| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता । स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥१॥
एवम् उक्त्वा ततस् तूर्णम् जगाम ऊर्ध्वम् अनिन्दिता । स तु राजा पुनर् भूमौ तत्र एव निपपात ह ॥१॥
evam uktvā tatas tūrṇam jagāma ūrdhvam aninditā . sa tu rājā punar bhūmau tatra eva nipapāta ha ..1..
अमात्यः सानुयात्रस्तु तं ददर्श महावने । क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ॥२॥
अमात्यः स अनुयात्रः तु तम् ददर्श महा-वने । क्षितौ निपतितम् काले शक्र-ध्वजम् इव उच्छ्रितम् ॥२॥
amātyaḥ sa anuyātraḥ tu tam dadarśa mahā-vane . kṣitau nipatitam kāle śakra-dhvajam iva ucchritam ..2..
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ । बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना ॥३॥
तम् हि दृष्ट्वा महा-इष्वासम् निरश्वम् पतितम् क्षितौ । बभूव सः अस्य सचिवः सम्प्रदीप्तः इव अग्निना ॥३॥
tam hi dṛṣṭvā mahā-iṣvāsam niraśvam patitam kṣitau . babhūva saḥ asya sacivaḥ sampradīptaḥ iva agninā ..3..
त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः । तं समुत्थापयामास नृपतिं काममोहितम् ॥४॥
त्वरया च उपसङ्गम्य स्नेहात् आगत-सम्भ्रमः । तम् समुत्थापयामास नृपतिम् काम-मोहितम् ॥४॥
tvarayā ca upasaṅgamya snehāt āgata-sambhramaḥ . tam samutthāpayāmāsa nṛpatim kāma-mohitam ..4..
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् । प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥५॥
भू-तलात् भूमिपाल-ईशम् पिता इव पतितम् सुतम् । प्रज्ञया वयसा च एव वृद्धः कीर्त्या दमेन च ॥५॥
bhū-talāt bhūmipāla-īśam pitā iva patitam sutam . prajñayā vayasā ca eva vṛddhaḥ kīrtyā damena ca ..5..
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः । उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् ॥६॥ ( मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥६॥ )
अमात्यः तम् समुत्थाप्य बभूव विगत-ज्वरः । उवाच च एनम् कल्याण्या वाचा मधुरया उत्थितम् ॥६॥ ( मा भैः मनुज-शार्दूल भद्रम् च अस्तु तव अनघ ॥६॥ )
amātyaḥ tam samutthāpya babhūva vigata-jvaraḥ . uvāca ca enam kalyāṇyā vācā madhurayā utthitam ..6.. ( mā bhaiḥ manuja-śārdūla bhadram ca astu tava anagha ..6.. )
क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् । पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥७॥
क्षुध्-पिपासा-परिश्रान्तम् तर्कयामास तम् नृपम् । पतितम् पातनम् सङ्ख्ये शात्रवाणाम् मही-तले ॥७॥
kṣudh-pipāsā-pariśrāntam tarkayāmāsa tam nṛpam . patitam pātanam saṅkhye śātravāṇām mahī-tale ..7..
वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् । अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥८॥
वारिणा अथ सुशीतेन शिरः तस्य अभ्यषेचयत् । अस्पृशत् मुकुटम् राज्ञः पुण्डरीक-सुगन्धिना ॥८॥
vāriṇā atha suśītena śiraḥ tasya abhyaṣecayat . aspṛśat mukuṭam rājñaḥ puṇḍarīka-sugandhinā ..8..
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः । सर्वं विसर्जयामास तमेकं सचिवं विना ॥९॥
ततस् प्रत्यागत-प्राणः तत् बलम् बलवान् नृपः । सर्वम् विसर्जयामास तम् एकम् सचिवम् विना ॥९॥
tatas pratyāgata-prāṇaḥ tat balam balavān nṛpaḥ . sarvam visarjayāmāsa tam ekam sacivam vinā ..9..
