| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
अथावरणमुख्यानि नानाप्रहरणानि च । प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥१॥
अथ आवरण-मुख्यानि नाना प्रहरणानि च । प्रगृह्य अभ्यद्रवन् देवान् सहिताः दैत्य-दानवाः ॥१॥
atha āvaraṇa-mukhyāni nānā praharaṇāni ca . pragṛhya abhyadravan devān sahitāḥ daitya-dānavāḥ ..1..
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् । जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥२॥
ततस् तत् अमृतम् देवः विष्णुः आदाय वीर्यवान् । जहार दानव-इन्द्रेभ्यः नरेण सहितः प्रभुः ॥२॥
tatas tat amṛtam devaḥ viṣṇuḥ ādāya vīryavān . jahāra dānava-indrebhyaḥ nareṇa sahitaḥ prabhuḥ ..2..
ततो देवगणाः सर्वे पपुस्तदमृतं तदा । विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ॥३॥
ततस् देव-गणाः सर्वे पपुः तत् अमृतम् तदा । विष्णोः सकाशात् सम्प्राप्य सम्भ्रमे तुमुले सति ॥३॥
tatas deva-gaṇāḥ sarve papuḥ tat amṛtam tadā . viṣṇoḥ sakāśāt samprāpya sambhrame tumule sati ..3..
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् । राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥४॥
ततस् पिबत्सु तद्-कालम् देवेषु अमृतम् ईप्सितम् । राहुः विबुध-रूपेण दानवः प्रापिबत् तदा ॥४॥
tatas pibatsu tad-kālam deveṣu amṛtam īpsitam . rāhuḥ vibudha-rūpeṇa dānavaḥ prāpibat tadā ..4..
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा । आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥५॥
तस्य कण्ठम् अनुप्राप्ते दानवस्य अमृते तदा । आख्यातम् चन्द्र-सूर्याभ्याम् सुराणाम् हित-काम्यया ॥५॥
tasya kaṇṭham anuprāpte dānavasya amṛte tadā . ākhyātam candra-sūryābhyām surāṇām hita-kāmyayā ..5..
ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् । चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥६॥
ततस् भगवता तस्य शिरः छिन्नम् अलङ्कृतम् । चक्र-आयुधेन चक्रेण पिबतः अमृतम् ओजसा ॥६॥
tatas bhagavatā tasya śiraḥ chinnam alaṅkṛtam . cakra-āyudhena cakreṇa pibataḥ amṛtam ojasā ..6..
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् । चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥७॥
तत् शैल-शृङ्ग-प्रतिमम् दानवस्य शिरः महत् । चक्रेण उत्कृत्तम् अपतत् चालयत् वसुधा-तलम् ॥७॥
tat śaila-śṛṅga-pratimam dānavasya śiraḥ mahat . cakreṇa utkṛttam apatat cālayat vasudhā-talam ..7..
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै । शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥८॥
ततस् वैर-विनिर्बन्धः कृतः राहु-मुखेन वै । शाश्वतः चन्द्र-सूर्याभ्याम् ग्रसति अद्य अपि च एव तौ ॥८॥
tatas vaira-vinirbandhaḥ kṛtaḥ rāhu-mukhena vai . śāśvataḥ candra-sūryābhyām grasati adya api ca eva tau ..8..
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः । नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥९॥
विहाय भगवान् च अपि स्त्री-रूपम् अतुलम् हरिः । नाना प्रहरणैः भीमैः दानवान् समकम्पयत् ॥९॥
vihāya bhagavān ca api strī-rūpam atulam hariḥ . nānā praharaṇaiḥ bhīmaiḥ dānavān samakampayat ..9..
ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः । सुराणामसुराणां च सर्वघोरतरो महान् ॥१०॥
ततस् प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः । सुराणाम् असुराणाम् च सर्व-घोरतरः महान् ॥१०॥
tatas pravṛttaḥ saṅgrāmaḥ samīpe lavaṇāmbhasaḥ . surāṇām asurāṇām ca sarva-ghorataraḥ mahān ..10..
प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः । तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥११॥
प्रासाः सु विपुलाः तीक्ष्णाः न्यपतन्त सहस्रशस् । तोमराः च सु तीक्ष्ण-अग्राः शस्त्राणि विविधानि च ॥११॥
prāsāḥ su vipulāḥ tīkṣṇāḥ nyapatanta sahasraśas . tomarāḥ ca su tīkṣṇa-agrāḥ śastrāṇi vividhāni ca ..11..
