| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्राह्मण्युवाच॥
नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता । अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥१॥
न अहम् गृह्णामि वः तात दृष्टीः न अस्ति रुषा अन्विता । अयम् तु भार्गवः नूनम् ऊरु-जः कुपितः अद्य वः ॥१॥
na aham gṛhṇāmi vaḥ tāta dṛṣṭīḥ na asti ruṣā anvitā . ayam tu bhārgavaḥ nūnam ūru-jaḥ kupitaḥ adya vaḥ ..1..
तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना । स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥२॥
तेन चक्षूंषि वः तात नूनम् कोपात् महात्मना । स्मरता निहतान् बन्धून् आदत्तानि न संशयः ॥२॥
tena cakṣūṃṣi vaḥ tāta nūnam kopāt mahātmanā . smaratā nihatān bandhūn ādattāni na saṃśayaḥ ..2..
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः । तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥३॥
गर्भान् अपि यदा यूयम् भृगूणाम् घ्नत पुत्रकाः । तदा अयम् ऊरुणा गर्भः मया वर्ष-शतम् धृतः ॥३॥
garbhān api yadā yūyam bhṛgūṇām ghnata putrakāḥ . tadā ayam ūruṇā garbhaḥ mayā varṣa-śatam dhṛtaḥ ..3..
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि । विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥४॥
षष्-अङ्गः च अखिलः वेदः इमम् गर्भ-स्थम् एव हि । विवेश भृगु-वंशस्य भूयस् प्रिय-चिकीर्षया ॥४॥
ṣaṣ-aṅgaḥ ca akhilaḥ vedaḥ imam garbha-stham eva hi . viveśa bhṛgu-vaṃśasya bhūyas priya-cikīrṣayā ..4..
सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥५॥
सः अयम् पितृ-वधात् नूनम् क्रोधात् वः हन्तुम् इच्छति । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥५॥
saḥ ayam pitṛ-vadhāt nūnam krodhāt vaḥ hantum icchati . tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ ..5..
तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् । अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ॥६॥
तम् इमम् तात याचध्वम् और्वम् मम सुत-उत्तमम् । अयम् वः प्रणिपातेन तुष्टः दृष्टीः विमोक्ष्यति ॥६॥
tam imam tāta yācadhvam aurvam mama suta-uttamam . ayam vaḥ praṇipātena tuṣṭaḥ dṛṣṭīḥ vimokṣyati ..6..
गन्धर्व उवाच॥
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् । ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥७॥
एवम् उक्ताः ततस् सर्वे राजानः ते तम् ऊरु-जम् । ऊचुः प्रसीद इति तदा प्रसादम् च चकार सः ॥७॥
evam uktāḥ tatas sarve rājānaḥ te tam ūru-jam . ūcuḥ prasīda iti tadā prasādam ca cakāra saḥ ..7..
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः । स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥८॥
अनेन एव च विख्यातः नाम्ना लोकेषु सत्तमः । सः और्वः इति विप्रर्षिः ऊरुम् भित्त्वा व्यजायत ॥८॥
anena eva ca vikhyātaḥ nāmnā lokeṣu sattamaḥ . saḥ aurvaḥ iti viprarṣiḥ ūrum bhittvā vyajāyata ..8..
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः । भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥९॥
चक्षूंषि प्रतिलभ्य अथ प्रतिजग्मुः ततस् नृपाः । भार्गवः तु मुनिः मेने सर्व-लोक-पराभवम् ॥९॥
cakṣūṃṣi pratilabhya atha pratijagmuḥ tatas nṛpāḥ . bhārgavaḥ tu muniḥ mene sarva-loka-parābhavam ..9..
स चक्रे तात लोकानां विनाशाय महामनाः । सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥१०॥
स चक्रे तात लोकानाम् विनाशाय महामनाः । सर्वेषाम् एव कार्त्स्न्येन मनः प्रवणम् आत्मनः ॥१०॥
sa cakre tāta lokānām vināśāya mahāmanāḥ . sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ ..10..
इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः । सर्वलोकविनाशाय तपसा महतैधितः ॥११॥
इच्छन् अपचितिम् कर्तुम् भृगूणाम् भृगु-सत्तमः । सर्व-लोक-विनाशाय तपसा महता एधितः ॥११॥
icchan apacitim kartum bhṛgūṇām bhṛgu-sattamaḥ . sarva-loka-vināśāya tapasā mahatā edhitaḥ ..11..
