| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अर्जुन उवाच॥
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः । यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ॥१॥1.169.59
कारणम् ब्रूहि गन्धर्व किम् तत् येन स्म धर्षिताः । यान्तः ब्रह्म-विदः सन्तः सर्वे रात्रौ अरिंदम ॥१॥१।१६९।५९
kāraṇam brūhi gandharva kim tat yena sma dharṣitāḥ . yāntaḥ brahma-vidaḥ santaḥ sarve rātrau ariṃdama ..1..1.169.59
गन्धर्व उवाच॥
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः । यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ॥२॥
अन् अग्नयः अन् आहुतयः न च विप्र-पुरस्कृताः । यूयम् ततस् धर्षिताः स्थ मया पाण्डव-नन्दन ॥२॥
an agnayaḥ an āhutayaḥ na ca vipra-puraskṛtāḥ . yūyam tatas dharṣitāḥ stha mayā pāṇḍava-nandana ..2..
यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः । विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥३॥
यक्ष-राक्षस-गन्धर्वाः पिशाच-उरग-मानवाः । विस्तरम् कुरु-वंशस्य श्रीमतः कथयन्ति ते ॥३॥
yakṣa-rākṣasa-gandharvāḥ piśāca-uraga-mānavāḥ . vistaram kuru-vaṃśasya śrīmataḥ kathayanti te ..3..
नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् । गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥४॥
नारद-प्रभृतीनाम् च देवर्षीणाम् मया श्रुतम् । गुणान् कथयताम् वीर पूर्वेषाम् तव धीमताम् ॥४॥
nārada-prabhṛtīnām ca devarṣīṇām mayā śrutam . guṇān kathayatām vīra pūrveṣām tava dhīmatām ..4..
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् । इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ॥५॥
स्वयम् च अपि मया दृष्टः चरता सागराम्बराम् । इमाम् वसुमतीम् कृत्स्नाम् प्रभावः स्व-कुलस्य ते ॥५॥
svayam ca api mayā dṛṣṭaḥ caratā sāgarāmbarām . imām vasumatīm kṛtsnām prabhāvaḥ sva-kulasya te ..5..
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन । विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥६॥
वेदे धनुषि च आचार्यम् अभिजानामि ते अर्जुन । विश्रुतम् त्रिषु लोकेषु भारद्वाजम् यशस्विनम् ॥६॥
vede dhanuṣi ca ācāryam abhijānāmi te arjuna . viśrutam triṣu lokeṣu bhāradvājam yaśasvinam ..6..
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा । पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ॥७॥ ( पितृनेतानहं पार्थ देवमानुषसत्तमान् ॥७॥ )
धर्मम् वायुम् च शक्रम् च विजानामि अश्विनौ तथा । पाण्डुम् च कुरु-शार्दूल षट् एतान् कुल-वर्धनान् ॥७॥ ( पितृन् एतान् अहम् पार्थ देव-मानुष-सत्तमान् ॥७॥ )
dharmam vāyum ca śakram ca vijānāmi aśvinau tathā . pāṇḍum ca kuru-śārdūla ṣaṭ etān kula-vardhanān ..7.. ( pitṛn etān aham pārtha deva-mānuṣa-sattamān ..7.. )
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः । भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥८॥
दिव्य-आत्मानः महात्मानः सर्व-शस्त्रभृताम् वराः । भवन्तः भ्रातरः शूराः सर्वे सु चरित-व्रताः ॥८॥
divya-ātmānaḥ mahātmānaḥ sarva-śastrabhṛtām varāḥ . bhavantaḥ bhrātaraḥ śūrāḥ sarve su carita-vratāḥ ..8..
उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् । जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥९॥
उत्तमाम् तु मनः-बुद्धिम् भवताम् भावितात्मनाम् । जानन् अपि च वः पार्थ कृतवान् इह धर्षणाम् ॥९॥
uttamām tu manaḥ-buddhim bhavatām bhāvitātmanām . jānan api ca vaḥ pārtha kṛtavān iha dharṣaṇām ..9..
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति । धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ॥१०॥
स्त्री-सकाशे च कौरव्य न पुमान् क्षन्तुम् अर्हति । धर्षणाम् आत्मनः पश्यन् बाहु-द्रविणम् आश्रितः ॥१०॥
strī-sakāśe ca kauravya na pumān kṣantum arhati . dharṣaṇām ātmanaḥ paśyan bāhu-draviṇam āśritaḥ ..10..
नक्तं च बलमस्माकं भूय एवाभिवर्धते । यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥११॥
नक्तम् च बलम् अस्माकम् भूयः एव अभिवर्धते । यतस् ततस् माम् कौन्तेय स दारम् मन्युः आविशत् ॥११॥
naktam ca balam asmākam bhūyaḥ eva abhivardhate . yatas tatas mām kaunteya sa dāram manyuḥ āviśat ..11..
