| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अर्जुन उवाच॥
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः । वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥१॥
किंनिमित्तम् अभूत् वैरम् विश्वामित्र-वसिष्ठयोः । वसतोः आश्रमे पुण्ये शंस नः सर्वम् एव तत् ॥१॥
kiṃnimittam abhūt vairam viśvāmitra-vasiṣṭhayoḥ . vasatoḥ āśrame puṇye śaṃsa naḥ sarvam eva tat ..1..
गन्धर्व उवाच॥
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते । पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥२॥
इदम् वासिष्ठम् आख्यानम् पुराणम् परिचक्षते । पार्थ सर्वेषु लोकेषु यथावत् तत् निबोध मे ॥२॥
idam vāsiṣṭham ākhyānam purāṇam paricakṣate . pārtha sarveṣu lokeṣu yathāvat tat nibodha me ..2..
कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ । गाधीति विश्रुतो लोके सत्यधर्मपरायणः ॥३॥
कन्यकुब्जे महान् आसीत् पार्थिवः भरत-ऋषभ । गाधी इति विश्रुतः लोके सत्य-धर्म-परायणः ॥३॥
kanyakubje mahān āsīt pārthivaḥ bharata-ṛṣabha . gādhī iti viśrutaḥ loke satya-dharma-parāyaṇaḥ ..3..
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः । विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥४॥
तस्य धर्म-आत्मनः पुत्रः समृद्ध-बल-वाहनः । विश्वामित्रः इति ख्यातः बभूव रिपु-मर्दनः ॥४॥
tasya dharma-ātmanaḥ putraḥ samṛddha-bala-vāhanaḥ . viśvāmitraḥ iti khyātaḥ babhūva ripu-mardanaḥ ..4..
स चचार सहामात्यो मृगयां गहने वने । मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥५॥
स चचार सहामात्यः मृगयाम् गहने वने । मृगान् विध्यन् वराहान् च रम्येषु मरु-धन्वसु ॥५॥
sa cacāra sahāmātyaḥ mṛgayām gahane vane . mṛgān vidhyan varāhān ca ramyeṣu maru-dhanvasu ..5..
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥६॥
व्यायाम-कर्शितः सः अथ मृग-लिप्सुः पिपासितः । आजगाम नर-श्रेष्ठ वसिष्ठस्य आश्रमम् प्रति ॥६॥
vyāyāma-karśitaḥ saḥ atha mṛga-lipsuḥ pipāsitaḥ . ājagāma nara-śreṣṭha vasiṣṭhasya āśramam prati ..6..
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः । विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥७॥
तम् आगतम् अभिप्रेक्ष्य वसिष्ठः श्रेष्ठ-भाज्-ऋषिः । विश्वामित्रम् नर-श्रेष्ठम् प्रतिजग्राह पूजया ॥७॥
tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭha-bhāj-ṛṣiḥ . viśvāmitram nara-śreṣṭham pratijagrāha pūjayā ..7..
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत । तथैव प्रतिजग्राह वन्येन हविषा तथा ॥८॥
पाद्य-अर्घ्य-आचमनीयेन स्वागतेन च भारत । तथा एव प्रतिजग्राह वन्येन हविषा तथा ॥८॥
pādya-arghya-ācamanīyena svāgatena ca bhārata . tathā eva pratijagrāha vanyena haviṣā tathā ..8..
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः । उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥९॥
तस्य अथ कामधुक् धेनुः वसिष्ठस्य महात्मनः । उक्ता कामान् प्रयच्छ इति सा कामान् दुदुहे ततस् ॥९॥
tasya atha kāmadhuk dhenuḥ vasiṣṭhasya mahātmanaḥ . uktā kāmān prayaccha iti sā kāmān duduhe tatas ..9..
ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च । षड्रसं चामृतरसं रसायनमनुत्तमम् ॥१०॥
ग्राम्य-आरण्याः ओषधीः च दुदुहे पयः एव च । षष्-रसम् च अमृत-रसम् रसायनम् अनुत्तमम् ॥१०॥
grāmya-āraṇyāḥ oṣadhīḥ ca duduhe payaḥ eva ca . ṣaṣ-rasam ca amṛta-rasam rasāyanam anuttamam ..10..
भोजनीयानि पेयानि भक्ष्याणि विविधानि च । लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥११॥
भोजनीयानि पेयानि भक्ष्याणि विविधानि च । लेह्यानि अमृत-कल्पानि चोष्याणि च तथा अर्जुन ॥११॥
bhojanīyāni peyāni bhakṣyāṇi vividhāni ca . lehyāni amṛta-kalpāni coṣyāṇi ca tathā arjuna ..11..
तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः । सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥१२॥
तैः कामैः सर्व-सम्पूर्णैः पूजितः स महीपतिः । स अमात्यः स बलः च एव तुतोष स भृशम् नृपः ॥१२॥
taiḥ kāmaiḥ sarva-sampūrṇaiḥ pūjitaḥ sa mahīpatiḥ . sa amātyaḥ sa balaḥ ca eva tutoṣa sa bhṛśam nṛpaḥ ..12..
षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् । मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥१३॥
षष्-आयताम् सु पार्श्व-ऊरुम् त्रि-पृथुम् पञ्च संवृताम् । मण्डूक-नेत्राम् सु आकाराम् पीन-ऊध-सम-निन्दिताम् ॥१३॥
ṣaṣ-āyatām su pārśva-ūrum tri-pṛthum pañca saṃvṛtām . maṇḍūka-netrām su ākārām pīna-ūdha-sama-ninditām ..13..
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् । पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥१४॥
सुवालधिम् शङ्कु-कर्णाम् चारु-शृङ्गाम् मनोरमाम् । पुष्ट-आयत-शिरः-ग्रीवाम् विस्मितः सः अभिवीक्ष्य ताम् ॥१४॥
suvāladhim śaṅku-karṇām cāru-śṛṅgām manoramām . puṣṭa-āyata-śiraḥ-grīvām vismitaḥ saḥ abhivīkṣya tām ..14..
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् । अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥१५॥
अभिनन्दति ताम् नन्दीम् वसिष्ठस्य पयस्विनीम् । अब्रवीत् च भृशम् तुष्टः विश्वामित्रः मुनिम् तदा ॥१५॥
abhinandati tām nandīm vasiṣṭhasya payasvinīm . abravīt ca bhṛśam tuṣṭaḥ viśvāmitraḥ munim tadā ..15..
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः । नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥१६॥
अर्बुदेन गवाम् ब्रह्मन् मम राज्येन वा पुनर् । नन्दिनीम् सम्प्रयच्छस्व भुङ्क्ष्व राज्यम् महा-मुने ॥१६॥
arbudena gavām brahman mama rājyena vā punar . nandinīm samprayacchasva bhuṅkṣva rājyam mahā-mune ..16..
वसिष्ठ उवाच॥
देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी । अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥१७॥
देवता-अतिथि-पितृ-अर्थम् आज्य-अर्थम् च पयस्विनी । अदेया नन्दिनी इयम् मे राज्येन अपि तव अनघ ॥१७॥
devatā-atithi-pitṛ-artham ājya-artham ca payasvinī . adeyā nandinī iyam me rājyena api tava anagha ..17..
विश्वामित्र उवाच॥
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः । ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥१८॥
क्षत्रियः अहम् भवान् विप्रः तपः-स्वाध्याय-साधनः । ब्राह्मणेषु कुतस् वीर्यम् प्रशान्तेषु धृत-आत्मसु ॥१८॥
kṣatriyaḥ aham bhavān vipraḥ tapaḥ-svādhyāya-sādhanaḥ . brāhmaṇeṣu kutas vīryam praśānteṣu dhṛta-ātmasu ..18..
