| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अर्जुन उवाच॥
तापत्य इति यद्वाक्यमुक्तवानसि मामिह । तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ॥१॥
तापत्यः इति यत् वाक्यम् उक्तवान् असि माम् इह । तत् अहम् ज्ञातुम् इच्छामि तापत्य-अर्थ-विनिश्चयम् ॥१॥
tāpatyaḥ iti yat vākyam uktavān asi mām iha . tat aham jñātum icchāmi tāpatya-artha-viniścayam ..1..
तपती नाम का चैषा तापत्या यत्कृते वयम् । कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥२॥
तपती नाम का च एषा तापत्याः यत्कृते वयम् । कौन्तेयाः हि वयम् साधो तत्त्वम् इच्छामि वेदितुम् ॥२॥
tapatī nāma kā ca eṣā tāpatyāḥ yatkṛte vayam . kaunteyāḥ hi vayam sādho tattvam icchāmi veditum ..2..
वैशम्पायन उवाच॥
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् । विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ॥३॥
एवम् उक्तः स गन्धर्वः कुन्ती-पुत्रम् धनञ्जयम् । विश्रुताम् त्रिषु लोकेषु श्रावयामास वै कथाम् ॥३॥
evam uktaḥ sa gandharvaḥ kuntī-putram dhanañjayam . viśrutām triṣu lokeṣu śrāvayāmāsa vai kathām ..3..
गन्धर्व उवाच॥
हन्त ते कथयिष्यामि कथामेतां मनोरमाम् । यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ॥४॥
हन्त ते कथयिष्यामि कथाम् एताम् मनोरमाम् । यथावत् अखिलाम् पार्थ धर्म्याम् धर्म-भृताम् वर ॥४॥
hanta te kathayiṣyāmi kathām etām manoramām . yathāvat akhilām pārtha dharmyām dharma-bhṛtām vara ..4..
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः । तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ॥५॥
उक्तवान् अस्मि येन त्वाम् तापत्यः इति यत् वचः । तत् ते अहम् कथयिष्यामि शृणुष्व एकमनाः मम ॥५॥
uktavān asmi yena tvām tāpatyaḥ iti yat vacaḥ . tat te aham kathayiṣyāmi śṛṇuṣva ekamanāḥ mama ..5..
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा । एतस्य तपती नाम बभूवासदृशी सुता ॥६॥
यः एष दिवि धिष्ण्येन नाकम् व्याप्नोति तेजसा । एतस्य तपती नाम बभूव असदृशी सुता ॥६॥
yaḥ eṣa divi dhiṣṇyena nākam vyāpnoti tejasā . etasya tapatī nāma babhūva asadṛśī sutā ..6..
विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो । विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥७॥
विवस्वतः वै कौन्तेय सावित्री-अवरजाः विभो । विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥७॥
vivasvataḥ vai kaunteya sāvitrī-avarajāḥ vibho . viśrutā triṣu lokeṣu tapatī tapasā yutā ..7..
न देवी नासुरी चैव न यक्षी न च राक्षसी । नाप्सरा न च गन्धर्वी तथारूपेण काचन ॥८॥
न देवी न असुरी च एव न यक्षी न च राक्षसी । ना अप्सराः न च गन्धर्वी तथारूपेण काचन ॥८॥
na devī na asurī ca eva na yakṣī na ca rākṣasī . nā apsarāḥ na ca gandharvī tathārūpeṇa kācana ..8..
सुविभक्तानवद्याङ्गी स्वसितायतलोचना । स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥९॥
सुविभक्त-अनवद्य-अङ्गी स्वसिता आयत-लोचना । सु आचारा च एव साध्वी च सु वेषा च एव भामिनी ॥९॥
suvibhakta-anavadya-aṅgī svasitā āyata-locanā . su ācārā ca eva sādhvī ca su veṣā ca eva bhāminī ..9..
न तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत । भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥१०॥
न तस्याः सदृशम् कञ्चिद् त्रिषु लोकेषु भारत । भर्तारम् सविता मेने रूप-शील-कुल-श्रुतैः ॥१०॥
na tasyāḥ sadṛśam kañcid triṣu lokeṣu bhārata . bhartāram savitā mene rūpa-śīla-kula-śrutaiḥ ..10..
सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् । नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् ॥११॥
सम्प्राप्त-यौवनाम् पश्यन् देयाम् दुहितरम् तु ताम् । न उपलेभे ततस् शान्तिम् सम्प्रदानम् विचिन्तयन् ॥११॥
samprāpta-yauvanām paśyan deyām duhitaram tu tām . na upalebhe tatas śāntim sampradānam vicintayan ..11..
अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली । सूर्यमाराधयामास नृपः संवरणः सदा ॥१२॥
अर्थ-ऋक्ष-पुत्रः कौन्तेय कुरूणाम् ऋषभः बली । सूर्यम् आराधयामास नृपः संवरणः सदा ॥१२॥
artha-ṛkṣa-putraḥ kaunteya kurūṇām ṛṣabhaḥ balī . sūryam ārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā ..12..
अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः । नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥१३॥
अर्घ्य-माल्य-उपहारैः च शश्वत् च नृपतिः यतस् । नियमैः उपवासैः च तपोभिः विविधैः अपि ॥१३॥
arghya-mālya-upahāraiḥ ca śaśvat ca nṛpatiḥ yatas . niyamaiḥ upavāsaiḥ ca tapobhiḥ vividhaiḥ api ..13..
शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः । अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥१४॥
शुश्रूषुः अन् अहंवादी शुचिः पौरव-नन्दनः । अंशुमन्तम् समुद्यन्तम् पूजयामास भक्तिमान् ॥१४॥
śuśrūṣuḥ an ahaṃvādī śuciḥ paurava-nandanaḥ . aṃśumantam samudyantam pūjayāmāsa bhaktimān ..14..
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि । तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥१५॥
ततस् कृतज्ञम् धर्म-ज्ञम् रूपेण अ सदृशम् भुवि । तपत्याः सदृशम् मेने सूर्यः संवरणम् पतिम् ॥१५॥
tatas kṛtajñam dharma-jñam rūpeṇa a sadṛśam bhuvi . tapatyāḥ sadṛśam mene sūryaḥ saṃvaraṇam patim ..15..
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् । नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ॥१६॥
दातुम् ऐच्छत् ततस् कन्याम् तस्मै संवरणाय ताम् । नृप-उत्तमाय कौरव्य विश्रुत-अभिजनाय वै ॥१६॥
dātum aicchat tatas kanyām tasmai saṃvaraṇāya tām . nṛpa-uttamāya kauravya viśruta-abhijanāya vai ..16..
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा । तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ॥१७॥
यथा हि दिवि दीप्त-अंशुः प्रभासयति तेजसा । तथा भुवि महीपालः दीप्त्या संवरणः अभवत् ॥१७॥
yathā hi divi dīpta-aṃśuḥ prabhāsayati tejasā . tathā bhuvi mahīpālaḥ dīptyā saṃvaraṇaḥ abhavat ..17..
यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः । तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥१८॥
यथा अर्चयन्ति च आदित्यम् उद्यन्तम् ब्रह्म-वादिनः । तथा संवरणम् पार्थ ब्राह्मण-अवरजाः प्रजाः ॥१८॥
yathā arcayanti ca ādityam udyantam brahma-vādinaḥ . tathā saṃvaraṇam pārtha brāhmaṇa-avarajāḥ prajāḥ ..18..
स सोममति कान्तत्वादादित्यमति तेजसा । बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥१९॥
स सोमम् अति कान्त-त्वात् आदित्यम् अति तेजसा । बभूव नृपतिः श्रीमान् सुहृदाम् दुर्हृदाम् अपि ॥१९॥
sa somam ati kānta-tvāt ādityam ati tejasā . babhūva nṛpatiḥ śrīmān suhṛdām durhṛdām api ..19..
एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव । तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥२०॥
एवङ्गुणस्य नृपतेः तथा वृत्तस्य कौरव । तस्मै दातुम् मनः चक्रे तपतीम् तपनः स्वयम् ॥२०॥
evaṅguṇasya nṛpateḥ tathā vṛttasya kaurava . tasmai dātum manaḥ cakre tapatīm tapanaḥ svayam ..20..
स कदाचिदथो राजा श्रीमानुरुयशा भुवि । चचार मृगयां पार्थ पर्वतोपवने किल ॥२१॥
स कदाचिद् अथो राजा श्रीमान् उरु-यशाः भुवि । चचार मृगयाम् पार्थ पर्वत-उपवने किल ॥२१॥
sa kadācid atho rājā śrīmān uru-yaśāḥ bhuvi . cacāra mṛgayām pārtha parvata-upavane kila ..21..
चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः । ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥२२॥
चरतः मृगयाम् तस्य क्षुध्-पिपासा-श्रम-अन्वितः । ममार राज्ञः कौन्तेय गिरौ अप्रतिमः हयः ॥२२॥
carataḥ mṛgayām tasya kṣudh-pipāsā-śrama-anvitaḥ . mamāra rājñaḥ kaunteya girau apratimaḥ hayaḥ ..22..
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः । ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥२३॥
स मृत-अश्वः चरन् पार्थ पद्भ्याम् एव गिरौ नृपः । ददर्श असदृशीम् लोके कन्याम् आयत-लोचनाम् ॥२३॥
sa mṛta-aśvaḥ caran pārtha padbhyām eva girau nṛpaḥ . dadarśa asadṛśīm loke kanyām āyata-locanām ..23..
स एक एकामासाद्य कन्यां तामरिमर्दनः । तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥२४॥
सः एकः एकाम् आसाद्य कन्याम् ताम् अरि-मर्दनः । तस्थौ नृपति-शार्दूलः पश्यन् अविचल-ईक्षणः ॥२४॥
saḥ ekaḥ ekām āsādya kanyām tām ari-mardanaḥ . tasthau nṛpati-śārdūlaḥ paśyan avicala-īkṣaṇaḥ ..24..
स हि तां तर्कयामास रूपतो नृपतिः श्रियम् । पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥२५॥
स हि ताम् तर्कयामास रूपतः नृपतिः श्रियम् । पुनर् सन्तर्कयामास रवेः भ्रष्टाम् इव प्रभाम् ॥२५॥
sa hi tām tarkayāmāsa rūpataḥ nṛpatiḥ śriyam . punar santarkayāmāsa raveḥ bhraṣṭām iva prabhām ..25..
गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना । स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥२६॥
गिरि-प्रस्थे तु सा यस्मिन् स्थिता स्वसित-लोचना । स स वृक्ष-क्षुप-लतः हिरण्मयः इव अभवत् ॥२६॥
giri-prasthe tu sā yasmin sthitā svasita-locanā . sa sa vṛkṣa-kṣupa-lataḥ hiraṇmayaḥ iva abhavat ..26..
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः । अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥२७॥
अवमेने च ताम् दृष्ट्वा सर्व-प्राणभृताम् वपुः । अवाप्तम् च आत्मनः मेने स राजा चक्षुषः फलम् ॥२७॥
avamene ca tām dṛṣṭvā sarva-prāṇabhṛtām vapuḥ . avāptam ca ātmanaḥ mene sa rājā cakṣuṣaḥ phalam ..27..
जन्मप्रभृति यत्किञ्चिद्दृष्टवान्स महीपतिः । रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ॥२८॥
जन्म-प्रभृति यत् किञ्चिद् दृष्टवान् स महीपतिः । रूपम् न सदृशम् तस्याः तर्कयामास किञ्चन ॥२८॥
janma-prabhṛti yat kiñcid dṛṣṭavān sa mahīpatiḥ . rūpam na sadṛśam tasyāḥ tarkayāmāsa kiñcana ..28..
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा । न चचाल ततो देशाद्बुबुधे न च किञ्चन ॥२९॥
तया बद्ध-मनः-चक्षुः पाशैः गुण-मयैः तदा । न चचाल ततस् देशात् बुबुधे न च किञ्चन ॥२९॥
tayā baddha-manaḥ-cakṣuḥ pāśaiḥ guṇa-mayaiḥ tadā . na cacāla tatas deśāt bubudhe na ca kiñcana ..29..
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् । लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥३०॥
अस्याः नूनम् विशाल-अक्ष्याः स देव-असुर-मानुषम् । लोकम् निर्मथ्य धात्रा इदम् रूपम् आविष्कृतम् कृतम् ॥३०॥
asyāḥ nūnam viśāla-akṣyāḥ sa deva-asura-mānuṣam . lokam nirmathya dhātrā idam rūpam āviṣkṛtam kṛtam ..30..
एवं स तर्कयामास रूपद्रविणसम्पदा । कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥३१॥
एवम् स तर्कयामास रूप-द्रविण-सम्पदा । कन्याम् असदृशीम् लोके नृपः संवरणः तदा ॥३१॥
evam sa tarkayāmāsa rūpa-draviṇa-sampadā . kanyām asadṛśīm loke nṛpaḥ saṃvaraṇaḥ tadā ..31..
