| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गन्धर्व उवाच॥
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत । शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ॥१॥
आश्रम-स्था ततस् पुत्रम् अदृश्यन्ती व्यजायत । शक्तेः कुल-करम् राजन् द्वितीयम् इव शक्तिनम् ॥१॥
āśrama-sthā tatas putram adṛśyantī vyajāyata . śakteḥ kula-karam rājan dvitīyam iva śaktinam ..1..
जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः । पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥२॥
जातकर्म-आदिकाः तस्य क्रियाः स मुनि-पुङ्गवः । पौत्रस्य भरत-श्रेष्ठ चकार भगवान् स्वयम् ॥२॥
jātakarma-ādikāḥ tasya kriyāḥ sa muni-puṅgavaḥ . pautrasya bharata-śreṣṭha cakāra bhagavān svayam ..2..
परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा । गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥३॥
परासुः च यतस् तेन वसिष्ठः स्थापितः तदा । गर्भ-स्थेन ततस् लोके पराशरः इति स्मृतः ॥३॥
parāsuḥ ca yatas tena vasiṣṭhaḥ sthāpitaḥ tadā . garbha-sthena tatas loke parāśaraḥ iti smṛtaḥ ..3..
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा । जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ॥४॥
अमन्यत स धर्म-आत्मा वसिष्ठम् पितरम् तदा । जन्म-प्रभृति तस्मिन् च पितरि इव व्यवर्तत ॥४॥
amanyata sa dharma-ātmā vasiṣṭham pitaram tadā . janma-prabhṛti tasmin ca pitari iva vyavartata ..4..
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत । मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ॥५॥
स तात इति विप्रर्षिम् वसिष्ठम् प्रत्यभाषत । मातुः समक्षम् कौन्तेय अदृश्यन्त्याः परन्तप ॥५॥
sa tāta iti viprarṣim vasiṣṭham pratyabhāṣata . mātuḥ samakṣam kaunteya adṛśyantyāḥ parantapa ..5..
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः । अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ॥६॥
तात इति परिपूर्ण-अर्थम् तस्य तत् मधुरम् वचः । अदृश्यन्ती अश्रु-पूर्ण-अक्षी शृण्वन्ती तम् उवाच ह ॥६॥
tāta iti paripūrṇa-artham tasya tat madhuram vacaḥ . adṛśyantī aśru-pūrṇa-akṣī śṛṇvantī tam uvāca ha ..6..
मा तात तात तातेति न ते तातो महामुनिः । रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥७॥
मा तात तात तात इति न ते तातः महा-मुनिः । रक्षसा भक्षितः तात तव तातः वन-अन्तरे ॥७॥
mā tāta tāta tāta iti na te tātaḥ mahā-muniḥ . rakṣasā bhakṣitaḥ tāta tava tātaḥ vana-antare ..7..
मन्यसे यं तु तातेति नैष तातस्तवानघ । आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ॥८॥
मन्यसे यम् तु तात इति न एष तातः तव अनघ । आर्यः तु एष पिता तस्य पितुः तव महात्मनः ॥८॥
manyase yam tu tāta iti na eṣa tātaḥ tava anagha . āryaḥ tu eṣa pitā tasya pituḥ tava mahātmanaḥ ..8..
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः । सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥९॥
सः एवम् उक्तः दुःख-आर्तः सत्य-वाच् ऋषि-सत्तमः । सर्व-लोक-विनाशाय मतिम् चक्रे महामनाः ॥९॥
saḥ evam uktaḥ duḥkha-ārtaḥ satya-vāc ṛṣi-sattamaḥ . sarva-loka-vināśāya matim cakre mahāmanāḥ ..9..
तं तथा निश्चितात्मानं महात्मानं महातपाः । वसिष्ठो वारयामास हेतुना येन तच्छृणु ॥१०॥
तम् तथा निश्चित-आत्मानम् महात्मानम् महा-तपाः । वसिष्ठः वारयामास हेतुना येन तत् शृणु ॥१०॥
tam tathā niścita-ātmānam mahātmānam mahā-tapāḥ . vasiṣṭhaḥ vārayāmāsa hetunā yena tat śṛṇu ..10..