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् । स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥१९॥
अर्बुदेन गवाम् यः त्वम् न ददासि मम ईप्सिताम् । स्वधर्मम् न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥१९॥
arbudena gavām yaḥ tvam na dadāsi mama īpsitām . svadharmam na prahāsyāmi nayiṣye te balena gām ..19..
वसिष्ठ उवाच॥
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः । यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥२०॥
बलस्थः च असि राजा च बाहु-वीर्यः च क्षत्रियः । यथा इच्छसि तथा क्षिप्रम् कुरु त्वम् मा विचारय ॥२०॥
balasthaḥ ca asi rājā ca bāhu-vīryaḥ ca kṣatriyaḥ . yathā icchasi tathā kṣipram kuru tvam mā vicāraya ..20..
गन्धर्व उवाच॥
एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥२१॥
एवम् उक्तः तदा पार्थ विश्वामित्रः बलात् इव । हंस-चन्द्र-प्रतीकाशाम् नन्दिनीम् ताम् जहार गाम् ॥२१॥
evam uktaḥ tadā pārtha viśvāmitraḥ balāt iva . haṃsa-candra-pratīkāśām nandinīm tām jahāra gām ..21..
कशादण्डप्रतिहता काल्यमाना ततस्ततः । हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥२२॥
कशा-दण्ड-प्रतिहता काल्यमाना ततस् ततस् । हम्भायमाना कल्याणी वसिष्ठस्य अथ नन्दिनी ॥२२॥
kaśā-daṇḍa-pratihatā kālyamānā tatas tatas . hambhāyamānā kalyāṇī vasiṣṭhasya atha nandinī ..22..
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी । भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥२३॥
आगम्या अभिमुखी पार्थ तस्थौ भगवत्-उन्मुखी । भृशम् च ताड्यमाना अपि न जगाम आश्रमात् ततस् ॥२३॥
āgamyā abhimukhī pārtha tasthau bhagavat-unmukhī . bhṛśam ca tāḍyamānā api na jagāma āśramāt tatas ..23..
वसिष्ठ उवाच॥
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः । बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥२४॥
शृणोमि ते रवम् भद्रे विनदन्त्याः पुनर् पुनर् । मे नन्दि क्षमावान् ब्राह्मणः हि अहम् ॥२४॥
śṛṇomi te ravam bhadre vinadantyāḥ punar punar . me nandi kṣamāvān brāhmaṇaḥ hi aham ..24..
गन्धर्व उवाच॥
सा तु तेषां बलान्नन्दी बलानां भरतर्षभ । विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥२५॥
सा तु तेषाम् बलात् नन्दी बलानाम् भरत-ऋषभ । विश्वामित्र-भय-उद्विग्ना वसिष्ठम् समुपागमत् ॥२५॥
sā tu teṣām balāt nandī balānām bharata-ṛṣabha . viśvāmitra-bhaya-udvignā vasiṣṭham samupāgamat ..25..
गौरुवाच॥
पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् । विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥२६॥
पाषाण-दण्ड-अभिहताम् क्रन्दन्तीम् माम् अनाथ-वत् । विश्वामित्र-बलैः घोरैः भगवन् किम् उपेक्षसे ॥२६॥
pāṣāṇa-daṇḍa-abhihatām krandantīm mām anātha-vat . viśvāmitra-balaiḥ ghoraiḥ bhagavan kim upekṣase ..26..
गन्धर्व उवाच॥
एवं तस्यां तदा पर्थ धर्षितायां महामुनिः । न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥२७॥
एवम् तस्याम् तदा धर्षितायाम् महा-मुनिः । न चुक्षुभे न धैर्यात् च विचचाल धृत-व्रतः ॥२७॥
evam tasyām tadā dharṣitāyām mahā-muniḥ . na cukṣubhe na dhairyāt ca vicacāla dhṛta-vrataḥ ..27..
वसिष्ठ उवाच॥
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् । क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ॥२८॥
क्षत्रियाणाम् बलम् तेजः ब्राह्मणानाम् क्षमा बलम् । क्षमाः माम् भजते तस्मात् गम्यताम् यदि रोचते ॥२८॥
kṣatriyāṇām balam tejaḥ brāhmaṇānām kṣamā balam . kṣamāḥ mām bhajate tasmāt gamyatām yadi rocate ..28..
