ह । प्रदीप्तम् अस्त्रम् आग्नेयम् ददाह अस्य रथम् तु तत् ॥२८॥
iti uktvā pāṇḍavaḥ kruddhaḥ gandharvāya mumoca ha . pradīptam astram āgneyam dadāha asya ratham tu tat ..28..
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् । अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥२९॥
विरथम् विप्लुतम् तम् तु स गन्धर्वम् महा-बलम् । अस्त्र-तेजः-प्रमूढम् च प्रपतन्तम् अवाङ्मुखम् ॥२९॥
viratham viplutam tam tu sa gandharvam mahā-balam . astra-tejaḥ-pramūḍham ca prapatantam avāṅmukham ..29..
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः । भ्रातृन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥३०॥
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः । भ्रातृन् प्रति चकर्ष अथ सः अस्त्र-पातात् अचेतसम् ॥३०॥
śiroruheṣu jagrāha mālyavatsu dhanañjayaḥ . bhrātṛn prati cakarṣa atha saḥ astra-pātāt acetasam ..30..
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी । नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥३१॥
युधिष्ठिरम् तस्य भार्या प्रपेदे शरण-अर्थिनी । नाम्ना कुम्भीनसी नाम पति-त्राणम् अभीप्सती ॥३१॥
yudhiṣṭhiram tasya bhāryā prapede śaraṇa-arthinī . nāmnā kumbhīnasī nāma pati-trāṇam abhīpsatī ..31..
गन्धर्व्युवाच॥
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे । गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ॥३२॥
त्राहि त्वम् माम् महा-राज पतिम् च इमम् विमुञ्च मे । गन्धर्वीम् शरणम् प्राप्ताम् नाम्ना कुम्बीनसीम् प्रभो ॥३२॥
trāhi tvam mām mahā-rāja patim ca imam vimuñca me . gandharvīm śaraṇam prāptām nāmnā kumbīnasīm prabho ..32..
युधिष्ठिर उवाच॥
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् । को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ॥३३॥
युद्धे जितम् यशः-हीनम् स्त्री-नाथम् अपराक्रमम् । कः नु हन्यात् रिपुम् त्वादृश् मुञ्च इमम् रिपु-सूदन ॥३३॥
yuddhe jitam yaśaḥ-hīnam strī-nātham aparākramam . kaḥ nu hanyāt ripum tvādṛś muñca imam ripu-sūdana ..33..
अर्जुन उवाच॥
अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः । प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥३४॥
अङ्ग इमम् प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः । प्रदिशति अभयम् ते अद्य कुरुराजः युधिष्ठिरः ॥३४॥
aṅga imam pratipadyasva gaccha gandharva mā śucaḥ . pradiśati abhayam te adya kururājaḥ yudhiṣṭhiraḥ ..34..
गन्धर्व उवाच॥
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् । न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ॥३५॥
जितः अहम् पूर्वकम् नाम मुञ्चामि अङ्गारपर्ण-ताम् । न च श्लाघे बलेन अद्य न नाम्ना जन-संसदि ॥३५॥
jitaḥ aham pūrvakam nāma muñcāmi aṅgāraparṇa-tām . na ca ślāghe balena adya na nāmnā jana-saṃsadi ..35..
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् । गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ॥३६॥
साधु इमम् लब्धवान् लाभम् यः अहम् दिव्य-अस्त्र-धारिणम् । गान्धर्व्या मायया योद्धुम् इच्छामि वयसा वरम् ॥३६॥
sādhu imam labdhavān lābham yaḥ aham divya-astra-dhāriṇam . gāndharvyā māyayā yoddhum icchāmi vayasā varam ..36..
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः । सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥३७॥
अस्त्र-अग्निना विचित्रः अयम् दग्धः मे रथः उत्तमः । सः अहम् चित्ररथः भूत्वा नाम्ना दग्धरथः अभवम् ॥३७॥
astra-agninā vicitraḥ ayam dagdhaḥ me rathaḥ uttamaḥ . saḥ aham citrarathaḥ bhūtvā nāmnā dagdharathaḥ abhavam ..37..
