| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् । मन्दरं पर्वतवरं लताजालसमावृतम् ॥१॥
ततस् अभ्र-शिखर-आकारैः गिरि-शृङ्गैः अलङ्कृतम् । मन्दरम् पर्वत-वरम् लता-जाल-समावृतम् ॥१॥
tatas abhra-śikhara-ākāraiḥ giri-śṛṅgaiḥ alaṅkṛtam . mandaram parvata-varam latā-jāla-samāvṛtam ..1..
नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् । किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥२॥
नाना विहग-सङ्घुष्टम् नाना दंष्ट्रि-समाकुलम् । किंनरैः अप्सरोभिः च देवैः अपि च सेवितम् ॥२॥
nānā vihaga-saṅghuṣṭam nānā daṃṣṭri-samākulam . kiṃnaraiḥ apsarobhiḥ ca devaiḥ api ca sevitam ..2..
एकादश सहस्राणि योजनानां समुच्छ्रितम् । अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥३॥
एकादश सहस्राणि योजनानाम् समुच्छ्रितम् । अधस् भूमेः सहस्रेषु तावत्सु एव प्रतिष्ठितम् ॥३॥
ekādaśa sahasrāṇi yojanānām samucchritam . adhas bhūmeḥ sahasreṣu tāvatsu eva pratiṣṭhitam ..3..
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा । विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥४॥
तम् उद्धर्तुम् न शक्ताः वै सर्वे देव-गणाः तदा । विष्णुम् आसीनम् अभ्येत्य ब्रह्माणम् च इदम् अब्रुवन् ॥४॥
tam uddhartum na śaktāḥ vai sarve deva-gaṇāḥ tadā . viṣṇum āsīnam abhyetya brahmāṇam ca idam abruvan ..4..
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् । मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥५॥
भवन्तौ अत्र कुरुताम् बुद्धिम् नैःश्रेयसीम् पराम् । मन्दर-उद्धरणे यत्नः क्रियताम् च हिताय नः ॥५॥
bhavantau atra kurutām buddhim naiḥśreyasīm parām . mandara-uddharaṇe yatnaḥ kriyatām ca hitāya naḥ ..5..
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव । ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ॥६॥ ( नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥६॥ )
तथा इति च अब्रवीत् विष्णुः ब्रह्मणा सह भार्गव । ततस् अनन्तः समुत्थाय ब्रह्मणा परिचोदितः ॥६॥ ( नारायणेन च अपि उक्तः तस्मिन् कर्मणि वीर्यवान् ॥६॥ )
tathā iti ca abravīt viṣṇuḥ brahmaṇā saha bhārgava . tatas anantaḥ samutthāya brahmaṇā paricoditaḥ ..6.. ( nārāyaṇena ca api uktaḥ tasmin karmaṇi vīryavān ..6.. )
अथ पर्वतराजानं तमनन्तो महाबलः । उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥७॥
अथ पर्वत-राजानम् तम् अनन्तः महा-बलः । उज्जहार बलात् ब्रह्मन् स वनम् स वनौकसम् ॥७॥
atha parvata-rājānam tam anantaḥ mahā-balaḥ . ujjahāra balāt brahman sa vanam sa vanaukasam ..7..
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे । तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥८॥
ततस् तेन सुराः सार्धम् समुद्रम् उपतस्थिरे । तम् ऊचुः अमृत-अर्थाय निर्मथिष्यामहे जलम् ॥८॥
tatas tena surāḥ sārdham samudram upatasthire . tam ūcuḥ amṛta-arthāya nirmathiṣyāmahe jalam ..8..
अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः । सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥९॥
अपाम्पतिः अथ उवाच मम अपि अंशः भवेत् ततस् । सोढास्मि विपुलम् मर्दम् मन्दर-भ्रमणात् इति ॥९॥
apāmpatiḥ atha uvāca mama api aṃśaḥ bhavet tatas . soḍhāsmi vipulam mardam mandara-bhramaṇāt iti ..9..
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः । गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥१०॥
ऊचुः च कूर्म-राजानम् अकूपारम् सुर-असुराः । गिरेः अधिष्ठानम् अस्य भवान् भवितुम् अर्हति ॥१०॥
ūcuḥ ca kūrma-rājānam akūpāram sura-asurāḥ . gireḥ adhiṣṭhānam asya bhavān bhavitum arhati ..10..
