| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वसिष्ठ उवाच॥
मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथञ्चन । नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥१॥1.176.23
मा भैः पुत्रि न भेतव्यम् रक्षसः ते कथञ्चन । न एतत् रक्षः भयम् यस्मात् पश्यसि त्वम् उपस्थितम् ॥१॥१।१७६।२३
mā bhaiḥ putri na bhetavyam rakṣasaḥ te kathañcana . na etat rakṣaḥ bhayam yasmāt paśyasi tvam upasthitam ..1..1.176.23
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि । स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥२॥
राजा कल्माषपादः अयम् वीर्यवान् प्रथितः भुवि । सः एषः अस्मिन् वन-उद्देशे निवसति अति भीषणः ॥२॥
rājā kalmāṣapādaḥ ayam vīryavān prathitaḥ bhuvi . saḥ eṣaḥ asmin vana-uddeśe nivasati ati bhīṣaṇaḥ ..2..
गन्धर्व उवाच॥
तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः । वारयामास तेजस्वी हुङ्करेणैव भारत ॥३॥
तम् आपतन्तम् सम्प्रेक्ष्य वसिष्ठः भगवान् ऋषिः । वारयामास तेजस्वी हुङ्करेण एव भारत ॥३॥
tam āpatantam samprekṣya vasiṣṭhaḥ bhagavān ṛṣiḥ . vārayāmāsa tejasvī huṅkareṇa eva bhārata ..3..
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा । मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ॥४॥
मन्त्र-पूतेन च पुनर् स तम् अभ्युक्ष्य वारिणा । मोक्षयामास वै घोर-द्राक्षसात् राज-सत्तमम् ॥४॥
mantra-pūtena ca punar sa tam abhyukṣya vāriṇā . mokṣayāmāsa vai ghora-drākṣasāt rāja-sattamam ..4..
स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा । ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ॥५॥
स हि द्वादश वर्षाणि वसिष्ठस्य एव तेजसा । ग्रस्तः आसीत् गृहेण इव पर्व-काले दिवाकरः ॥५॥
sa hi dvādaśa varṣāṇi vasiṣṭhasya eva tejasā . grastaḥ āsīt gṛheṇa iva parva-kāle divākaraḥ ..5..
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् । तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः ॥६॥
रक्षसा विप्रमुक्तः अथ स नृपः तत् वनम् महत् । तेजसा रञ्जयामास सन्ध्या-अभ्रम् इव भास्करः ॥६॥
rakṣasā vipramuktaḥ atha sa nṛpaḥ tat vanam mahat . tejasā rañjayāmāsa sandhyā-abhram iva bhāskaraḥ ..6..
प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः । उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥७॥
प्रतिलभ्य ततस् सञ्ज्ञाम् अभिवाद्य कृताञ्जलिः । उवाच नृपतिः काले वसिष्ठम् ऋषि-सत्तमम् ॥७॥
pratilabhya tatas sañjñām abhivādya kṛtāñjaliḥ . uvāca nṛpatiḥ kāle vasiṣṭham ṛṣi-sattamam ..7..
सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम । अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥८॥
सौदासः अहम् महाभाग याज्यः ते द्विजसत्तम । अस्मिन् काले यत् इष्टम् ते ब्रूहि किम् करवाणि ते ॥८॥
saudāsaḥ aham mahābhāga yājyaḥ te dvijasattama . asmin kāle yat iṣṭam te brūhi kim karavāṇi te ..8..
वसिष्ठ उवाच॥
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् । ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ॥९॥
वृत्तम् एतत् यथाकालम् गच्छ राज्यम् प्रशाधि तत् । ब्राह्मणान् च मनुष्य-इन्द्र मा अवमंस्थाः कदाचन ॥९॥
vṛttam etat yathākālam gaccha rājyam praśādhi tat . brāhmaṇān ca manuṣya-indra mā avamaṃsthāḥ kadācana ..9..
राजोवाच॥
नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् । त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ॥१०॥
न अवमंस्यामि अहम् ब्रह्मन् कदाचिद् ब्राह्मण-ऋषभान् । त्वद्-निदेशे स्थितः शश्वत् पुजयिष्यामि अहम् द्विजान् ॥१०॥
na avamaṃsyāmi aham brahman kadācid brāhmaṇa-ṛṣabhān . tvad-nideśe sthitaḥ śaśvat pujayiṣyāmi aham dvijān ..10..
इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम । तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ॥११॥
इक्ष्वाकूणाम् तु येन अहम् अनृणः स्याम् द्विजोत्तम । तत् त्वत्तः प्राप्तुम् इच्छामि वरम् वेद-विदाम् वर ॥११॥
ikṣvākūṇām tu yena aham anṛṇaḥ syām dvijottama . tat tvattaḥ prāptum icchāmi varam veda-vidām vara ..11..
अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि । शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥१२॥
अपत्याय ईप्सिताम् मह्यम् महिषीम् गन्तुम् अर्हसि । शील-रूप-गुण-उपेताम् इक्ष्वाकु-कुल-वृद्धये ॥१२॥
apatyāya īpsitām mahyam mahiṣīm gantum arhasi . śīla-rūpa-guṇa-upetām ikṣvāku-kula-vṛddhaye ..12..
