| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
अथ तस्यामदृश्यायां नृपतिः काममोहितः । पातनः शत्रुसङ्घानां पपात धरणीतले ॥१॥
अथ तस्याम् अदृश्यायाम् नृपतिः काम-मोहितः । पातनः शत्रु-सङ्घानाम् पपात धरणी-तले ॥१॥
atha tasyām adṛśyāyām nṛpatiḥ kāma-mohitaḥ . pātanaḥ śatru-saṅghānām papāta dharaṇī-tale ..1..
तस्मिन्निपतिते भूमावथ सा चारुहासिनी । पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥२॥
तस्मिन् निपतिते भूमौ अथ सा चारु-हासिनी । पुनर् पीन-आयत-श्रोणी दर्शयामास तम् नृपम् ॥२॥
tasmin nipatite bhūmau atha sā cāru-hāsinī . punar pīna-āyata-śroṇī darśayāmāsa tam nṛpam ..2..
अथाबभाषे कल्याणी वाचा मधुरया नृपम् । तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥३॥
अथा आबभाषे कल्याणी वाचा मधुरया नृपम् । तम् कुरूणाम् कुल-करम् काम-अभिहत-चेतसम् ॥३॥
athā ābabhāṣe kalyāṇī vācā madhurayā nṛpam . tam kurūṇām kula-karam kāma-abhihata-cetasam ..3..
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम । मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥४॥
उत्तिष्ठ उत्तिष्ठ भद्रम् ते न त्वम् अर्हसि अरिंदम । मोहम् नृपति-शार्दूल गन्तुम् आविष्कृतः क्षितौ ॥४॥
uttiṣṭha uttiṣṭha bhadram te na tvam arhasi ariṃdama . moham nṛpati-śārdūla gantum āviṣkṛtaḥ kṣitau ..4..
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा । ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥५॥
एवम् उक्तः अथ नृपतिः वाचा मधुरया तदा । ददर्श विपुल-श्रोणीम् ताम् एव अभिमुखे स्थिताम् ॥५॥
evam uktaḥ atha nṛpatiḥ vācā madhurayā tadā . dadarśa vipula-śroṇīm tām eva abhimukhe sthitām ..5..
अथ तामसितापाङ्गीमाबभाषे नराधिपः । मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥६॥
अथ ताम् असितापाङ्गीम् आबभाषे नराधिपः । मन्मथ-अग्नि-परीत-आत्मा संदिग्ध-अक्षरया गिरा ॥६॥
atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ . manmatha-agni-parīta-ātmā saṃdigdha-akṣarayā girā ..6..
साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि । भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ॥७॥
साधु माम् असित-अपाङ्गे काम-आर्तम् मत्तकाशिनि । भजस्व भजमानम् माम् प्राणाः हि प्रजहन्ति माम् ॥७॥
sādhu mām asita-apāṅge kāma-ārtam mattakāśini . bhajasva bhajamānam mām prāṇāḥ hi prajahanti mām ..7..
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः । कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥८॥
त्वद्-अर्थम् हि विशाल-अक्षि माम् अयम् निशितैः शरैः । कामः कमल-गर्भ-आभे प्रतिविध्यन् न शाम्यति ॥८॥
tvad-artham hi viśāla-akṣi mām ayam niśitaiḥ śaraiḥ . kāmaḥ kamala-garbha-ābhe pratividhyan na śāmyati ..8..
ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना । सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥९॥
ग्रस्तम् एवम् अन् आक्रन्दे भद्रे काम-महा-अहिना । सा त्वम् पीन-आयत-श्रोणि पर्याप्नुहि शुभ-आनने ॥९॥
grastam evam an ākrande bhadre kāma-mahā-ahinā . sā tvam pīna-āyata-śroṇi paryāpnuhi śubha-ānane ..9..
त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि । चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥१०॥
त्वयि अधीनाः हि मे प्राणाः किंनर-उद्गीत-भाषिणि । चारु-सर्व-अनवद्य-अङ्गि पद्म-इन्दु-सदृश-आनने ॥१०॥
tvayi adhīnāḥ hi me prāṇāḥ kiṃnara-udgīta-bhāṣiṇi . cāru-sarva-anavadya-aṅgi padma-indu-sadṛśa-ānane ..10..