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् । तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥११॥
कूर्मेण तु तथा इति उक्त्वा पृष्ठम् अस्य समर्पितम् । तस्य शैलस्य च अग्रम् वै यन्त्रेण इन्द्रः अभ्यपीडयत् ॥११॥
kūrmeṇa tu tathā iti uktvā pṛṣṭham asya samarpitam . tasya śailasya ca agram vai yantreṇa indraḥ abhyapīḍayat ..11..
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् । देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ॥१२॥ ( अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥१२॥ )
मन्थानम् मन्दरम् कृत्वा तथा नेत्रम् च वासुकिम् । देवाः मथितुम् आरब्धाः समुद्रम् निधिम् अम्भसाम् ॥१२॥ ( अमृत-अर्थिनः ततस् ब्रह्मन् सहिताः दैत्य-दानवाः ॥१२॥ )
manthānam mandaram kṛtvā tathā netram ca vāsukim . devāḥ mathitum ārabdhāḥ samudram nidhim ambhasām ..12.. ( amṛta-arthinaḥ tatas brahman sahitāḥ daitya-dānavāḥ ..12.. )
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः । विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥१३॥
एकम् अन्तम् उपाश्लिष्टाः नाग-राज्ञः महा-असुराः । विबुधाः सहिताः सर्वे यतस् पुच्छम् ततस् स्थिताः ॥१३॥
ekam antam upāśliṣṭāḥ nāga-rājñaḥ mahā-asurāḥ . vibudhāḥ sahitāḥ sarve yatas puccham tatas sthitāḥ ..13..
अनन्तो भगवान्देवो यतो नारायणस्ततः । शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥१४॥
अनन्तः भगवान् देवः यतस् नारायणः ततस् । शिरः उद्यम्य नागस्य पुनर् पुनर् अवाक्षिपत् ॥१४॥
anantaḥ bhagavān devaḥ yatas nārāyaṇaḥ tatas . śiraḥ udyamya nāgasya punar punar avākṣipat ..14..
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः । सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥१५॥
वासुकेः अथ नागस्य सहसा आक्षिप्यतः सुरैः । स धूमाः स अर्चिषः वाताः निष्पेतुः असकृत् मुखात् ॥१५॥
vāsukeḥ atha nāgasya sahasā ākṣipyataḥ suraiḥ . sa dhūmāḥ sa arciṣaḥ vātāḥ niṣpetuḥ asakṛt mukhāt ..15..
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः । अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ॥१६॥
ते धूम-सङ्घाः सम्भूताः मेघ-सङ्घाः स विद्युतः । अभ्यवर्षन् सुर-गणान् श्रम-सन्ताप-कर्शितान् ॥१६॥
te dhūma-saṅghāḥ sambhūtāḥ megha-saṅghāḥ sa vidyutaḥ . abhyavarṣan sura-gaṇān śrama-santāpa-karśitān ..16..
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः । सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥१७॥
तस्मात् च गिरि-कूट-अग्रात् प्रच्युताः पुष्प-वृष्टयः । सुर-असुर-गणान् माल्यैः सर्वतस् समवाकिरन् ॥१७॥
tasmāt ca giri-kūṭa-agrāt pracyutāḥ puṣpa-vṛṣṭayaḥ . sura-asura-gaṇān mālyaiḥ sarvatas samavākiran ..17..
बभूवात्र महाघोषो महामेघरवोपमः । उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥१८॥
बभूव अत्र महा-घोषः महा-मेघ-रव-उपमः । उदधेः मथ्यमानस्य मन्दरेण सुर-असुरैः ॥१८॥
babhūva atra mahā-ghoṣaḥ mahā-megha-rava-upamaḥ . udadheḥ mathyamānasya mandareṇa sura-asuraiḥ ..18..
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा । विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥१९॥
तत्र नाना जलचराः विनिष्पिष्टाः महा-अद्रिणा । विलयम् समुपाजग्मुः शतशस् लवणाम्भसि ॥१९॥
tatra nānā jalacarāḥ viniṣpiṣṭāḥ mahā-adriṇā . vilayam samupājagmuḥ śataśas lavaṇāmbhasi ..19..