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः । जगाम मनसा चिन्तां काममार्गणपीडितः ॥३२॥
ताम् च दृष्ट्वा एव कल्याणीम् कल्याण-अभिजनः नृपः । जगाम मनसा चिन्ताम् काम-मार्गण-पीडितः ॥३२॥
tām ca dṛṣṭvā eva kalyāṇīm kalyāṇa-abhijanaḥ nṛpaḥ . jagāma manasā cintām kāma-mārgaṇa-pīḍitaḥ ..32..
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना । अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ॥३३॥
दह्यमानः स तीव्रेण नृपतिः मन्मथ-अग्निना । अ प्रगल्भाम् प्रगल्भः स ताम् उवाच यशस्विनीम् ॥३३॥
dahyamānaḥ sa tīvreṇa nṛpatiḥ manmatha-agninā . a pragalbhām pragalbhaḥ sa tām uvāca yaśasvinīm ..33..
कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि । कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥३४॥
का असि कस्य असि रम्भा-ऊरु किम् अर्थम् च इह तिष्ठसि । कथम् च निर्जने अरण्ये चरसि एका शुचि-स्मिते ॥३४॥
kā asi kasya asi rambhā-ūru kim artham ca iha tiṣṭhasi . katham ca nirjane araṇye carasi ekā śuci-smite ..34..
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता । विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥३५॥
त्वम् हि सर्व-अनवद्य-अङ्गी सर्व-आभरण-भूषिता । विभूषणम् इव एतेषाम् भूषणानाम् अभीप्सितम् ॥३५॥
tvam hi sarva-anavadya-aṅgī sarva-ābharaṇa-bhūṣitā . vibhūṣaṇam iva eteṣām bhūṣaṇānām abhīpsitam ..35..
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् । न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ॥३६॥
न देवीम् न असुरीम् च एव न यक्षीम् न च राक्षसीम् । न च भोगवतीम् मन्ये न गन्धर्वीम् न मानुषीम् ॥३६॥
na devīm na asurīm ca eva na yakṣīm na ca rākṣasīm . na ca bhogavatīm manye na gandharvīm na mānuṣīm ..36..
या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः । न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥३७॥
याः हि दृष्टाः मया काश्चिद् श्रुताः वा अपि वर-अङ्गनाः । न तासाम् सदृशीम् मन्ये त्वाम् अहम् मत्तकाशिनि ॥३७॥
yāḥ hi dṛṣṭāḥ mayā kāścid śrutāḥ vā api vara-aṅganāḥ . na tāsām sadṛśīm manye tvām aham mattakāśini ..37..
एवं तां स महीपालो बभाषे न तु सा तदा । कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किञ्चन ॥३८॥
एवम् ताम् स महीपालः बभाषे न तु सा तदा । काम-आर्तम् निर्जने अरण्ये प्रत्यभाषत किञ्चन ॥३८॥
evam tām sa mahīpālaḥ babhāṣe na tu sā tadā . kāma-ārtam nirjane araṇye pratyabhāṣata kiñcana ..38..
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा । सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ॥३९॥
ततस् लालप्यमानस्य पार्थिवस्य आयत-ईक्षणा । सौदामिनी इव स अभ्रेषु तत्र एव अन्तरधीयत ॥३९॥
tatas lālapyamānasya pārthivasya āyata-īkṣaṇā . saudāminī iva sa abhreṣu tatra eva antaradhīyata ..39..
तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा । वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥४०॥
ताम् अन्विच्छन् स नृपतिः परिचक्राम तत् तदा । वनम् वनज-पत्र-अक्षीम् भ्रमन् उन्मत्त-वत् तदा ॥४०॥
tām anvicchan sa nṛpatiḥ paricakrāma tat tadā . vanam vanaja-patra-akṣīm bhraman unmatta-vat tadā ..40..
अपश्यमानः स तु तां बहु तत्र विलप्य च । निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥४१॥1.170.44
अपश्यमानः स तु ताम् बहु तत्र विलप्य च । निश्चेष्टः कौरव-श्रेष्ठः मुहूर्तम् स व्यतिष्ठत ॥४१॥१।१७०।४४
apaśyamānaḥ sa tu tām bahu tatra vilapya ca . niśceṣṭaḥ kaurava-śreṣṭhaḥ muhūrtam sa vyatiṣṭhata ..41..1.170.44

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In