वसिष्ठ उवाच॥
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ । याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ॥११॥
कृतवीर्यः इति ख्यातः बभूव नृपतिः क्षितौ । याज्यः वेद-विदाम् लोके भृगूणाम् पार्थिव-ऋषभः ॥११॥
kṛtavīryaḥ iti khyātaḥ babhūva nṛpatiḥ kṣitau . yājyaḥ veda-vidām loke bhṛgūṇām pārthiva-ṛṣabhaḥ ..11..
स तानग्रभुजस्तात धान्येन च धनेन च । सोमान्ते तर्पयामास विपुलेन विशां पतिः ॥१२॥
स तान् अग्र-भुजः तात धान्येन च धनेन च । सोम-अन्ते तर्पयामास विपुलेन विशाम् पतिः ॥१२॥
sa tān agra-bhujaḥ tāta dhānyena ca dhanena ca . soma-ante tarpayāmāsa vipulena viśām patiḥ ..12..
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन । बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ॥१३॥
तस्मिन् नृपति-शार्दूले स्वर्याते अथ कदाचन । बभूव तद्-कुलेयानाम् द्रव्य-कार्यम् उपस्थितम् ॥१३॥
tasmin nṛpati-śārdūle svaryāte atha kadācana . babhūva tad-kuleyānām dravya-kāryam upasthitam ..13..
ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह । याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ॥१४॥
ते भृगूणाम् धनम् ज्ञात्वा राजानः सर्वे एव ह । याचिष्णवः अभिजग्मुः तान् तात भार्गव-सत्तमान् ॥१४॥
te bhṛgūṇām dhanam jñātvā rājānaḥ sarve eva ha . yāciṣṇavaḥ abhijagmuḥ tān tāta bhārgava-sattamān ..14..
भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥१५॥
भूमौ तु निदधुः केचिद् भृगवः धनम् अक्षयम् । ददुः केचिद् द्विजातिभ्यः ज्ञात्वा क्षत्रियतः भयम् ॥१५॥
bhūmau tu nidadhuḥ kecid bhṛgavaḥ dhanam akṣayam . daduḥ kecid dvijātibhyaḥ jñātvā kṣatriyataḥ bhayam ..15..
भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् । क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ॥१६॥
भृगवः तु ददुः केचिद् तेषाम् वित्तम् यथा ईप्सितम् । क्षत्रियाणाम् तदा तात कारण-अन्तर-दर्शनात् ॥१६॥
bhṛgavaḥ tu daduḥ kecid teṣām vittam yathā īpsitam . kṣatriyāṇām tadā tāta kāraṇa-antara-darśanāt ..16..
ततो महीतलं तात क्षत्रियेण यदृच्छया । खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ॥१७॥ ( तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥१७॥ )
ततस् मही-तलम् तात क्षत्रियेण यदृच्छया । खनता अधिगतम् वित्तम् केनचिद् भृगु-वेश्मनि ॥१७॥ ( तद्-वित्तम् ददृशुः सर्वे समेताः क्षत्रिय-ऋषभाः ॥१७॥ )
tatas mahī-talam tāta kṣatriyeṇa yadṛcchayā . khanatā adhigatam vittam kenacid bhṛgu-veśmani ..17.. ( tad-vittam dadṛśuḥ sarve sametāḥ kṣatriya-ṛṣabhāḥ ..17.. )
अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् । निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ॥१८॥ ( आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् ॥१८॥ )
अवमन्य ततस् कोपात् भृगून् तान् शरण-आगतान् । निजघ्नुः ते महा-इष्वासाः सर्वान् तान् निशितैः शरैः ॥१८॥ ( आ गर्भात् अनुकृन्तन्तः चेरुः च एव वसुन्धराम् ॥१८॥ )
avamanya tatas kopāt bhṛgūn tān śaraṇa-āgatān . nijaghnuḥ te mahā-iṣvāsāḥ sarvān tān niśitaiḥ śaraiḥ ..18.. ( ā garbhāt anukṛntantaḥ ceruḥ ca eva vasundharām ..18.. )
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा । भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ॥१९॥
ततस् उच्छिद्यमानेषु भृगुषु एवम् भयात् तदा । भृगु-पत्न्यः गिरिम् तात हिमवन्तम् प्रपेदिरे ॥१९॥
tatas ucchidyamāneṣu bhṛguṣu evam bhayāt tadā . bhṛgu-patnyaḥ girim tāta himavantam prapedire ..19..