सम्भृता चैव विद्येयं तपसेह पुरा मया । निवेदयिष्ये तामद्य प्राणदाया महात्मने ॥३८॥
सम्भृता च एव विद्या इयम् तपसा इह पुरा मया । निवेदयिष्ये ताम् अद्य प्राण-दायाः महात्मने ॥३८॥
sambhṛtā ca eva vidyā iyam tapasā iha purā mayā . nivedayiṣye tām adya prāṇa-dāyāḥ mahātmane ..38..
संस्तम्भितं हि तरसा जितं शरणमागतम् । योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥३९॥
संस्तम्भितम् हि तरसा जितम् शरणम् आगतम् । यः अरिम् संयोजयेत् प्राणैः कल्याणम् किम् न सः अर्हति ॥३९॥
saṃstambhitam hi tarasā jitam śaraṇam āgatam . yaḥ arim saṃyojayet prāṇaiḥ kalyāṇam kim na saḥ arhati ..39..
चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः । ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ॥४०॥
चक्षुषी नाम विद्या इयम् याम् सोमाय ददौ मनुः । ददौ स विश्वावसवे मह्यम् विश्वावसुः ददौ ॥४०॥
cakṣuṣī nāma vidyā iyam yām somāya dadau manuḥ . dadau sa viśvāvasave mahyam viśvāvasuḥ dadau ..40..
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति । आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥४१॥
सा इयम् कापुरुषम् प्राप्ता गुरु-दत्ता प्रणश्यति । आगमः अस्याः मया प्रोक्तः वीर्यम् प्रतिनिबोध मे ॥४१॥
sā iyam kāpuruṣam prāptā guru-dattā praṇaśyati . āgamaḥ asyāḥ mayā proktaḥ vīryam pratinibodha me ..41..
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन । तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ॥४२॥
यत् चक्षुषा द्रष्टुम् इच्छेत् त्रिषु लोकेषु किञ्चन । तत् पश्येत् यादृशम् च इच्छेत् तादृषम् द्रष्टुम् अर्हति ॥४२॥
yat cakṣuṣā draṣṭum icchet triṣu lokeṣu kiñcana . tat paśyet yādṛśam ca icchet tādṛṣam draṣṭum arhati ..42..
समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् । अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥४३॥
समान-पद्ये षष्-मासान् स्थितः विद्याम् लभेत् इमाम् । अनुनेष्यामि अहम् विद्याम् स्वयम् तुभ्यम् व्रते कृते ॥४३॥
samāna-padye ṣaṣ-māsān sthitaḥ vidyām labhet imām . anuneṣyāmi aham vidyām svayam tubhyam vrate kṛte ..43..
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः । अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ॥४४॥
विद्यया हि अनया राजन् वयम् नृभ्यः विशेषिताः । अ विशिष्टाः च देवानाम् अनुभाव-प्रवर्तिताः ॥४४॥
vidyayā hi anayā rājan vayam nṛbhyaḥ viśeṣitāḥ . a viśiṣṭāḥ ca devānām anubhāva-pravartitāḥ ..44..
गन्धर्वजानामश्वानामहं पुरुषसत्तम । भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ॥४५॥
गन्धर्व-जानाम् अश्वानाम् अहम् पुरुष-सत्तम । भ्रातृभ्यः तव पञ्चभ्यः पृथक् दाता शतम् शतम् ॥४५॥
gandharva-jānām aśvānām aham puruṣa-sattama . bhrātṛbhyaḥ tava pañcabhyaḥ pṛthak dātā śatam śatam ..45..
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः । क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥४६॥
देव-गन्धर्व-वाहाः ते दिव्य-गन्धाः मनः-गमाः । क्षीणाः क्षीणाः भवन्ति एते न हीयन्ते च रंहसः ॥४६॥
deva-gandharva-vāhāḥ te divya-gandhāḥ manaḥ-gamāḥ . kṣīṇāḥ kṣīṇāḥ bhavanti ete na hīyante ca raṃhasaḥ ..46..