तापयामास लोकान्स सदेवासुरमानुषान् । तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥१२॥
तापयामास लोकान् स स देव-असुर-मानुषान् । तपसा उग्रेण महता नन्दयिष्यन् पितामहान् ॥१२॥
tāpayāmāsa lokān sa sa deva-asura-mānuṣān . tapasā ugreṇa mahatā nandayiṣyan pitāmahān ..12..
ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् । पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥१३॥
ततस् तम् पितरः तात विज्ञाय भृगु-सत्तमम् । पितृ-लोकात् उपागम्य सर्वे ऊचुः इदम् वचः ॥१३॥
tatas tam pitaraḥ tāta vijñāya bhṛgu-sattamam . pitṛ-lokāt upāgamya sarve ūcuḥ idam vacaḥ ..13..
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक । प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥१४॥
और्व दृष्टः प्रभावः ते तपसा उग्रस्य पुत्रक । प्रसादम् कुरु लोकानाम् नियच्छ क्रोधम् आत्मनः ॥१४॥
aurva dṛṣṭaḥ prabhāvaḥ te tapasā ugrasya putraka . prasādam kuru lokānām niyaccha krodham ātmanaḥ ..14..
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः । वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥१५॥
न अनीशैः हि तदा तात भृगुभिः भावितात्मभिः । वधः अभ्युपेक्षितः सर्वैः क्षत्रियाणाम् विहिंसताम् ॥१५॥
na anīśaiḥ hi tadā tāta bhṛgubhiḥ bhāvitātmabhiḥ . vadhaḥ abhyupekṣitaḥ sarvaiḥ kṣatriyāṇām vihiṃsatām ..15..
आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् । तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥१६॥
आयुषा हि प्रकृष्टेन यदा नः खेदः आविशत् । तदा अस्माभिः वधः तात क्षत्रियैः ईप्सितः स्वयम् ॥१६॥
āyuṣā hi prakṛṣṭena yadā naḥ khedaḥ āviśat . tadā asmābhiḥ vadhaḥ tāta kṣatriyaiḥ īpsitaḥ svayam ..16..
निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि । वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ॥१७॥ ( किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ॥१७॥ )
निखातम् तत् हि वै वित्तम् केनचिद् भृगु-वेश्मनि । वैराय एव तदा न्यस्तम् क्षत्रियान् कोपयिष्णुभिः ॥१७॥ ( किम् हि वित्तेन नः कार्यम् स्वर्ग-ईप्सूनाम् द्विजर्षभ ॥१७॥ )
nikhātam tat hi vai vittam kenacid bhṛgu-veśmani . vairāya eva tadā nyastam kṣatriyān kopayiṣṇubhiḥ ..17.. ( kim hi vittena naḥ kāryam svarga-īpsūnām dvijarṣabha ..17.. )
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः । तदास्माभिरयं दृष्ट उपायस्तात संमतः ॥१८॥
यदा तु मृत्युः आदातुम् न नः शक्नोति सर्वशस् । तदा अस्माभिः अयम् दृष्टः उपायः तात संमतः ॥१८॥
yadā tu mṛtyuḥ ādātum na naḥ śaknoti sarvaśas . tadā asmābhiḥ ayam dṛṣṭaḥ upāyaḥ tāta saṃmataḥ ..18..
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् । ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ॥१९॥
आत्म-हा च पुमान् तात न लोकान् लभते शुभान् । ततस् अस्माभिः समीक्ष्य एवम् न आत्मना आत्मा विनाशितः ॥१९॥
ātma-hā ca pumān tāta na lokān labhate śubhān . tatas asmābhiḥ samīkṣya evam na ātmanā ātmā vināśitaḥ ..19..
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि । नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥२०॥
न च एतत् नः प्रियम् तात यत् इदम् कर्तुम् इच्छसि । नियच्छ इदम् मनः पापात् सर्व-लोक-पराभवात् ॥२०॥
na ca etat naḥ priyam tāta yat idam kartum icchasi . niyaccha idam manaḥ pāpāt sarva-loka-parābhavāt ..20..
न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक । दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ॥२१॥ 1.178.22
न हि नः क्षत्रियाः केचिद् न लोकाः सप्त पुत्रक । दूषयन्ति तपः तेजः क्रोधम् उत्पतितम् जहि ॥२१॥ १।१७८।२२
na hi naḥ kṣatriyāḥ kecid na lokāḥ sapta putraka . dūṣayanti tapaḥ tejaḥ krodham utpatitam jahi ..21.. 1.178.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In