वारुणानि च भूतानि विविधानि महीधरः । पातालतलवासीनि विलयं समुपानयत् ॥२०॥
वारुणानि च भूतानि विविधानि महीधरः । पाताल-तल-वासीनि विलयम् समुपानयत् ॥२०॥
vāruṇāni ca bhūtāni vividhāni mahīdharaḥ . pātāla-tala-vāsīni vilayam samupānayat ..20..
तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् । न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥२१॥
तस्मिन् च भ्राम्यमाणे अद्रौ सङ्घृष्यन्तः परस्परम् । न्यपतन् पतग-उपेताः पर्वत-अग्रात् महा-द्रुमाः ॥२१॥
tasmin ca bhrāmyamāṇe adrau saṅghṛṣyantaḥ parasparam . nyapatan pataga-upetāḥ parvata-agrāt mahā-drumāḥ ..21..
तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः । विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥२२॥
तेषाम् सङ्घर्ष-जः च अग्निः अर्चिर्भिः प्रज्वलन् मुहुर् । विद्युद्भिः इव नील-अभ्रम् आवृणोत् मन्दरम् गिरिम् ॥२२॥
teṣām saṅgharṣa-jaḥ ca agniḥ arcirbhiḥ prajvalan muhur . vidyudbhiḥ iva nīla-abhram āvṛṇot mandaram girim ..22..
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् । विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥२३॥
ददाह कुञ्जरान् च एव सिंहान् च एव विनिःसृतान् । विगत-असूनि सर्वाणि सत्त्वानि विविधानि च ॥२३॥
dadāha kuñjarān ca eva siṃhān ca eva viniḥsṛtān . vigata-asūni sarvāṇi sattvāni vividhāni ca ..23..
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः । वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥२४॥
तम् अग्निम् अमर-श्रेष्ठः प्रदहन्तम् ततस् ततस् । वारिणा मेघ-जेन इन्द्रः शमयामास सर्वतस् ॥२४॥
tam agnim amara-śreṣṭhaḥ pradahantam tatas tatas . vāriṇā megha-jena indraḥ śamayāmāsa sarvatas ..24..
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि । महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥२५॥
ततस् नानाविधाः तत्र सुस्रुवुः सागर-अम्भसि । महा-द्रुमाणाम् निर्यासाः बहवः च ओषधी-रसाः ॥२५॥
tatas nānāvidhāḥ tatra susruvuḥ sāgara-ambhasi . mahā-drumāṇām niryāsāḥ bahavaḥ ca oṣadhī-rasāḥ ..25..
तेषाममृतवीर्याणां रसानां पयसैव च । अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥२६॥
तेषाम् अमृत-वीर्याणाम् रसानाम् पयसा एव च । अमर-त्वम् सुराः जग्मुः काञ्चनस्य च निःस्रवात् ॥२६॥
teṣām amṛta-vīryāṇām rasānām payasā eva ca . amara-tvam surāḥ jagmuḥ kāñcanasya ca niḥsravāt ..26..
अथ तस्य समुद्रस्य तज्जातमुदकं पयः । रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥२७॥
अथ तस्य समुद्रस्य तत् जातम् उदकम् पयः । रस-उत्तमैः विमिश्रम् च ततस् क्षीरात् अभूत् घृतम् ॥२७॥
atha tasya samudrasya tat jātam udakam payaḥ . rasa-uttamaiḥ vimiśram ca tatas kṣīrāt abhūt ghṛtam ..27..
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् । श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥२८॥
ततस् ब्रह्माणम् आसीनम् देवाः वर-दम् अब्रुवन् । श्रान्ताः स्म सु भृशम् ब्रह्मन् न उद्भवति अमृतम् च तत् ॥२८॥
tatas brahmāṇam āsīnam devāḥ vara-dam abruvan . śrāntāḥ sma su bhṛśam brahman na udbhavati amṛtam ca tat ..28..
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा । चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥२९॥
ऋते नारायणम् देवम् दैत्याः नाग-उत्तमाः तथा । चिर-आरब्धम् इदम् च अपि सागरस्य अपि मन्थनम् ॥२९॥
ṛte nārāyaṇam devam daityāḥ nāga-uttamāḥ tathā . cira-ārabdham idam ca api sāgarasya api manthanam ..29..
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् । विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥३०॥
ततस् नारायणम् देवम् ब्रह्मा वचनम् अब्रवीत् । विधत्स्व एषाम् बलम् विष्णो भवान् अत्र परायणम् ॥३०॥
tatas nārāyaṇam devam brahmā vacanam abravīt . vidhatsva eṣām balam viṣṇo bhavān atra parāyaṇam ..30..