गौरुवाच॥
किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे । अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥२९॥
किम् नु त्यक्ता अस्मि भगवन् यत् एवम् माम् प्रभाषसे । अत्यक्ता अहम् त्वया ब्रह्मन् न शक्या नयितुम् बलात् ॥२९॥
kim nu tyaktā asmi bhagavan yat evam mām prabhāṣase . atyaktā aham tvayā brahman na śakyā nayitum balāt ..29..
वसिष्ठ उवाच॥
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते । दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥३०॥
न त्वाम् त्यजामि कल्याणि स्थीयताम् यदि शक्यते । दृढेन दाम्ना बद्ध्वा एष वत्सः ते ह्रियते बलात् ॥३०॥
na tvām tyajāmi kalyāṇi sthīyatām yadi śakyate . dṛḍhena dāmnā baddhvā eṣa vatsaḥ te hriyate balāt ..30..
गन्धर्व उवाच॥
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी । ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥३१॥
स्थीयताम् इति तत् श्रुत्वा वसिष्ठस्य पयस्विनी । ऊर्ध्व-आञ्चित-शिरः-ग्रीवा प्रबभौ घोर-दर्शना ॥३१॥
sthīyatām iti tat śrutvā vasiṣṭhasya payasvinī . ūrdhva-āñcita-śiraḥ-grīvā prababhau ghora-darśanā ..31..
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना । विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥३२॥
क्रोध-रक्त-ईक्षणा सा गौः हम्भा-रव-घन-स्वना । विश्वामित्रस्य तत् सैन्यम् व्यद्रावयत सर्वशस् ॥३२॥
krodha-rakta-īkṣaṇā sā gauḥ hambhā-rava-ghana-svanā . viśvāmitrasya tat sainyam vyadrāvayata sarvaśas ..32..
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः । क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥३३॥
कशा-अग्र-दण्ड-अभिहता काल्यमाना ततस् ततस् । क्रोध-दीप्त-ईक्षणा क्रोधम् भूयस् एव समादधे ॥३३॥
kaśā-agra-daṇḍa-abhihatā kālyamānā tatas tatas . krodha-dīpta-īkṣaṇā krodham bhūyas eva samādadhe ..33..
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ । अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥३४॥
आदित्यः इव मध्याह्ने क्रोध-दीप्त-वपुः बभौ । अङ्गार-वर्षम् मुञ्चन्ती मुहुर् वालधितः महत् ॥३४॥
ādityaḥ iva madhyāhne krodha-dīpta-vapuḥ babhau . aṅgāra-varṣam muñcantī muhur vāladhitaḥ mahat ..34..
असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् । मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥३५॥
असृजत् पह्लवान् पुच्छात् शकृतः शबरान् शकान् । मूत्रतः च असृजत् च अपि यवनान् क्रोध-मूर्च्छिता ॥३५॥
asṛjat pahlavān pucchāt śakṛtaḥ śabarān śakān . mūtrataḥ ca asṛjat ca api yavanān krodha-mūrcchitā ..35..
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा । तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥३६॥
पुण्ड्रान् किरातान् द्रमिडान् सिंहलान् बर्बरान् तथा । तथा एव दरदान् म्लेच्छान् फेनतः सा ससर्ज ह ॥३६॥
puṇḍrān kirātān dramiḍān siṃhalān barbarān tathā . tathā eva daradān mlecchān phenataḥ sā sasarja ha ..36..