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना । तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥११॥
न हि अहम् त्वत् ऋते भीरु शक्ष्ये जीवितुम् आत्मना । तस्मात् कुरु विशाल-अक्षि मयि अनुक्रोशम् अङ्गने ॥११॥
na hi aham tvat ṛte bhīru śakṣye jīvitum ātmanā . tasmāt kuru viśāla-akṣi mayi anukrośam aṅgane ..11..
भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि । त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥१२॥
भक्तम् माम् असित-अपाङ्गे न परित्यक्तुम् अर्हसि । त्वम् हि माम् प्रीति-योगेन त्रातुम् अर्हसि भामिनि ॥१२॥
bhaktam mām asita-apāṅge na parityaktum arhasi . tvam hi mām prīti-yogena trātum arhasi bhāmini ..12..
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥१३॥
गान्धर्वेण च माम् भीरु विवाहेन एहि सुन्दरि । विवाहानाम् हि रम्भा-ऊरु गान्धर्वः श्रेष्ठः उच्यते ॥१३॥
gāndharveṇa ca mām bhīru vivāhena ehi sundari . vivāhānām hi rambhā-ūru gāndharvaḥ śreṣṭhaḥ ucyate ..13..
तपत्युवाच॥
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् । मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥१४॥
न अहम् ईशा आत्मनः राजन् कन्या पितृमती हि अहम् । मयि चेद् अस्ति ते प्रीतिः याचस्व पितरम् मम ॥१४॥
na aham īśā ātmanaḥ rājan kanyā pitṛmatī hi aham . mayi ced asti te prītiḥ yācasva pitaram mama ..14..
यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर । दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥१५॥
यथा हि ते मया प्राणाः सङ्गृहीताः नरेश्वर । दर्शनात् एव भूयस् त्वम् तथा प्राणान् मम अहरः ॥१५॥
yathā hi te mayā prāṇāḥ saṅgṛhītāḥ nareśvara . darśanāt eva bhūyas tvam tathā prāṇān mama aharaḥ ..15..
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम । समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥१६॥
न च अहम् ईशा देहस्य तस्मात् नृपति-सत्तम । समीपम् ना उपगच्छामि न स्वतन्त्राः हि योषितः ॥१६॥
na ca aham īśā dehasya tasmāt nṛpati-sattama . samīpam nā upagacchāmi na svatantrāḥ hi yoṣitaḥ ..16..
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् । कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥१७॥
का हि सर्वेषु लोकेषु विश्रुत-अभिजनम् नृपम् । कन्या न अभिलषेत् नाथम् भर्तारम् भक्त-वत्सलम् ॥१७॥
kā hi sarveṣu lokeṣu viśruta-abhijanam nṛpam . kanyā na abhilaṣet nātham bhartāram bhakta-vatsalam ..17..
तस्मादेवङ्गते काले याचस्व पितरं मम । आदित्यं प्रणिपातेन तपसा नियमेन च ॥१८॥
तस्मात् एवङ्गते काले याचस्व पितरम् मम । आदित्यम् प्रणिपातेन तपसा नियमेन च ॥१८॥
tasmāt evaṅgate kāle yācasva pitaram mama . ādityam praṇipātena tapasā niyamena ca ..18..
स चेत्कामयते दातुं तव मामरिमर्दन । भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥१९॥
स चेद् कामयते दातुम् तव माम् अरि-मर्दन । भविष्यामि अथ ते राजन् सततम् वश-वर्तिनी ॥१९॥
sa ced kāmayate dātum tava mām ari-mardana . bhaviṣyāmi atha te rājan satatam vaśa-vartinī ..19..
अहं हि तपती नाम सावित्र्यवरजा सुता । अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥२०॥1.171.26
अहम् हि तपती नाम सावित्री-अवरजा सुता । अस्य लोक-प्रदीपस्य सवितुः क्षत्रिय-ऋषभ ॥२०॥१।१७१।२६
aham hi tapatī nāma sāvitrī-avarajā sutā . asya loka-pradīpasya savituḥ kṣatriya-ṛṣabha ..20..1.171.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In