| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह । इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥१॥
कल्माषपादः इति अस्मिन् लोके राजा बभूव ह । इक्ष्वाकु-वंश-जः पार्थ तेजसा असदृशः भुवि ॥१॥
kalmāṣapādaḥ iti asmin loke rājā babhūva ha . ikṣvāku-vaṃśa-jaḥ pārtha tejasā asadṛśaḥ bhuvi ..1..
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् । मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥२॥
स कदाचिद् वनम् राजा मृगयाम् निर्ययौ पुरात् । मृगान् विध्यन् वराहान् च चचार रिपु-मर्दनः ॥२॥
sa kadācid vanam rājā mṛgayām niryayau purāt . mṛgān vidhyan varāhān ca cacāra ripu-mardanaḥ ..2..
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् । तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥३॥
स तु राजा महात्मानम् वासिष्ठम् ऋषि-सत्तमम् । तृषा-आर्तः च क्षुधा-आर्तः च एकायन-गतः पथि ॥३॥
sa tu rājā mahātmānam vāsiṣṭham ṛṣi-sattamam . tṛṣā-ārtaḥ ca kṣudhā-ārtaḥ ca ekāyana-gataḥ pathi ..3..
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् । शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ॥४॥ ( ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥४॥ )
अपश्यत् अजितः सङ्ख्ये मुनिम् प्रतिमुख-आगतम् । शक्तिम् नाम महाभागम् वसिष्ठ-कुल-नन्दनम् ॥४॥ ( ज्येष्ठम् पुत्र-शतात् पुत्रम् वसिष्ठस्य महात्मनः ॥४॥ )
apaśyat ajitaḥ saṅkhye munim pratimukha-āgatam . śaktim nāma mahābhāgam vasiṣṭha-kula-nandanam ..4.. ( jyeṣṭham putra-śatāt putram vasiṣṭhasya mahātmanaḥ ..4.. )
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् । तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥५॥
अपगच्छ पथः अस्माकम् इति एवम् पार्थिवः अब्रवीत् । तथा ऋषिः उवाच एनम् सान्त्वयन् श्लक्ष्णया गिरा ॥५॥
apagaccha pathaḥ asmākam iti evam pārthivaḥ abravīt . tathā ṛṣiḥ uvāca enam sāntvayan ślakṣṇayā girā ..5..
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः । नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥६॥
ऋषिः तु न अपचक्राम तस्मिन् धर्म-पथे स्थितः । ना अपि राजा मुनेः मानात् क्रोधात् च अपि जगाम ह ॥६॥
ṛṣiḥ tu na apacakrāma tasmin dharma-pathe sthitaḥ . nā api rājā muneḥ mānāt krodhāt ca api jagāma ha ..6..
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः । जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥७॥
अमुञ्चन्तम् तु पन्थानम् तम् ऋषिम् नृप-सत्तमः । जघान कशया मोहात् तदा राक्षस-वत् मुनिम् ॥७॥
amuñcantam tu panthānam tam ṛṣim nṛpa-sattamaḥ . jaghāna kaśayā mohāt tadā rākṣasa-vat munim ..7..
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः । तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥८॥
कशा-प्रहार-अभिहतः ततस् स मुनि-सत्तमः । तम् शशाप नृप-श्रेष्ठम् वासिष्ठः क्रोध-मूर्च्छितः ॥८॥
kaśā-prahāra-abhihataḥ tatas sa muni-sattamaḥ . tam śaśāpa nṛpa-śreṣṭham vāsiṣṭhaḥ krodha-mūrcchitaḥ ..8..
हंसि राक्षसवद्यस्माद्राजापसद तापसम् । तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥९॥
हंसि राक्षस-वत् यस्मात् राज-अपसद तापसम् । तस्मात् त्वम् अद्य प्रभृति पुरुषादः भविष्यसि ॥९॥
haṃsi rākṣasa-vat yasmāt rāja-apasada tāpasam . tasmāt tvam adya prabhṛti puruṣādaḥ bhaviṣyasi ..9..
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् । गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥१०॥
मनुष्य-पिशिते सक्तः चरिष्यसि महीम् इमाम् । गच्छ राज-अधम इति उक्तः शक्तिना वीर्य-शक्तिना ॥१०॥
manuṣya-piśite saktaḥ cariṣyasi mahīm imām . gaccha rāja-adhama iti uktaḥ śaktinā vīrya-śaktinā ..10..
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः । वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥११॥
ततस् याज्य-निमित्तम् तु विश्वामित्र-वसिष्ठयोः । वैरम् आसीत् तदा तम् तु विश्वामित्रः अन्वपद्यत ॥११॥
tatas yājya-nimittam tu viśvāmitra-vasiṣṭhayoḥ . vairam āsīt tadā tam tu viśvāmitraḥ anvapadyata ..11..