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे । दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥४७॥
पुरा कृतम् महा-इन्द्रस्य वज्रम् वृत्र-निबर्हणे । दशधा शतधा च एव तत् शीर्णम् वृत्र-मूर्धनि ॥४७॥
purā kṛtam mahā-indrasya vajram vṛtra-nibarhaṇe . daśadhā śatadhā ca eva tat śīrṇam vṛtra-mūrdhani ..47..
ततो भागीकृतो देवैर्वज्रभाग उपास्यते । लोके यत्साधनं किञ्चित्सा वै वज्रतनुः स्मृता ॥४८॥
ततस् भागीकृतः देवैः वज्र-भागः उपास्यते । लोके यत् साधनम् किञ्चिद् सा वै वज्र-तनुः स्मृता ॥४८॥
tatas bhāgīkṛtaḥ devaiḥ vajra-bhāgaḥ upāsyate . loke yat sādhanam kiñcid sā vai vajra-tanuḥ smṛtā ..48..
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥४९॥
वज्रपाणिः ब्राह्मणः स्यात् क्षत्रम् वज्र-रथम् स्मृतम् । वैश्याः वै दान-वज्राः च कर्म-वज्राः यवीयसः ॥४९॥
vajrapāṇiḥ brāhmaṇaḥ syāt kṣatram vajra-ratham smṛtam . vaiśyāḥ vai dāna-vajrāḥ ca karma-vajrāḥ yavīyasaḥ ..49..
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः । रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ॥५०॥
वज्रम् क्षत्रस्य वाजिनः अवध्याः वाजिनः स्मृताः । रथाङ्गम् वडवा सूते सूताः च अश्वेषु ये मताः ॥५०॥
vajram kṣatrasya vājinaḥ avadhyāḥ vājinaḥ smṛtāḥ . rathāṅgam vaḍavā sūte sūtāḥ ca aśveṣu ye matāḥ ..50..
कामवर्णाः कामजवाः कामतः समुपस्थिताः । इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥५१॥
काम-वर्णाः काम-जवाः कामतस् समुपस्थिताः । इमे गन्धर्व-जाः कामम् पूरयिष्यन्ति ते हयाः ॥५१॥
kāma-varṇāḥ kāma-javāḥ kāmatas samupasthitāḥ . ime gandharva-jāḥ kāmam pūrayiṣyanti te hayāḥ ..51..
अर्जुन उवाच॥
यदि प्रीतेन वा दत्तं संशये जीवितस्य वा । विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ॥५२॥
यदि प्रीतेन वा दत्तम् संशये जीवितस्य वा । विद्या वित्तम् श्रुतम् वा अपि न तत् गन्धर्व कामये ॥५२॥
yadi prītena vā dattam saṃśaye jīvitasya vā . vidyā vittam śrutam vā api na tat gandharva kāmaye ..52..
गन्धर्व उवाच॥
संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते । जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥५३॥
संयोगः वै प्रीति-करः संसत्सु प्रतिदृश्यते । जीवितस्य प्रदानेन प्रीतः विद्याम् ददामि ते ॥५३॥
saṃyogaḥ vai prīti-karaḥ saṃsatsu pratidṛśyate . jīvitasya pradānena prītaḥ vidyām dadāmi te ..53..
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् । तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥५४॥
त्वत्तः हि अहम् ग्रहीष्यामि अस्त्रम् आग्नेयम् उत्तमम् । तथा एव सख्यम् बीभत्सो चिराय भरत-ऋषभ ॥५४॥
tvattaḥ hi aham grahīṣyāmi astram āgneyam uttamam . tathā eva sakhyam bībhatso cirāya bharata-ṛṣabha ..54..
अर्जुन उवाच॥
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ । सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ॥५५॥1.169.58
त्वत्तः अस्त्रेण वृणोमि अश्वान् संयोगः शाश्वतः अस्तु नौ । सखे तत् ब्रूहि गन्धर्व युष्मभ्यः यत् भयम् त्यजेत् ॥५५॥१।१६९।५८
tvattaḥ astreṇa vṛṇomi aśvān saṃyogaḥ śāśvataḥ astu nau . sakhe tat brūhi gandharva yuṣmabhyaḥ yat bhayam tyajet ..55..1.169.58

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In