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् । स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥१०॥
ततस् तस्य आज्ञया राज्ञः विप्रतस्थे महत् बलम् । स तु राजा गिरि-प्रस्थे तस्मिन् पुनर् उपाविशत् ॥१०॥
tatas tasya ājñayā rājñaḥ vipratasthe mahat balam . sa tu rājā giri-prasthe tasmin punar upāviśat ..10..
ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः । आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥११॥
ततस् तस्मिन् गिरि-वरे शुचिः भूत्वा कृताञ्जलिः । आरिराधयिषुः सूर्यम् तस्थौ ऊर्ध्व-भुजः क्षितौ ॥११॥
tatas tasmin giri-vare śuciḥ bhūtvā kṛtāñjaliḥ . ārirādhayiṣuḥ sūryam tasthau ūrdhva-bhujaḥ kṣitau ..11..
जगाम मनसा चैव वसिष्ठमृषिसत्तमम् । पुरोहितममित्रघ्नस्तदा संवरणो नृपः ॥१२॥
जगाम मनसा च एव वसिष्ठम् ऋषि-सत्तमम् । पुरोहितम् अमित्र-घ्नः तदा संवरणः नृपः ॥१२॥
jagāma manasā ca eva vasiṣṭham ṛṣi-sattamam . purohitam amitra-ghnaḥ tadā saṃvaraṇaḥ nṛpaḥ ..12..
नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे । अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥१३॥
नक्तंदिनम् अथ एकस्थे स्थिते तस्मिन् जनाधिपे । अथ आजगाम विप्रर्षिः तदा द्वादशमे अहनि ॥१३॥
naktaṃdinam atha ekasthe sthite tasmin janādhipe . atha ājagāma viprarṣiḥ tadā dvādaśame ahani ..13..
स विदित्वैव नृपतिं तपत्या हृतमानसम् । दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ॥१४॥
स विदित्वा एव नृपतिम् तपत्या हृत-मानसम् । दिव्येन विधिना ज्ञात्वा भावितात्मा महान् ऋषिः ॥१४॥
sa viditvā eva nṛpatim tapatyā hṛta-mānasam . divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ ..14..
तथा तु नियतात्मानं स तं नृपतिसत्तमम् । आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥१५॥
तथा तु नियत-आत्मानम् स तम् नृपति-सत्तमम् । आबभाषे स धर्म-आत्मा तस्य एव अर्थ-चिकीर्षया ॥१५॥
tathā tu niyata-ātmānam sa tam nṛpati-sattamam . ābabhāṣe sa dharma-ātmā tasya eva artha-cikīrṣayā ..15..
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः । ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥१६॥
स तस्य मनुज-इन्द्रस्य पश्यतः भगवान् ऋषिः । ऊर्ध्वम् आचक्रमे द्रष्टुम् भास्करम् भास्कर-द्युतिः ॥१६॥
sa tasya manuja-indrasya paśyataḥ bhagavān ṛṣiḥ . ūrdhvam ācakrame draṣṭum bhāskaram bhāskara-dyutiḥ ..16..
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः । वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥१७॥
सहस्रांशुम् ततस् विप्रः कृताञ्जलिः उपस्थितः । वसिष्ठः अहम् इति प्रीत्या स च आत्मानम् न्यवेदयत् ॥१७॥
sahasrāṃśum tatas vipraḥ kṛtāñjaliḥ upasthitaḥ . vasiṣṭhaḥ aham iti prītyā sa ca ātmānam nyavedayat ..17..
तमुवाच महातेजा विवस्वान्मुनिसत्तमम् । महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ॥१८॥1.172.19
तम् उवाच महा-तेजाः विवस्वान् मुनि-सत्तमम् । महा-ऋषे स्वागतम् ते अस्तु कथयस्व यथा इच्छसि ॥१८॥१।१७२।१९
tam uvāca mahā-tejāḥ vivasvān muni-sattamam . mahā-ṛṣe svāgatam te astu kathayasva yathā icchasi ..18..1.172.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In