| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः । निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥१॥
ततस् दृष्ट्वा आश्रम-पदम् रहितम् तैः सुतैः मुनिः । निर्जगाम सु दुःख-आर्तः पुनर् एव आश्रमात् ततस् ॥१॥
tatas dṛṣṭvā āśrama-padam rahitam taiḥ sutaiḥ muniḥ . nirjagāma su duḥkha-ārtaḥ punar eva āśramāt tatas ..1..
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा । वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ॥२॥
सः अपश्यत् सरितम् पूर्णाम् प्रावृष्-काले नव-अम्भसा । वृक्षान् बहुविधान् पार्थ वहन्तीम् तीरजान् बहून् ॥२॥
saḥ apaśyat saritam pūrṇām prāvṛṣ-kāle nava-ambhasā . vṛkṣān bahuvidhān pārtha vahantīm tīrajān bahūn ..2..
अथ चिन्तां समापेदे पुनः पौरवनन्दन । अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥३॥
अथ चिन्ताम् समापेदे पुनर् पौरव-नन्दन । अम्भसि अस्याः निमज्जेयम् इति दुःख-समन्वितः ॥३॥
atha cintām samāpede punar paurava-nandana . ambhasi asyāḥ nimajjeyam iti duḥkha-samanvitaḥ ..3..
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः । तस्या जले महानद्या निममज्ज सुदुःखितः ॥४॥
ततस् पाशैः तद्-आत्मानम् गाढम् बद्ध्वा महा-मुनिः । तस्याः जले महा-नद्याः निममज्ज सु दुःखितः ॥४॥
tatas pāśaiḥ tad-ātmānam gāḍham baddhvā mahā-muniḥ . tasyāḥ jale mahā-nadyāḥ nimamajja su duḥkhitaḥ ..4..
अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन । समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥५॥
अथ छित्त्वा नदी पाशान् तस्य अरि-बल-मर्दन । समस्थम् तम् ऋषिम् कृत्वा विपाशम् समवासृजत् ॥५॥
atha chittvā nadī pāśān tasya ari-bala-mardana . samastham tam ṛṣim kṛtvā vipāśam samavāsṛjat ..5..
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः । विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥६॥
उत्ततार ततस् पाशैः विमुक्तः स महान् ऋषिः । विपाशा इति च नाम अस्याः नद्याः चक्रे महान् ऋषिः ॥६॥
uttatāra tatas pāśaiḥ vimuktaḥ sa mahān ṛṣiḥ . vipāśā iti ca nāma asyāḥ nadyāḥ cakre mahān ṛṣiḥ ..6..
शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत । सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥७॥
शोके बुद्धिम् ततस् चक्रे न च एकत्र व्यतिष्ठत । सः अगच्छत् पर्वतान् च एव सरितः च सरांसि च ॥७॥
śoke buddhim tatas cakre na ca ekatra vyatiṣṭhata . saḥ agacchat parvatān ca eva saritaḥ ca sarāṃsi ca ..7..
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा । चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ॥८॥
ततस् स पुनर् एव ऋषिः नदीम् हैमवतीम् तदा । चण्ड-ग्राहवतीम् दृष्ट्वा तस्याः स्रोतसि अवापतत् ॥८॥
tatas sa punar eva ṛṣiḥ nadīm haimavatīm tadā . caṇḍa-grāhavatīm dṛṣṭvā tasyāḥ srotasi avāpatat ..8..
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा । शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥९॥
सा तम् अग्नि-समम् विप्रम् अनुचिन्त्य सरित्-वरा । शतधा विद्रुता यस्मात् शतद्रुः इति विश्रुता ॥९॥
sā tam agni-samam vipram anucintya sarit-varā . śatadhā vidrutā yasmāt śatadruḥ iti viśrutā ..9..
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना । मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ॥१०॥
ततस् स्थल-गतम् दृष्ट्वा तत्र अपि आत्मानम् आत्मना । मर्तुम् न शक्यम् इति उक्त्वा पुनर् एव आश्रमम् ययौ ॥१०॥
tatas sthala-gatam dṛṣṭvā tatra api ātmānam ātmanā . martum na śakyam iti uktvā punar eva āśramam yayau ..10..