गन्धर्व उवाच॥
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह । वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ॥१३॥
ददानि इति एव तम् तत्र राजानम् प्रत्युवाच ह । वसिष्ठः परम-इष्वासम् सत्य-सन्धः द्विजोत्तमः ॥१३॥
dadāni iti eva tam tatra rājānam pratyuvāca ha . vasiṣṭhaḥ parama-iṣvāsam satya-sandhaḥ dvijottamaḥ ..13..
ततः प्रतिययौ काले वसिष्ठसहितोऽनघ । ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ॥१४॥
ततस् प्रतिययौ काले वसिष्ठ-सहितः अनघ । ख्यातम् पुर-वरम् लोकेषु अयोध्याम् मनुज-ईश्वरः ॥१४॥
tatas pratiyayau kāle vasiṣṭha-sahitaḥ anagha . khyātam pura-varam lokeṣu ayodhyām manuja-īśvaraḥ ..14..
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा । विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥१५॥
तम् प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुः तदा । विपाप्मानम् महात्मानम् दिवौकसः इव ईश्वरम् ॥१५॥
tam prajāḥ pratimodantyaḥ sarvāḥ pratyudyayuḥ tadā . vipāpmānam mahātmānam divaukasaḥ iva īśvaram ..15..
अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् । विवेश सहितस्तेन वसिष्ठेन महात्मना ॥१६॥
अचिरात् स मनुष्य-इन्द्रः नगरीम् पुण्य-कर्मणाम् । विवेश सहितः तेन वसिष्ठेन महात्मना ॥१६॥
acirāt sa manuṣya-indraḥ nagarīm puṇya-karmaṇām . viveśa sahitaḥ tena vasiṣṭhena mahātmanā ..16..
ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः । पुष्येण सहितं काले दिवाकरमिवोदितम् ॥१७॥
ददृशुः तम् ततस् राजन् अयोध्या-वासिनः जनाः । पुष्येण सहितम् काले दिवाकरम् इव उदितम् ॥१७॥
dadṛśuḥ tam tatas rājan ayodhyā-vāsinaḥ janāḥ . puṣyeṇa sahitam kāle divākaram iva uditam ..17..
स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः । अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥१८॥
स हि ताम् पूरयामास लक्ष्म्या लक्ष्मीवताम् वरः । अयोध्याम् व्योम शीतांशुः शरद्-काले इव उदितः ॥१८॥
sa hi tām pūrayāmāsa lakṣmyā lakṣmīvatām varaḥ . ayodhyām vyoma śītāṃśuḥ śarad-kāle iva uditaḥ ..18..
संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् । मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ॥१९॥
संसिक्त-मृष्ट-पन्थानम् पताका-उच्छ्रय-भूषितम् । मनः तस्य तत् पुरम् उत्तमम् ॥१९॥
saṃsikta-mṛṣṭa-panthānam patākā-ucchraya-bhūṣitam . manaḥ tasya tat puram uttamam ..19..
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन । अशोभत तदा तेन शक्रेणेवामरावती ॥२०॥
तुष्ट-पुष्ट-जन-आकीर्णा सा पुरी कुरु-नन्दन । अशोभत तदा तेन शक्रेण इव अमरावती ॥२०॥
tuṣṭa-puṣṭa-jana-ākīrṇā sā purī kuru-nandana . aśobhata tadā tena śakreṇa iva amarāvatī ..20..
ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् । तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ॥२१॥
ततस् प्रविष्टे राज-इन्द्रे तस्मिन् राजनि ताम् पुरीम् । तस्य राज्ञः आज्ञया देवी वसिष्ठम् उपचक्रमे ॥२१॥
tatas praviṣṭe rāja-indre tasmin rājani tām purīm . tasya rājñaḥ ājñayā devī vasiṣṭham upacakrame ..21..
ऋतावथ महर्षिः स सम्बभूव तया सह । देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥२२॥
ऋतौ अथ महा-ऋषिः स सम्बभूव तया सह । देव्याः दिव्येन विधिना वसिष्ठः श्रेष्ठ-भाज् ऋषिः ॥२२॥
ṛtau atha mahā-ṛṣiḥ sa sambabhūva tayā saha . devyāḥ divyena vidhinā vasiṣṭhaḥ śreṣṭha-bhāj ṛṣiḥ ..22..
अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः । राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ॥२३॥
अथ तस्याम् समुत्पन्ने गर्भे स मुनि-सत्तमः । राज्ञा अभिवादितः तेन जगाम पुनर् आश्रमम् ॥२३॥
atha tasyām samutpanne garbhe sa muni-sattamaḥ . rājñā abhivāditaḥ tena jagāma punar āśramam ..23..
दीर्घकालधृतं गर्भं सुषाव न तु तं यदा । साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ॥२४॥
दीर्घ-काल-धृतम् गर्भम् सुषाव न तु तम् यदा । सा अथ देवी अश्मना कुक्षिम् निर्बिभेद तदा स्वकम् ॥२४॥
dīrgha-kāla-dhṛtam garbham suṣāva na tu tam yadā . sā atha devī aśmanā kukṣim nirbibheda tadā svakam ..24..
द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ । अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ॥२५॥1.176.47
द्वादशे अथ ततस् वर्षे स जज्ञे मनुज-ऋषभ । अश्मकः नाम राजर्षिः पोतनम् यः न्यवेशयत् ॥२५॥१।१७६।४७
dvādaśe atha tatas varṣe sa jajñe manuja-ṛṣabha . aśmakaḥ nāma rājarṣiḥ potanam yaḥ nyaveśayat ..25..1.176.47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In