| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

और्व उवाच॥
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा । सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥१॥
उक्तवान् अस्मि याम् क्रोधात् प्रतिज्ञाम् पितरः तदा । सर्व-लोक-विनाशाय न सा मे वितथा भवेत् ॥१॥
uktavān asmi yām krodhāt pratijñām pitaraḥ tadā . sarva-loka-vināśāya na sā me vitathā bhavet ..1..
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे । अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥२॥
वृथा रोष-प्रतिज्ञः हि न अहम् जीवितुम् उत्सहे । अ निस्तीर्णः हि माम् रोषः दहेत् अग्निः इव अरणिम् ॥२॥
vṛthā roṣa-pratijñaḥ hi na aham jīvitum utsahe . a nistīrṇaḥ hi mām roṣaḥ dahet agniḥ iva araṇim ..2..
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति । नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥३॥
यः हि कारणतः क्रोधम् सञ्जातम् क्षन्तुम् अर्हति । न अलम् स मनुजः सम्यक् त्रिवर्गम् परिरक्षितुम् ॥३॥
yaḥ hi kāraṇataḥ krodham sañjātam kṣantum arhati . na alam sa manujaḥ samyak trivargam parirakṣitum ..3..
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता । स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ॥४॥
अशिष्टानाम् नियन्ता हि शिष्टानाम् परिरक्षता । स्थाने रोषः प्रयुक्तः स्यात् नृपैः स्वर्ग-जिगीषुभिः ॥४॥
aśiṣṭānām niyantā hi śiṣṭānām parirakṣatā . sthāne roṣaḥ prayuktaḥ syāt nṛpaiḥ svarga-jigīṣubhiḥ ..4..
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा । आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥५॥
अश्रौषम् अहम् ऊरु-स्थः गर्भशय्या-गतः तदा । आरावम् मातृ-वर्गस्य भृगूणाम् क्षत्रियैः वधे ॥५॥
aśrauṣam aham ūru-sthaḥ garbhaśayyā-gataḥ tadā . ārāvam mātṛ-vargasya bhṛgūṇām kṣatriyaiḥ vadhe ..5..
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः । आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ॥६॥
स अमरैः हि यदा लोकैः भृगूणाम् क्षत्रिय-अधमैः । आ गर्भ-उत्सादनम् क्षान्तम् तदा माम् मन्युः आविषत् ॥६॥
sa amaraiḥ hi yadā lokaiḥ bhṛgūṇām kṣatriya-adhamaiḥ . ā garbha-utsādanam kṣāntam tadā mām manyuḥ āviṣat ..6..
आपूर्णकोशाः किल मे मातरः पितरस्तथा । भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥७॥
आपूर्ण-कोशाः किल मे मातरः पितरः तथा । भयात् सर्वेषु लोकेषु न अधिजग्मुः परायणम् ॥७॥
āpūrṇa-kośāḥ kila me mātaraḥ pitaraḥ tathā . bhayāt sarveṣu lokeṣu na adhijagmuḥ parāyaṇam ..7..
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत । यदा तदा दधारेयमूरुणैकेन मां शुभा ॥८॥
तान् भृगूणाम् तदा दारान् कश्चिद् न अभ्यवपद्यत । यदा तदा दधारेयम् ऊरुणा एकेन माम् शुभा ॥८॥
tān bhṛgūṇām tadā dārān kaścid na abhyavapadyata . yadā tadā dadhāreyam ūruṇā ekena mām śubhā ..8..
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते । तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥९॥
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते । तदा सर्वेषु लोकेषु पाप-कृत् न उपपद्यते ॥९॥
pratiṣeddhā hi pāpasya yadā lokeṣu vidyate . tadā sarveṣu lokeṣu pāpa-kṛt na upapadyate ..9..
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् । तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥१०॥
यदा तु प्रतिषेद्धारम् पापः न लभते क्वचिद् । तिष्ठन्ति बहवः लोके तदा पापेषु कर्मसु ॥१०॥
yadā tu pratiṣeddhāram pāpaḥ na labhate kvacid . tiṣṭhanti bahavaḥ loke tadā pāpeṣu karmasu ..10..
जानन्नपि च यः पापं शक्तिमान्न नियच्छति । ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥११॥
जानन् अपि च यः पापम् शक्तिमान् न नियच्छति । ईशः सन् सः अपि तेन एव कर्मणा सम्प्रयुज्यते ॥११॥
jānan api ca yaḥ pāpam śaktimān na niyacchati . īśaḥ san saḥ api tena eva karmaṇā samprayujyate ..11..
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम । शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ॥१२॥
राजभिः च ईश्वरैः च एव यदि वै पितरः मम । शक्तैः न शकिता त्रातुम् इष्टम् मत्वा इह जीवितम् ॥१२॥
rājabhiḥ ca īśvaraiḥ ca eva yadi vai pitaraḥ mama . śaktaiḥ na śakitā trātum iṣṭam matvā iha jīvitam ..12..