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु । असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥१२॥
ततस् असुराः चक्र-भिन्नाः वमन्तः रुधिरम् बहु । असि-शक्ति-गदा-रुग्णाः निपेतुः धरणी-तले ॥१२॥
tatas asurāḥ cakra-bhinnāḥ vamantaḥ rudhiram bahu . asi-śakti-gadā-rugṇāḥ nipetuḥ dharaṇī-tale ..12..
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे । तप्तकाञ्चनजालानि निपेतुरनिशं तदा ॥१३॥
छिन्नानि पट्टिशैः च अपि शिरांसि युधि दारुणे । तप्त-काञ्चन-जालानि निपेतुः अनिशम् तदा ॥१३॥
chinnāni paṭṭiśaiḥ ca api śirāṃsi yudhi dāruṇe . tapta-kāñcana-jālāni nipetuḥ aniśam tadā ..13..
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः । अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥१४॥
रुधिरेण अवलिप्त-अङ्गाः निहताः च महा-असुराः । अद्रीणाम् इव कूटानि धातु-रक्तानि शेरते ॥१४॥
rudhireṇa avalipta-aṅgāḥ nihatāḥ ca mahā-asurāḥ . adrīṇām iva kūṭāni dhātu-raktāni śerate ..14..
हाहाकारः समभवत्तत्र तत्र सहस्रशः । अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥१५॥
हाहाकारः समभवत् तत्र तत्र सहस्रशस् । अन्योन्यम् छिन्दताम् शस्त्रैः आदित्ये लोहितायति ॥१५॥
hāhākāraḥ samabhavat tatra tatra sahasraśas . anyonyam chindatām śastraiḥ āditye lohitāyati ..15..
परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः । निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥१६॥
परिघैः च आयसैः पीतैः संनिकर्षे च मुष्टिभिः । निघ्नताम् समरे अन्योन्यम् शब्दः दिवम् इव अस्पृशत् ॥१६॥
parighaiḥ ca āyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ . nighnatām samare anyonyam śabdaḥ divam iva aspṛśat ..16..
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च । व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥१७॥
छिन्द्धि भिन्धि प्रधावध्वम् पातय अभिसर इति च । व्यश्रूयन्त महा-घोराः शब्दाः तत्र समन्ततः ॥१७॥
chinddhi bhindhi pradhāvadhvam pātaya abhisara iti ca . vyaśrūyanta mahā-ghorāḥ śabdāḥ tatra samantataḥ ..17..
एवं सुतुमुले युद्धे वर्तमाने भयावहे । नरनारायणौ देवौ समाजग्मतुराहवम् ॥१८॥
एवम् सु तुमुले युद्धे वर्तमाने भय-आवहे । नर-नारायणौ देवौ समाजग्मतुः आहवम् ॥१८॥
evam su tumule yuddhe vartamāne bhaya-āvahe . nara-nārāyaṇau devau samājagmatuḥ āhavam ..18..
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि । चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ॥१९॥
तत्र दिव्यम् धनुः दृष्ट्वा नरस्य भगवान् अपि । चिन्तयामास वै चक्रम् विष्णुः दानव-सूदनम् ॥१९॥
tatra divyam dhanuḥ dṛṣṭvā narasya bhagavān api . cintayāmāsa vai cakram viṣṇuḥ dānava-sūdanam ..19..
ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् । विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ॥२०॥
ततस् अम्बरात् चिन्तित-मात्रम् आगतम्; महा-प्रभम् चक्रम् अमित्र-तापनम् । विभावसोः तुल्य-मकुण्ठ-मण्डलम्; सुदर्शनम् भीमम् अजय्यम् उत्तमम् ॥२०॥
tatas ambarāt cintita-mātram āgatam; mahā-prabham cakram amitra-tāpanam . vibhāvasoḥ tulya-makuṇṭha-maṇḍalam; sudarśanam bhīmam ajayyam uttamam ..20..
तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः । मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ॥२१॥
तद्-आगतम् ज्वलित-हुताशन-प्रभम्; भयङ्करम् करि-कर-बाहुः अच्युतः । मुमोच वै चपलम् उदग्र-वेगव; न् महा-प्रभम् पर-नगर-अवदारणम् ॥२१॥
tad-āgatam jvalita-hutāśana-prabham; bhayaṅkaram kari-kara-bāhuḥ acyutaḥ . mumoca vai capalam udagra-vegava; n mahā-prabham para-nagara-avadāraṇam ..21..
तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा । विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ॥२२॥
तद्-अन्तक-ज्वलन-समान-वर्चसम्; पुनर् पुनर् न्यपतत वेगवत् तदा । विदारयत्-दिति-दनु-जान् सहस्रशस्; कर-ईरितम् पुरुष-वरेण संयुगे ॥२२॥
tad-antaka-jvalana-samāna-varcasam; punar punar nyapatata vegavat tadā . vidārayat-diti-danu-jān sahasraśas; kara-īritam puruṣa-vareṇa saṃyuge ..22..
दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत । प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ॥२३॥
दहत् क्वचिद् ज्वलनः इव अवलेलिह; त् प्रसह्य तान् असुर-गणान् न्यकृन्तत । प्रवेरितम् वियति मुहुर् क्षितौ तदा; पपौ रणे रुधिरम् अथो पिशाच-वत् ॥२३॥
dahat kvacid jvalanaḥ iva avaleliha; t prasahya tān asura-gaṇān nyakṛntata . praveritam viyati muhur kṣitau tadā; papau raṇe rudhiram atho piśāca-vat ..23..
अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा । महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ॥२४॥
अथ असुराः गिरिभिः अदीन-चेतसः; मुहुर् मुहुर् सुर-गणम् अर्दयन् तदा । महा-बलाः विगलित-मेघ-वर्चसः; सहस्रशस् गगनम् अभिप्रपद्य ह ॥२४॥
atha asurāḥ giribhiḥ adīna-cetasaḥ; muhur muhur sura-gaṇam ardayan tadā . mahā-balāḥ vigalita-megha-varcasaḥ; sahasraśas gaganam abhiprapadya ha ..24..
अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः । महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ॥२५॥
अथ अम्बरात् भय-जननाः प्रपेदिरे; स पादपाः बहुविध-मेघ-रूपिणः । महा-अद्रयः प्रविगलित-अग्र-सानवः; परस्परम् द्रुतम् अभिहत्य स स्वनाः ॥२५॥
atha ambarāt bhaya-jananāḥ prapedire; sa pādapāḥ bahuvidha-megha-rūpiṇaḥ . mahā-adrayaḥ pravigalita-agra-sānavaḥ; parasparam drutam abhihatya sa svanāḥ ..25..
ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः । परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ॥२६॥
ततस् मही प्रविचलिता स कानना; महा-अद्रि-पात-अभिहता समन्ततः । परस्परम् भृशम् अभिगर्जताम् मुहू; रण-अजिरे भृशम् अभिसम्प्रवर्तिते ॥२६॥
tatas mahī pravicalitā sa kānanā; mahā-adri-pāta-abhihatā samantataḥ . parasparam bhṛśam abhigarjatām muhū; raṇa-ajire bhṛśam abhisampravartite ..26..
नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत् । विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ॥२७॥
नरः ततस् वर-कनक-अग्र-भूषणैः; र्महा-इषुभिः गगन-पथम् समावृणोत् । विदारयन् गिरि-शिखराणि पत्रिभि; र्महा-भये असुर-गण-विग्रहे तदा ॥२७॥
naraḥ tatas vara-kanaka-agra-bhūṣaṇaiḥ; rmahā-iṣubhiḥ gagana-patham samāvṛṇot . vidārayan giri-śikharāṇi patribhi; rmahā-bhaye asura-gaṇa-vigrahe tadā ..27..
ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः । वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ॥२८॥
ततस् महीम् लवण-जलम् च सागरम्; महा-असुराः प्रविविशुः अर्दिताः सुरैः । वियत्-गतम् ज्वलित-हुताशन-प्रभम्; सुदर्शनम् परिकुपितम् निशाम्य च ॥२८॥
tatas mahīm lavaṇa-jalam ca sāgaram; mahā-asurāḥ praviviśuḥ arditāḥ suraiḥ . viyat-gatam jvalita-hutāśana-prabham; sudarśanam parikupitam niśāmya ca ..28..
ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः । विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ॥२९॥
ततस् सुरैः विजयम् अवाप्य मन्दरः; स्वम् एव देशम् गमितः सु पूजितः । विनाद्य खम् दिवम् अपि च एव सर्वशस्; स्ततस् गताः सलिलधराः यथागतम् ॥२९॥
tatas suraiḥ vijayam avāpya mandaraḥ; svam eva deśam gamitaḥ su pūjitaḥ . vinādya kham divam api ca eva sarvaśas; statas gatāḥ saliladharāḥ yathāgatam ..29..
ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् । ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ॥३०॥ 1.19.31
ततस् अमृतम् सु निहितम् एव चक्रिरे; सुराः पराम् मुदम् अभिगम्य पुष्कलाम् । ददौ च तम् निधिम् अमृतस्य रक्षितुम्; किरीटिने बलभि-दथा अमरैः सह ॥३०॥ १।१९।३१
tatas amṛtam su nihitam eva cakrire; surāḥ parām mudam abhigamya puṣkalām . dadau ca tam nidhim amṛtasya rakṣitum; kirīṭine balabhi-dathā amaraiḥ saha ..30.. 1.19.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In