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् । अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् ॥११॥ ( पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् ॥११॥ )
वध्वा अदृश्यन्त्या अनुगतः आश्रम-अभिमुखः व्रजन् । अथ शुश्राव सङ्गत्या वेद-अध्ययन-निःस्वनम् ॥११॥ ( पृष्ठतस् परिपूर्ण-अर्थैः षड्भिः अङ्गैः अलङ्कृतम् ॥११॥ )
vadhvā adṛśyantyā anugataḥ āśrama-abhimukhaḥ vrajan . atha śuśrāva saṅgatyā veda-adhyayana-niḥsvanam ..11.. ( pṛṣṭhatas paripūrṇa-arthaiḥ ṣaḍbhiḥ aṅgaiḥ alaṅkṛtam ..11.. )
अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् । अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ॥१२॥ ( शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ॥१२॥ )
अनुव्रजति कः नु एष माम् इति एव च सः अब्रवीत् । अहम् तु अदृश्यती नाम्ना तम् स्नुषा प्रत्यभाषत ॥१२॥ ( शक्तेः भार्या महाभाग तपः-युक्ता तपस्विनी ॥१२॥ )
anuvrajati kaḥ nu eṣa mām iti eva ca saḥ abravīt . aham tu adṛśyatī nāmnā tam snuṣā pratyabhāṣata ..12.. ( śakteḥ bhāryā mahābhāga tapaḥ-yuktā tapasvinī ..12.. )
वसिष्ठ उवाच॥
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः । पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥१३॥
पुत्रि कस्य एष स अङ्गस्य वेदस्य अध्ययन-स्वनः । पुरा साङ्गस्य वेदस्य शक्तेः इव मया श्रुतः ॥१३॥
putri kasya eṣa sa aṅgasya vedasya adhyayana-svanaḥ . purā sāṅgasya vedasya śakteḥ iva mayā śrutaḥ ..13..
अदृश्यन्त्युवाच॥
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते । समा द्वादश तस्येह वेदानभ्यसतो मुने ॥१४॥
अयम् कुक्षौ समुत्पन्नः शक्तेः गर्भः सुतस्य ते । समाः द्वादश तस्य इह वेदान् अभ्यसतः मुने ॥१४॥
ayam kukṣau samutpannaḥ śakteḥ garbhaḥ sutasya te . samāḥ dvādaśa tasya iha vedān abhyasataḥ mune ..14..
गन्धर्व उवाच॥
एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः । अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥१५॥
एवम् उक्तः ततस् हृष्टः वसिष्ठः श्रेष्ठ-भागृषिः । अस्ति सन्तानम् इति उक्त्वा मृत्योः पार्थ न्यवर्तत ॥१५॥
evam uktaḥ tatas hṛṣṭaḥ vasiṣṭhaḥ śreṣṭha-bhāgṛṣiḥ . asti santānam iti uktvā mṛtyoḥ pārtha nyavartata ..15..
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ । कल्माषपादमासीनं ददर्श विजने वने ॥१६॥
ततस् प्रतिनिवृत्तः स तया वध्वा सह अनघ । कल्माषपादम् आसीनम् ददर्श विजने वने ॥१६॥
tatas pratinivṛttaḥ sa tayā vadhvā saha anagha . kalmāṣapādam āsīnam dadarśa vijane vane ..16..
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत । आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ॥१७॥
स तु दृष्ट्वा एव तम् राजा क्रुद्धः उत्थाय भारत । आविष्टः रक्षसा उग्रेण इयेष अत्तुम् ततस् स्म तम् ॥१७॥
sa tu dṛṣṭvā eva tam rājā kruddhaḥ utthāya bhārata . āviṣṭaḥ rakṣasā ugreṇa iyeṣa attum tatas sma tam ..17..
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः । भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥१८॥
अदृश्यन्ती तु तम् दृष्ट्वा क्रूर-कर्माणम् अग्रतस् । भय-संविग्नया वाचा वसिष्ठम् इदम् अब्रवीत् ॥१८॥
adṛśyantī tu tam dṛṣṭvā krūra-karmāṇam agratas . bhaya-saṃvignayā vācā vasiṣṭham idam abravīt ..18..
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः । प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ॥१९॥
असौ मृत्युः इव उग्रेण दण्डेन भगवन् इतस् । प्रगृहीतेन काष्ठेन राक्षसः अभ्येति भीषणः ॥१९॥
asau mṛtyuḥ iva ugreṇa daṇḍena bhagavan itas . pragṛhītena kāṣṭhena rākṣasaḥ abhyeti bhīṣaṇaḥ ..19..
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन । त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥२०॥
तम् निवारयितुम् शक्तः न अन्यः अस्ति भुवि कश्चन । त्वत् ऋते अद्य महाभाग सर्व-वेद-विदाम् वर ॥२०॥
tam nivārayitum śaktaḥ na anyaḥ asti bhuvi kaścana . tvat ṛte adya mahābhāga sarva-veda-vidām vara ..20..
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् । रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ॥२१॥1.176.22
त्राहि माम् भगवन् पापात् अस्मात् दारुण-दर्शनात् । रक्षः अत्तुम् इह हि आवाम् नूनम् एतत् चिकीर्षति ॥२१॥१।१७६।२२
trāhi mām bhagavan pāpāt asmāt dāruṇa-darśanāt . rakṣaḥ attum iha hi āvām nūnam etat cikīrṣati ..21..1.176.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In