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् । भवतां तु वचो नाहमलं समतिवर्तितुम् ॥१३॥
अतस् एषाम् अहम् क्रुद्धः लोकानाम् ईश्वरः अद्य सन् । भवताम् तु वचः न अहम् अलम् समतिवर्तितुम् ॥१३॥
atas eṣām aham kruddhaḥ lokānām īśvaraḥ adya san . bhavatām tu vacaḥ na aham alam samativartitum ..13..
मम चापि भवेदेतदीश्वरस्य सतो महत् । उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥१४॥
मम च अपि भवेत् एतत् ईश्वरस्य सतः महत् । उपेक्षमाणस्य पुनर् लोकानाम् किल्बिषात् भयम् ॥१४॥
mama ca api bhavet etat īśvarasya sataḥ mahat . upekṣamāṇasya punar lokānām kilbiṣāt bhayam ..14..
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति । दहेदेष च मामेव निगृहीतः स्वतेजसा ॥१५॥
यः च अयम् मन्यु-जः मे अग्निः लोकान् आदातुम् इच्छति । दहेत् एष च माम् एव निगृहीतः स्व-तेजसा ॥१५॥
yaḥ ca ayam manyu-jaḥ me agniḥ lokān ādātum icchati . dahet eṣa ca mām eva nigṛhītaḥ sva-tejasā ..15..
भवतां च विजानामि सर्वलोकहितेप्सुताम् । तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥१६॥
भवताम् च विजानामि सर्व-लोक-हित-ईप्सु-ताम् । तस्मात् विदध्वम् यत् श्रेयः लोकानाम् मम च ईश्वराः ॥१६॥
bhavatām ca vijānāmi sarva-loka-hita-īpsu-tām . tasmāt vidadhvam yat śreyaḥ lokānām mama ca īśvarāḥ ..16..
पितर ऊचुः॥
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥१७॥
यः एष मन्यु-जः ते अग्निः लोकान् आदातुम् इच्छति । अप्सु तम् मुञ्च भद्रम् ते लोकाः हि अप्सु प्रतिष्ठिताः ॥१७॥
yaḥ eṣa manyu-jaḥ te agniḥ lokān ādātum icchati . apsu tam muñca bhadram te lokāḥ hi apsu pratiṣṭhitāḥ ..17..
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् । तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥१८॥
आपः-मयाः सर्व-रसाः सर्वम् आपः-मयम् जगत् । तस्मात् अप्सु विमुञ्च इमम् क्रोध-अग्निम् द्विजसत्तम ॥१८॥
āpaḥ-mayāḥ sarva-rasāḥ sarvam āpaḥ-mayam jagat . tasmāt apsu vimuñca imam krodha-agnim dvijasattama ..18..
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ । मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥१९॥
अयम् तिष्ठतु ते विप्र यदि इच्छसि महा-उदधौ । मन्यु-जः अग्निः दहन् आपः लोकाः हि आपः-मयाः स्मृताः ॥१९॥
ayam tiṣṭhatu te vipra yadi icchasi mahā-udadhau . manyu-jaḥ agniḥ dahan āpaḥ lokāḥ hi āpaḥ-mayāḥ smṛtāḥ ..19..
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति । न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥२०॥
एवम् प्रतिज्ञा सत्या इयम् तव अनघ भविष्यति । न च एव स अमराः लोकाः गमिष्यन्ति पराभवम् ॥२०॥
evam pratijñā satyā iyam tava anagha bhaviṣyati . na ca eva sa amarāḥ lokāḥ gamiṣyanti parābhavam ..20..
वसिष्ठ उवाच॥
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये । उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥२१॥
ततस् तम् क्रोध-जम् तात और्वः अग्निम् वरुणालये । उत्ससर्ज स च एव अपः उपयुङ्क्ते महा-उदधौ ॥२१॥
tatas tam krodha-jam tāta aurvaḥ agnim varuṇālaye . utsasarja sa ca eva apaḥ upayuṅkte mahā-udadhau ..21..
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः । तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥२२॥
महत् हयशिरः भूत्वा यत् तत् वेद-विदः विदुः । तम् अग्निम् उद्गिरन् वक्त्रात् पिबति अपः महोदधौ ॥२२॥
mahat hayaśiraḥ bhūtvā yat tat veda-vidaḥ viduḥ . tam agnim udgiran vaktrāt pibati apaḥ mahodadhau ..22..
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि । पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥२३॥1.179.23
तस्मात् त्वम् अपि भद्रम् ते न लोकान् हन्तुम् अर्हसि । पराशर परान् धर्मान् जानन् ज्ञानवताम् वर ॥२३॥१।१७९।२३
tasmāt tvam api bhadram te na lokān hantum arhasi . parāśara parān dharmān jānan jñānavatām vara ..23..1.179.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In