विष्णुरुवाच॥
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः । क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥३१॥
बलम् ददामि सर्वेषाम् कर्म एतत् ये समास्थिताः । क्षोभ्यताम् कलशः सर्वैः मन्दरः परिवर्त्यताम् ॥३१॥
balam dadāmi sarveṣām karma etat ye samāsthitāḥ . kṣobhyatām kalaśaḥ sarvaiḥ mandaraḥ parivartyatām ..31..
सूत उवाच॥
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः । तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥३२॥
नारायण-वचः श्रुत्वा बलिनः ते महोदधेः । तत् पयः सहिताः भूयस् चक्रिरे भृशम् आकुलम् ॥३२॥
nārāyaṇa-vacaḥ śrutvā balinaḥ te mahodadheḥ . tat payaḥ sahitāḥ bhūyas cakrire bhṛśam ākulam ..32..
ततः शतसहस्रांशुः समान इव सागरात् । प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥३३॥
ततस् शत-सहस्र-अंशुः समानः इव सागरात् । प्रसन्न-भास् समुत्पन्नः सोमः शीतांशुः उज्ज्वलः ॥३३॥
tatas śata-sahasra-aṃśuḥ samānaḥ iva sāgarāt . prasanna-bhās samutpannaḥ somaḥ śītāṃśuḥ ujjvalaḥ ..33..
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी । सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥३४॥
श्रीः अनन्तरम् उत्पन्ना घृतात् पाण्डुर-वासिनी । सुरा देवी समुत्पन्ना तुरगः पाण्डुरः तथा ॥३४॥
śrīḥ anantaram utpannā ghṛtāt pāṇḍura-vāsinī . surā devī samutpannā turagaḥ pāṇḍuraḥ tathā ..34..
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः । मरीचिविकचः श्रीमान्नारायण उरोगतः ॥३५॥
कौस्तुभः च मणिः दिव्यः उत्पन्नः अमृत-सम्भवः । ॥३५॥
kaustubhaḥ ca maṇiḥ divyaḥ utpannaḥ amṛta-sambhavaḥ . ..35..
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः । यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥३६॥
श्रीः सुरा च एव सोमः च तुरगः च मनोजवः । यतस् देवाः ततस् जग्मुः आदित्य-पथम् आश्रिताः ॥३६॥
śrīḥ surā ca eva somaḥ ca turagaḥ ca manojavaḥ . yatas devāḥ tatas jagmuḥ āditya-patham āśritāḥ ..36..
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत । श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥३७॥
धन्वन्तरिः ततस् देवः वपुष्मान् उदतिष्ठत । श्वेतम् कमण्डलुम् बिभ्रत् अमृतम् यत्र तिष्ठति ॥३७॥
dhanvantariḥ tatas devaḥ vapuṣmān udatiṣṭhata . śvetam kamaṇḍalum bibhrat amṛtam yatra tiṣṭhati ..37..
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः । अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥३८॥
एतत् अत्यद्भुतम् दृष्ट्वा दानवानाम् समुत्थितः । अमृत-अर्थे महान् नादः मम इदम् इति जल्पताम् ॥३८॥
etat atyadbhutam dṛṣṭvā dānavānām samutthitaḥ . amṛta-arthe mahān nādaḥ mama idam iti jalpatām ..38..
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः । स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥३९॥
ततस् नारायणः मायाम् आस्थितः मोहिनीम् प्रभुः । स्त्री-रूपम् अद्भुतम् कृत्वा दानवान् अभिसंश्रितः ॥३९॥
tatas nārāyaṇaḥ māyām āsthitaḥ mohinīm prabhuḥ . strī-rūpam adbhutam kṛtvā dānavān abhisaṃśritaḥ ..39..
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः । स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥४०॥1.18.46
ततस् तत् अमृतम् तस्यै ददुः ते मूढ-चेतसः । दानव-दैतेयाः सर्वे तद्-गत-मानसाः ॥४०॥१।१८।४६
tatas tat amṛtam tasyai daduḥ te mūḍha-cetasaḥ . dānava-daiteyāḥ sarve tad-gata-mānasāḥ ..40..1.18.46

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In