तयोर्विवदतोरेवं समीपमुपचक्रमे । ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥१२॥
तयोः विवदतोः एवम् समीपम् उपचक्रमे । ऋषिः उग्र-तपाः पार्थ विश्वामित्रः प्रतापवान् ॥१२॥
tayoḥ vivadatoḥ evam samīpam upacakrame . ṛṣiḥ ugra-tapāḥ pārtha viśvāmitraḥ pratāpavān ..12..
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः । ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥१३॥
ततस् स बुबुधे पश्चात् तम् ऋषिम् नृप-सत्तमः । ऋषेः पुत्रम् वसिष्ठस्य वसिष्ठम् इव तेजसा ॥१३॥
tatas sa bubudhe paścāt tam ṛṣim nṛpa-sattamaḥ . ṛṣeḥ putram vasiṣṭhasya vasiṣṭham iva tejasā ..13..
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत । तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥१४॥
अन्तर्धाय तदा आत्मानम् विश्वामित्रः अपि भारत । तौ उभौ उपचक्राम चिकीर्षन् आत्मनः प्रियम् ॥१४॥
antardhāya tadā ātmānam viśvāmitraḥ api bhārata . tau ubhau upacakrāma cikīrṣan ātmanaḥ priyam ..14..
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः । जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥१५॥
स तु शप्तः तदा तेन शक्तिना वै नृप-उत्तमः । जगाम शरणम् शक्तिम् प्रसादयितुम् अर्हयन् ॥१५॥
sa tu śaptaḥ tadā tena śaktinā vai nṛpa-uttamaḥ . jagāma śaraṇam śaktim prasādayitum arhayan ..15..
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन । विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥१६॥
तस्य भावम् विदित्वा स नृपतेः कुरु-नन्दन । विश्वामित्रः ततस् रक्षः आदिदेश नृपम् प्रति ॥१६॥
tasya bhāvam viditvā sa nṛpateḥ kuru-nandana . viśvāmitraḥ tatas rakṣaḥ ādideśa nṛpam prati ..16..
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया । राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥१७॥
स शापात् तस्य विप्रर्षेः विश्वामित्रस्य च आज्ञया । राक्षसः किङ्करः नाम विवेश नृपतिम् तदा ॥१७॥
sa śāpāt tasya viprarṣeḥ viśvāmitrasya ca ājñayā . rākṣasaḥ kiṅkaraḥ nāma viveśa nṛpatim tadā ..17..
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा । विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥१८॥
रक्षसा तु गृहीतम् तम् विदित्वा स मुनिः तदा । विश्वामित्रः अपि अपक्रामत् तस्मात् देशात् अरिंदम ॥१८॥
rakṣasā tu gṛhītam tam viditvā sa muniḥ tadā . viśvāmitraḥ api apakrāmat tasmāt deśāt ariṃdama ..18..
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना । बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥१९॥
ततस् स नृपतिः विद्वान् रक्षन् आत्मानम् आत्मना । बलवत् पीड्यमानः अपि रक्षसा अन्तर्गतेन ह ॥१९॥
tatas sa nṛpatiḥ vidvān rakṣan ātmānam ātmanā . balavat pīḍyamānaḥ api rakṣasā antargatena ha ..19..
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः । ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥२०॥
ददर्श तम् द्विजः कश्चिद् राजानम् प्रस्थितम् पुनर् । ययाचे क्षुधितः च एनम् स मांसम् भोजनम् तदा ॥२०॥
dadarśa tam dvijaḥ kaścid rājānam prasthitam punar . yayāce kṣudhitaḥ ca enam sa māṃsam bhojanam tadā ..20..
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा । आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥२१॥
तम् उवाच अथ राजर्षिः द्विजम् मित्रसहः तदा । आस्स्व ब्रह्मन् त्वम् अत्रा एव मुहूर्तम् इति सान्त्वयन् ॥२१॥
tam uvāca atha rājarṣiḥ dvijam mitrasahaḥ tadā . āssva brahman tvam atrā eva muhūrtam iti sāntvayan ..21..
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् । इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥२२॥
निवृत्तः प्रतिदास्यामि भोजनम् ते यथा ईप्सितम् । इति उक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥२२॥
nivṛttaḥ pratidāsyāmi bhojanam te yathā īpsitam . iti uktvā prayayau rājā tasthau ca dvijasattamaḥ ..22..
