| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वसिष्ठ उवाच॥
यैषा ते तपती नाम सावित्र्यवरजा सुता । तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥१॥1.172.22
या एषा ते तपती नाम सावित्री-अवरजा सुता । ताम् त्वाम् संवरणस्य अर्थे वरयामि विभावसो ॥१॥१।१७२।२२
yā eṣā te tapatī nāma sāvitrī-avarajā sutā . tām tvām saṃvaraṇasya arthe varayāmi vibhāvaso ..1..1.172.22
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः । युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥२॥
स हि राजा बृहत्-कीर्तिः धर्म-अर्थ-विद् उदार-धीः । युक्तः संवरणः भर्ता दुहितुः ते विहङ्गम ॥२॥
sa hi rājā bṛhat-kīrtiḥ dharma-artha-vid udāra-dhīḥ . yuktaḥ saṃvaraṇaḥ bhartā duhituḥ te vihaṅgama ..2..
गन्धर्व उवाच॥
इत्युक्तः सविता तेन ददानीत्येव निश्चितः । प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥३॥
इति उक्तः सविता तेन ददानि इति एव निश्चितः । प्रत्यभाषत तम् विप्रम् प्रतिनन्द्य दिवाकरः ॥३॥
iti uktaḥ savitā tena dadāni iti eva niścitaḥ . pratyabhāṣata tam vipram pratinandya divākaraḥ ..3..
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने । तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥४॥
वरः संवरणः राज्ञाम् त्वम् ऋषीणाम् वरः मुने । तपती योषिताम् श्रेष्ठा किम् अन्यत्र अपवर्जनात् ॥४॥
varaḥ saṃvaraṇaḥ rājñām tvam ṛṣīṇām varaḥ mune . tapatī yoṣitām śreṣṭhā kim anyatra apavarjanāt ..4..
ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् । ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥५॥ ( प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ॥५॥ )
ततस् सर्व-अनवद्य-अग्नीम् तपतीम् तपनः स्वयम् । ददौ संवरणस्य अर्थे वसिष्ठाय महात्मने ॥५॥ ( प्रतिजग्राह ताम् कन्याम् महा-ऋषिः तपतीम् तदा ॥५॥ )
tatas sarva-anavadya-agnīm tapatīm tapanaḥ svayam . dadau saṃvaraṇasya arthe vasiṣṭhāya mahātmane ..5.. ( pratijagrāha tām kanyām mahā-ṛṣiḥ tapatīm tadā ..5.. )
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह । यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ॥६॥
वसिष्ठः अथ विसृष्टः च पुनर् एव आजगाम ह । यत्र विख्यत-कीर्तिः स कुरूणाम् ऋषभः अभवत् ॥६॥
vasiṣṭhaḥ atha visṛṣṭaḥ ca punar eva ājagāma ha . yatra vikhyata-kīrtiḥ sa kurūṇām ṛṣabhaḥ abhavat ..6..
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना । दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ॥७॥ ( वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥७॥ )
स राजा मन्मथ-आविष्टः तद्गतेन अन्तरात्मना । दृष्ट्वा च देव-कन्याम् ताम् तपतीम् चारु-हासिनीम् ॥७॥ ( वसिष्ठेन सह आयान्तीम् संहृष्टः अभ्यधिकम् बभौ ॥७॥ )
sa rājā manmatha-āviṣṭaḥ tadgatena antarātmanā . dṛṣṭvā ca deva-kanyām tām tapatīm cāru-hāsinīm ..7.. ( vasiṣṭhena saha āyāntīm saṃhṛṣṭaḥ abhyadhikam babhau ..7.. )
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते । आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥८॥
कृच्छ्रे द्वादश-रात्रे तु तस्य राज्ञः समापिते । आजगाम विशुद्ध-आत्मा वसिष्ठः भगवान् ऋषिः ॥८॥
kṛcchre dvādaśa-rātre tu tasya rājñaḥ samāpite . ājagāma viśuddha-ātmā vasiṣṭhaḥ bhagavān ṛṣiḥ ..8..
तपसाराध्य वरदं देवं गोपतिमीश्वरम् । लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥९॥
तपसा आराध्य वर-दम् देवम् गोपतिम् ईश्वरम् । लेभे संवरणः भार्याम् वसिष्ठस्य एव तेजसा ॥९॥
tapasā ārādhya vara-dam devam gopatim īśvaram . lebhe saṃvaraṇaḥ bhāryām vasiṣṭhasya eva tejasā ..9..
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते । जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥१०॥
ततस् तस्मिन् गिरि-श्रेष्ठे देव-गन्धर्व-सेविते । जग्राह विधिवत् पाणिम् तपत्याः स नर-ऋषभः ॥१०॥
tatas tasmin giri-śreṣṭhe deva-gandharva-sevite . jagrāha vidhivat pāṇim tapatyāḥ sa nara-ṛṣabhaḥ ..10..
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे । सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥११॥
वसिष्ठेन अभ्यनुज्ञातः तस्मिन् एव धराधरे । सः अकामयत राजर्षिः विहर्तुम् सह भार्यया ॥११॥
vasiṣṭhena abhyanujñātaḥ tasmin eva dharādhare . saḥ akāmayata rājarṣiḥ vihartum saha bhāryayā ..11..
ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च । आदिदेश महीपालस्तमेव सचिवं तदा ॥१२॥
ततस् पुरे च राष्ट्रे च वाहनेषु बलेषु च । आदिदेश महीपालः तम् एव सचिवम् तदा ॥१२॥
tatas pure ca rāṣṭre ca vāhaneṣu baleṣu ca . ādideśa mahīpālaḥ tam eva sacivam tadā ..12..
नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे । सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ॥१३॥
नृपतिम् तु अभ्यनुज्ञाय वसिष्ठः अथ अपचक्रमे । सः अपि राजा गिरौ तस्मिन् विजहार अमर-उपमः ॥१३॥
nṛpatim tu abhyanujñāya vasiṣṭhaḥ atha apacakrame . saḥ api rājā girau tasmin vijahāra amara-upamaḥ ..13..
ततो द्वादश वर्षाणि काननेषु जलेषु च । रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥१४॥
ततस् द्वादश वर्षाणि काननेषु जलेषु च । रेमे तस्मिन् गिरौ राजा तया एव सह भार्यया ॥१४॥
tatas dvādaśa varṣāṇi kānaneṣu jaleṣu ca . reme tasmin girau rājā tayā eva saha bhāryayā ..14..
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः । न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ॥१५॥
तस्य राज्ञः पुरे तस्मिन् समाः द्वादश सर्वशस् । न ववर्ष सहस्राक्षः राष्ट्रे च एव अस्य सर्वशस् ॥१५॥
tasya rājñaḥ pure tasmin samāḥ dvādaśa sarvaśas . na vavarṣa sahasrākṣaḥ rāṣṭre ca eva asya sarvaśas ..15..
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः । अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥१६॥
तद्-क्षुधा-आर्तैः निरानन्दैः शव-भूतैः तदा नरैः । अभवत् प्रेतराजस्य पुरम् प्रेतैः इव आवृतम् ॥१६॥
tad-kṣudhā-ārtaiḥ nirānandaiḥ śava-bhūtaiḥ tadā naraiḥ . abhavat pretarājasya puram pretaiḥ iva āvṛtam ..16..
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः । अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ॥१७॥
ततस् तत् तादृशम् दृष्ट्वा सः एव भगवान् ऋषिः । अभ्यपद्यत धर्म-आत्मा वसिष्ठः राज-सत्तमम् ॥१७॥
tatas tat tādṛśam dṛṣṭvā saḥ eva bhagavān ṛṣiḥ . abhyapadyata dharma-ātmā vasiṣṭhaḥ rāja-sattamam ..17..
तं च पार्थिवशार्दूलमानयामास तत्पुरम् । तपत्या सहितं राजन्नुषितं द्वादशीः समाः ॥१८॥
तम् च पार्थिव-शार्दूलम् आनयामास तत् पुरम् । तपत्या सहितम् राजन् उषितम् द्वादशीः समाः ॥१८॥
tam ca pārthiva-śārdūlam ānayāmāsa tat puram . tapatyā sahitam rājan uṣitam dvādaśīḥ samāḥ ..18..
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा । तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ॥१९॥
ततस् प्रवृष्टः तत्र आसीत् यथापूर्वम् सुरारि-हा । तस्मिन् नृपति-शार्दूले प्रविष्टे नगरम् पुनर् ॥१९॥
tatas pravṛṣṭaḥ tatra āsīt yathāpūrvam surāri-hā . tasmin nṛpati-śārdūle praviṣṭe nagaram punar ..19..
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा । तेन पार्थिवमुख्येन भावितं भावितात्मना ॥२०॥
ततस् सराष्ट्रम् मुमुदे तत् पुरम् परया मुदा । तेन पार्थिव-मुख्येन भावितम् भावितात्मना ॥२०॥
tatas sarāṣṭram mumude tat puram parayā mudā . tena pārthiva-mukhyena bhāvitam bhāvitātmanā ..20..
ततो द्वादश वर्षाणि पुनरीजे नराधिपः । पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ॥२१॥
ततस् द्वादश वर्षाणि पुनर् ईजे नराधिपः । पत्न्या तपत्या सहितः यथा शक्रः मरुत्पतिः ॥२१॥
tatas dvādaśa varṣāṇi punar īje narādhipaḥ . patnyā tapatyā sahitaḥ yathā śakraḥ marutpatiḥ ..21..
एवमासीन्महाभागा तपती नाम पौर्विकी । तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥२२॥
एवम् आसीत् महाभागा तपती नाम पौर्विकी । तव वैवस्वती पार्थ तापत्यः त्वम् यया मतः ॥२२॥
evam āsīt mahābhāgā tapatī nāma paurvikī . tava vaivasvatī pārtha tāpatyaḥ tvam yayā mataḥ ..22..
तस्यां सञ्जनयामास कुरुं संवरणो नृपः । तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥२३॥1.172.50
तस्याम् सञ्जनयामास कुरुम् संवरणः नृपः । तपत्याम् तपताम् श्रेष्ठ तापत्यः त्वम् ततस् अर्जुन ॥२३॥१।१७२।५०
tasyām sañjanayāmāsa kurum saṃvaraṇaḥ nṛpaḥ . tapatyām tapatām śreṣṭha tāpatyaḥ tvam tatas arjuna ..23..1.172.50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In