| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ । अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥१॥
स गन्धर्व-वचः श्रुत्वा तत् तदा भरत-ऋषभ । अर्जुनः परया प्रीत्या पूर्ण-चन्द्रः इव आबभौ ॥१॥
sa gandharva-vacaḥ śrutvā tat tadā bharata-ṛṣabha . arjunaḥ parayā prītyā pūrṇa-candraḥ iva ābabhau ..1..
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः । जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥२॥
उवाच च महा-इष्वासः गन्धर्वम् कुरु-सत्तमः । जात-कौतूहलः अतीव वसिष्ठस्य तपः-बलात् ॥२॥
uvāca ca mahā-iṣvāsaḥ gandharvam kuru-sattamaḥ . jāta-kautūhalaḥ atīva vasiṣṭhasya tapaḥ-balāt ..2..
वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् । एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥३॥
वसिष्ठः इति यस्य एतत् ऋषेः नाम त्वया ईरितम् । एतत् इच्छामि अहम् श्रोतुम् यथावत् तत् वदस्व मे ॥३॥
vasiṣṭhaḥ iti yasya etat ṛṣeḥ nāma tvayā īritam . etat icchāmi aham śrotum yathāvat tat vadasva me ..3..
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः । आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥४॥
यः एष गन्धर्व-पते पूर्वेषाम् नः पुरोहितः । आसीत् एतत् मम आचक्ष्व कः एष भगवान् ऋषिः ॥४॥
yaḥ eṣa gandharva-pate pūrveṣām naḥ purohitaḥ . āsīt etat mama ācakṣva kaḥ eṣa bhagavān ṛṣiḥ ..4..
गन्धर्व उवाच॥
तपसा निर्जितौ शश्वदजेयावमरैरपि । कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥५॥
तपसा निर्जितौ शश्वत् अजेयौ अमरैः अपि । काम-क्रोधौ उभौ यस्य चरणौ संववाहतुः ॥५॥
tapasā nirjitau śaśvat ajeyau amaraiḥ api . kāma-krodhau ubhau yasya caraṇau saṃvavāhatuḥ ..5..
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः । विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥६॥
यः तु ना उच्छेदनम् चक्रे कुशिकानाम् उदार-धीः । विश्वामित्र-अपराधेन धारयन् मन्युम् उत्तमम् ॥६॥
yaḥ tu nā ucchedanam cakre kuśikānām udāra-dhīḥ . viśvāmitra-aparādhena dhārayan manyum uttamam ..6..
पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः । विश्वामित्रविनाशाय न मेने कर्म दारुणम् ॥७॥
पुत्र-व्यसन-सन्तप्तः शक्तिमान् अपि यः प्रभुः । विश्वामित्र-विनाशाय न मेने कर्म दारुणम् ॥७॥
putra-vyasana-santaptaḥ śaktimān api yaḥ prabhuḥ . viśvāmitra-vināśāya na mene karma dāruṇam ..7..
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् । कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥८॥
मृतान् च पुनर् आहर्तुम् यः स पुत्र-अन्यम् अक्षयात् । कृतान्तम् न अतिचक्राम वेलाम् इव महा-उदधिः ॥८॥
mṛtān ca punar āhartum yaḥ sa putra-anyam akṣayāt . kṛtāntam na aticakrāma velām iva mahā-udadhiḥ ..8..
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः । इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥९॥
यम् प्राप्य विजित-आत्मानम् महात्मानम् नराधिपाः । इक्ष्वाकवः महीपालाः लेभिरे पृथिवीम् इमाम् ॥९॥
yam prāpya vijita-ātmānam mahātmānam narādhipāḥ . ikṣvākavaḥ mahīpālāḥ lebhire pṛthivīm imām ..9..
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् । ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ॥१०॥
पुरोहित-वरम् प्राप्य वसिष्ठम् ऋषि-सत्तमम् । ईजिरे क्रतुभिः च अपि नृपाः ते कुरु-नन्दन ॥१०॥
purohita-varam prāpya vasiṣṭham ṛṣi-sattamam . ījire kratubhiḥ ca api nṛpāḥ te kuru-nandana ..10..
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् । ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥११॥
स हि तान् याजयामास सर्वान् नृपति-सत्तमान् । ब्रह्मर्षिः पाण्डव-श्रेष्ठ बृहस्पतिः इव अमरान् ॥११॥
sa hi tān yājayāmāsa sarvān nṛpati-sattamān . brahmarṣiḥ pāṇḍava-śreṣṭha bṛhaspatiḥ iva amarān ..11..
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः । ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ॥१२॥
तस्मात् धर्म-प्रधान-आत्मा वेद-धर्म-विद् ईप्सितः । ब्राह्मणः गुणवान् कश्चिद् पुरोधाः प्रविमृश्यताम् ॥१२॥
tasmāt dharma-pradhāna-ātmā veda-dharma-vid īpsitaḥ . brāhmaṇaḥ guṇavān kaścid purodhāḥ pravimṛśyatām ..12..
क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता । पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥१३॥
क्षत्रियेण हि जातेन पृथिवीम् जेतुम् इच्छता । पूर्वम् पुरोहितः कार्यः पार्थ राज्य-अभिवृद्धये ॥१३॥
kṣatriyeṇa hi jātena pṛthivīm jetum icchatā . pūrvam purohitaḥ kāryaḥ pārtha rājya-abhivṛddhaye ..13..
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् । तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ॥१४॥1.173.15
महीम् जिगीषता राज्ञा ब्रह्म कार्यम् पुरःसरम् । तस्मात् पुरोहितः कश्चिद् गुणवान् अस्तु वः द्विजः ॥१४॥१।१७३।१५
mahīm jigīṣatā rājñā brahma kāryam puraḥsaram . tasmāt purohitaḥ kaścid guṇavān astu vaḥ dvijaḥ ..14..1.173.15

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In