तासामन्यतमा गर्भं भयाद्दाधार तैजसम् । ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ॥२०॥ ( ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ॥२०॥ )
तासाम् अन्यतमा गर्भम् भयात् दाधार तैजसम् । ऊरुणा एकेन वाम-ऊरूः भर्तुः कुल-विवृद्धये ॥२०॥ ( ददृशुः ब्राह्मणीम् ताम् ते दीप्यमानाम् स्व-तेजसा ॥२०॥ )
tāsām anyatamā garbham bhayāt dādhāra taijasam . ūruṇā ekena vāma-ūrūḥ bhartuḥ kula-vivṛddhaye ..20.. ( dadṛśuḥ brāhmaṇīm tām te dīpyamānām sva-tejasā ..20.. )
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह । मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ॥२१॥ ( ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ॥२१॥ )
अथ गर्भः स भित्त्वा ऊरुम् ब्राह्मण्याः निर्जगाम ह । मुष्णन् दृष्टीः क्षत्रियाणाम् मध्याह्ने इव भास्करः ॥२१॥ ( ततस् चक्षुः-वियुक्ताः ते गिरि-दुर्गेषु बभ्रमुः ॥२१॥ )
atha garbhaḥ sa bhittvā ūrum brāhmaṇyāḥ nirjagāma ha . muṣṇan dṛṣṭīḥ kṣatriyāṇām madhyāhne iva bhāskaraḥ ..21.. ( tatas cakṣuḥ-viyuktāḥ te giri-durgeṣu babhramuḥ ..21.. )
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः । ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥२२॥
ततस् ते मोघ-सङ्कल्पाः भय-आर्ताः क्षत्रिय-ऋषभाः । ब्रह्मणीम् शरणम् जग्मुः दृष्टि-अर्थम् ताम् अनिन्दिताम् ॥२२॥
tatas te mogha-saṅkalpāḥ bhaya-ārtāḥ kṣatriya-ṛṣabhāḥ . brahmaṇīm śaraṇam jagmuḥ dṛṣṭi-artham tām aninditām ..22..
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः । ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥२३॥
ऊचुः च एनाम् महाभागाम् क्षत्रियाः ते विचेतसः । ज्योतिः-प्रहीणाः दुःख-आर्ताः शान्त-अर्चिषः इव अग्नयः ॥२३॥
ūcuḥ ca enām mahābhāgām kṣatriyāḥ te vicetasaḥ . jyotiḥ-prahīṇāḥ duḥkha-ārtāḥ śānta-arciṣaḥ iva agnayaḥ ..23..
भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् । उपारम्य च गच्छेम सहिताः पापकर्मणः ॥२४॥
भगवत्याः प्रसादेन गच्छेत् क्षत्रम् सचक्षुषम् । उपारम्य च गच्छेम सहिताः पाप-कर्मणः ॥२४॥
bhagavatyāḥ prasādena gacchet kṣatram sacakṣuṣam . upāramya ca gacchema sahitāḥ pāpa-karmaṇaḥ ..24..
सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि । पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि ॥२५॥1.178.29
स पुत्रा त्वम् प्रसादम् नः सर्वेषाम् कर्तुम् अर्हसि । पुनर् दृष्टि-प्रदानेन राज्ञः सन्त्रातुम् अर्हसि ॥२५॥१।१७८।२९
sa putrā tvam prasādam naḥ sarveṣām kartum arhasi . punar dṛṣṭi-pradānena rājñaḥ santrātum arhasi ..25..1.178.29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In