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् । सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥२३॥
अन्तर्गतम् तु तत् राज्ञः तदा ब्राह्मण-भाषितम् । सः अन्तःपुरम् प्रविश्य अथ संविवेश नराधिपः ॥२३॥
antargatam tu tat rājñaḥ tadā brāhmaṇa-bhāṣitam . saḥ antaḥpuram praviśya atha saṃviveśa narādhipaḥ ..23..
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् । उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥२४॥
ततस् अर्धरात्रे उत्थाय सूदम् आनाय्य सत्वरम् । उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥२४॥
tatas ardharātre utthāya sūdam ānāyya satvaram . uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam ..24..
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते । अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥२५॥
गच्छ अमुष्मिन् असौ देशे ब्राह्मणः माम् प्रतीक्षते । अन्न-अर्थी त्वम् तम् अन्नेन स मांसेन उपपादय ॥२५॥
gaccha amuṣmin asau deśe brāhmaṇaḥ mām pratīkṣate . anna-arthī tvam tam annena sa māṃsena upapādaya ..25..
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् । निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥२६॥
एवम् उक्तः तदा सूदः सः अन् आसाद्य आमिषम् क्वचिद् । निवेदयामास तदा तस्मै राज्ञे व्यथा-अन्वितः ॥२६॥
evam uktaḥ tadā sūdaḥ saḥ an āsādya āmiṣam kvacid . nivedayāmāsa tadā tasmai rājñe vyathā-anvitaḥ ..26..
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः । अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥२७॥
राजा तु रक्षसा आविष्टः सूदम् आह गत-व्यथः । अपि एनम् नर-मांसेन भोजय इति पुनर् पुनर् ॥२७॥
rājā tu rakṣasā āviṣṭaḥ sūdam āha gata-vyathaḥ . api enam nara-māṃsena bhojaya iti punar punar ..27..
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् । गत्वा जहार त्वरितो नरमांसमपेतभीः ॥२८॥
तथा इति उक्त्वा ततस् सूदः संस्थानम् वध्य-घातिनाम् । गत्वा जहार त्वरितः नर-मांसम् अपेत-भीः ॥२८॥
tathā iti uktvā tatas sūdaḥ saṃsthānam vadhya-ghātinām . gatvā jahāra tvaritaḥ nara-māṃsam apeta-bhīḥ ..28..
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै । तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥२९॥
स तत् संस्कृत्य विधिवत् अन्न-उपहितम् आशु वै । तस्मै प्रादात् ब्राह्मणाय क्षुधिताय तपस्विने ॥२९॥
sa tat saṃskṛtya vidhivat anna-upahitam āśu vai . tasmai prādāt brāhmaṇāya kṣudhitāya tapasvine ..29..
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः । अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥३०॥
स सिद्ध-चक्षुषा दृष्ट्वा तत् अन्नम् द्विजसत्तमः । अभोज्यम् इदम् इति आह क्रोध-पर्याकुल-ईक्षणः ॥३०॥
sa siddha-cakṣuṣā dṛṣṭvā tat annam dvijasattamaḥ . abhojyam idam iti āha krodha-paryākula-īkṣaṇaḥ ..30..
यस्मादभोज्यमन्नं मे ददाति स नराधिपः । तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥३१॥
यस्मात् अभोज्यम् अन्नम् मे ददाति स नराधिपः । तस्मात् तस्य एव मूढस्य भविष्यति अत्र लोलुपा ॥३१॥
yasmāt abhojyam annam me dadāti sa narādhipaḥ . tasmāt tasya eva mūḍhasya bhaviṣyati atra lolupā ..31..
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा । उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥३२॥
सक्तः मानुष-मांसेषु यथा उक्तः शक्तिना पुरा । उद्वेजनीयः भूतानाम् चरिष्यति महीम् इमाम् ॥३२॥
saktaḥ mānuṣa-māṃseṣu yathā uktaḥ śaktinā purā . udvejanīyaḥ bhūtānām cariṣyati mahīm imām ..32..
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् । रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा ॥३३॥
द्विस् अनुव्याहृते राज्ञः स शापः बलवान् अभूत् । रक्षः-बल-समाविष्टः विसञ्ज्ञः च अभवत् तदा ॥३३॥
dvis anuvyāhṛte rājñaḥ sa śāpaḥ balavān abhūt . rakṣaḥ-bala-samāviṣṭaḥ visañjñaḥ ca abhavat tadā ..33..
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः । उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥३४॥
ततस् स नृपति-श्रेष्ठः राक्षस-उपहत-इन्द्रियः । उवाच शक्तिम् तम् दृष्ट्वा नचिरात् इव भारत ॥३४॥
tatas sa nṛpati-śreṣṭhaḥ rākṣasa-upahata-indriyaḥ . uvāca śaktim tam dṛṣṭvā nacirāt iva bhārata ..34..
यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि । तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥३५॥
यस्मात् असदृशः शापः प्रयुक्तः अयम् त्वया मयि । तस्मात् त्वत्तः प्रवर्तिष्ये खादितुम् मानुषान् अहम् ॥३५॥
yasmāt asadṛśaḥ śāpaḥ prayuktaḥ ayam tvayā mayi . tasmāt tvattaḥ pravartiṣye khāditum mānuṣān aham ..35..
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः । शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥३६॥
एवम् उक्त्वा ततस् सद्यस् तम् प्राणैः विप्रयुज्य सः । शक्तिनम् भक्षयामास व्याघ्रः पशुम् इव ईप्सितम् ॥३६॥
evam uktvā tatas sadyas tam prāṇaiḥ viprayujya saḥ . śaktinam bhakṣayāmāsa vyāghraḥ paśum iva īpsitam ..36..
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः । वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥३७॥
शक्तिनम् तु हतम् दृष्ट्वा विश्वामित्रः ततस् पुनर् । वसिष्ठस्य एव पुत्रेषु तत् रक्षः संदिदेश ह ॥३७॥
śaktinam tu hatam dṛṣṭvā viśvāmitraḥ tatas punar . vasiṣṭhasya eva putreṣu tat rakṣaḥ saṃdideśa ha ..37..
स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः । भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ॥३८॥
स तान् शत-अवरान् पुत्रान् वसिष्ठस्य महात्मनः । भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्र-मृगान् इव ॥३८॥
sa tān śata-avarān putrān vasiṣṭhasya mahātmanaḥ . bhakṣayāmāsa saṅkruddhaḥ siṃhaḥ kṣudra-mṛgān iva ..38..
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् । धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥३९॥
वसिष्ठः घातितान् श्रुत्वा विश्वामित्रेण तान् सुतान् । धारयामास तम् शोकम् महा-अद्रिः इव मेदिनीम् ॥३९॥
vasiṣṭhaḥ ghātitān śrutvā viśvāmitreṇa tān sutān . dhārayāmāsa tam śokam mahā-adriḥ iva medinīm ..39..
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः । न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥४०॥
चक्रे च आत्म-विनाशाय बुद्धिम् स मुनि-सत्तमः । न तु एव कुशिक-उच्छेदम् मेने मतिमताम् वरः ॥४०॥
cakre ca ātma-vināśāya buddhim sa muni-sattamaḥ . na tu eva kuśika-ucchedam mene matimatām varaḥ ..40..
स मेरुकूटादात्मानं मुमोच भगवानृषिः । शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥४१॥
स मेरु-कूटात् आत्मानम् मुमोच भगवान् ऋषिः । शिरः तस्य शिलायाम् च तूल-राशौ इव अपतत् ॥४१॥
sa meru-kūṭāt ātmānam mumoca bhagavān ṛṣiḥ . śiraḥ tasya śilāyām ca tūla-rāśau iva apatat ..41..
न ममार च पातेन स यदा तेन पाण्डव । तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥४२॥
न ममार च पातेन स यदा तेन पाण्डव । तदा अग्निम् इद्ध्वा भगवान् संविवेश महा-वने ॥४२॥
na mamāra ca pātena sa yadā tena pāṇḍava . tadā agnim iddhvā bhagavān saṃviveśa mahā-vane ..42..
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः । दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥४३॥
तम् तदा सु समिद्धः अपि न ददाह हुताशनः । दीप्यमानः अपि अमित्र-घ्न शीतः अग्निः अभवत् ततस् ॥४३॥
tam tadā su samiddhaḥ api na dadāha hutāśanaḥ . dīpyamānaḥ api amitra-ghna śītaḥ agniḥ abhavat tatas ..43..
स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः । बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥४४॥
स समुद्रम् अभिप्रेत्य शोक-आविष्टः महा-मुनिः । बद्ध्वा कण्ठे शिलाम् गुर्वीम् निपपात तद्-अम्भसि ॥४४॥
sa samudram abhipretya śoka-āviṣṭaḥ mahā-muniḥ . baddhvā kaṇṭhe śilām gurvīm nipapāta tad-ambhasi ..44..
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः । जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥४५॥1.175.49
स समुद्र-ऊर्मि-वेगेन स्थले न्यस्तः महा-मुनिः । जगाम स ततस् खिन्नः पुनर् एव आश्रमम् प्रति ॥४५॥१।१७५।४९
sa samudra-ūrmi-vegena sthale nyastaḥ mahā-muniḥ . jagāma sa tatas khinnaḥ punar eva āśramam prati ..45..1.175.49

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In