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन । येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥१२॥
सः अहम् त्वया इह विजितः सङ्ख्ये तापत्य-वर्धन । येन तेन इह विधिना कीर्त्यमानम् निबोध मे ॥१२॥
saḥ aham tvayā iha vijitaḥ saṅkhye tāpatya-vardhana . yena tena iha vidhinā kīrtyamānam nibodha me ..12..
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि । यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ॥१३॥
ब्रह्मचर्यम् परः धर्मः स च अपि नियतः त्वयि । यस्मात् तस्मात् अहम् पार्थ रणे अस्मिन् विजितः त्वया ॥१३॥
brahmacaryam paraḥ dharmaḥ sa ca api niyataḥ tvayi . yasmāt tasmāt aham pārtha raṇe asmin vijitaḥ tvayā ..13..
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप । नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ॥१४॥
यः तु स्यात् क्षत्रियः कश्चिद् काम-वृत्तः परन्तप । नक्तम् च युधि युध्येत न स जीवेत् कथञ्चन ॥१४॥
yaḥ tu syāt kṣatriyaḥ kaścid kāma-vṛttaḥ parantapa . naktam ca yudhi yudhyeta na sa jīvet kathañcana ..14..
यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे । जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥१५॥
यः तु स्यात् काम-वृत्तः अपि राजा तापत्य सङ्गरे । जयेत् नक्तञ्चरान् सर्वान् स पुरोहित-धूर्गतः ॥१५॥
yaḥ tu syāt kāma-vṛttaḥ api rājā tāpatya saṅgare . jayet naktañcarān sarvān sa purohita-dhūrgataḥ ..15..
तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् । तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥१६॥
तस्मात् तापत्य यत् किञ्चिद् नृणाम् श्रेयः इह ईप्सितम् । तस्मिन् कर्मणि योक्तव्याः दान्त-आत्मानः पुरोहिताः ॥१६॥
tasmāt tāpatya yat kiñcid nṛṇām śreyaḥ iha īpsitam . tasmin karmaṇi yoktavyāḥ dānta-ātmānaḥ purohitāḥ ..16..
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः । धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥१७॥
वेदे षडङ्गे निरताः शुचयः सत्य-वादिनः । धर्म-आत्मानः कृतात्मानः स्युः नृपाणाम् पुरोहिताः ॥१७॥
vede ṣaḍaṅge niratāḥ śucayaḥ satya-vādinaḥ . dharma-ātmānaḥ kṛtātmānaḥ syuḥ nṛpāṇām purohitāḥ ..17..
जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् । यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥१८॥
जयः च नियतः राज्ञः स्वर्गः च स्यात् अनन्तरम् । यस्य स्यात् धर्म-विद् वाग्मी पुरोधाः शीलवान् शुचिः ॥१८॥
jayaḥ ca niyataḥ rājñaḥ svargaḥ ca syāt anantaram . yasya syāt dharma-vid vāgmī purodhāḥ śīlavān śuciḥ ..18..
लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् । पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥१९॥
लाभम् लब्धुम् अ लब्धम् हि लब्धम् च परिरक्षितुम् । पुरोहितम् प्रकुर्वीत राजा गुण-समन्वितम् ॥१९॥
lābham labdhum a labdham hi labdham ca parirakṣitum . purohitam prakurvīta rājā guṇa-samanvitam ..19..
पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः । प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ॥२०॥
पुरोहित-मते तिष्ठेत् यः इच्छेत् पृथिवीम् नृपः । प्राप्तुम् मेरु-वर-उत्तंसाम् सर्वशस् सागराम्बराम् ॥२०॥
purohita-mate tiṣṭhet yaḥ icchet pṛthivīm nṛpaḥ . prāptum meru-vara-uttaṃsām sarvaśas sāgarāmbarām ..20..
न हि केवलशौर्येण तापत्याभिजनेन च । जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥२१॥
न हि केवल-शौर्येण तापत्य-अभिजनेन च । जयेत् अब्राह्मणः कश्चिद् भूमिम् भूमिपतिः क्वचिद् ॥२१॥
na hi kevala-śauryeṇa tāpatya-abhijanena ca . jayet abrāhmaṇaḥ kaścid bhūmim bhūmipatiḥ kvacid ..21..
तस्मादेवं विजानीहि कुरूणां वंशवर्धन । ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥२२॥1.169.80
तस्मात् एवम् विजानीहि कुरूणाम् वंश-वर्धन । ब्राह्मण-प्रमुखम् राज्यम् शक्यम् पालयितुम् चिरम् ॥२२॥१।१६९।८०
tasmāt evam vijānīhi kurūṇām vaṃśa-vardhana . brāhmaṇa-pramukham rājyam śakyam pālayitum ciram ..22..1.169.80

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In