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा । नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ॥३७॥ ( अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥३७॥ )
तैः विसृष्टैः महत् सैन्यम् नाना म्लेच्छ-गणैः तदा । नाना आवरण-सञ्छन्नैः नाना आयुध-धरैः तथा ॥३७॥ ( अवाकीर्यत संरब्धैः विश्वामित्रस्य पश्यतः ॥३७॥ )
taiḥ visṛṣṭaiḥ mahat sainyam nānā mleccha-gaṇaiḥ tadā . nānā āvaraṇa-sañchannaiḥ nānā āyudha-dharaiḥ tathā ..37.. ( avākīryata saṃrabdhaiḥ viśvāmitrasya paśyataḥ ..37.. )
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः । अस्त्रवर्षेण महता काल्यमानं बलं ततः ॥३८॥ ( प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥३८॥ )
एकैकः च तदा योधः पञ्चभिः सप्तभिः वृतः । अस्त्र-वर्षेण महता काल्यमानम् बलम् ततस् ॥३८॥ ( प्रभग्नम् सर्वतस् त्रस्तम् विश्वामित्रस्य पश्यतः ॥३८॥ )
ekaikaḥ ca tadā yodhaḥ pañcabhiḥ saptabhiḥ vṛtaḥ . astra-varṣeṇa mahatā kālyamānam balam tatas ..38.. ( prabhagnam sarvatas trastam viśvāmitrasya paśyataḥ ..38.. )
न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा । विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥३९॥
न च प्राणैः वियुज्यन्त केचिद् ते सैनिकाः तदा । विश्वामित्रस्य सङ्क्रुद्धैः वासिष्ठैः भरत-ऋषभ ॥३९॥
na ca prāṇaiḥ viyujyanta kecid te sainikāḥ tadā . viśvāmitrasya saṅkruddhaiḥ vāsiṣṭhaiḥ bharata-ṛṣabha ..39..
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् । क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥४०॥
विश्वामित्रस्य सैन्यम् तु काल्यमानम् त्रि-योजनम् । क्रोशमानम् भय-उद्विग्नम् त्रातारम् न अध्यगच्छत ॥४०॥
viśvāmitrasya sainyam tu kālyamānam tri-yojanam . krośamānam bhaya-udvignam trātāram na adhyagacchata ..40..
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥४१॥
दृष्ट्वा तत् महत् आश्चर्यम् ब्रह्म-तेजः-भवम् तदा । विश्वामित्रः क्षत्र-भावात् निर्विण्णः वाक्यम् अब्रवीत् ॥४१॥
dṛṣṭvā tat mahat āścaryam brahma-tejaḥ-bhavam tadā . viśvāmitraḥ kṣatra-bhāvāt nirviṇṇaḥ vākyam abravīt ..41..
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । बलाबलं विनिश्चित्य तप एव परं बलम् ॥४२॥
धिक् बलम् क्षत्रिय-बलम् ब्रह्म-तेजः-बलम् बलम् । बल-अबलम् विनिश्चित्य तपः एव परम् बलम् ॥४२॥
dhik balam kṣatriya-balam brahma-tejaḥ-balam balam . bala-abalam viniścitya tapaḥ eva param balam ..42..
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् । भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥४३॥
स राज्यम् स्फीतम् उत्सृज्य ताम् च दीप्ताम् नृप-श्रियम् । भोगान् च पृष्ठतस् कृत्वा तपसि एव मनः दधे ॥४३॥
sa rājyam sphītam utsṛjya tām ca dīptām nṛpa-śriyam . bhogān ca pṛṣṭhatas kṛtvā tapasi eva manaḥ dadhe ..43..
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा । तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ॥४४॥ ( अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥४४॥1.174.48 )
स गत्वा तपसा सिद्धिम् लोकान् विष्टभ्य तेजसा । तताप सर्वान् दीप्त-ओजाः ब्राह्मण-त्वम् अवाप च ॥४४॥ ( अपिबत् च सुतम् सोमम् इन्द्रेण सह कौशिकः ॥४४॥१।१७४।४८ )
sa gatvā tapasā siddhim lokān viṣṭabhya tejasā . tatāpa sarvān dīpta-ojāḥ brāhmaṇa-tvam avāpa ca ..44.. ( apibat ca sutam somam indreṇa saha kauśikaḥ ..44..1.174.48 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In