ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः । ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥१३॥ ( सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ॥१३॥ )
PADACHEDA
ये च शक्ति-अवराः पुत्राः वसिष्ठस्य महा-मुनेः । ते च सर्वे मुदा युक्ताः मोदन्ते सहिताः सुरैः ॥१३॥ ( सर्वम् एतत् वसिष्ठस्य विदितम् वै महा-मुने ॥१३॥ )
TRANSLITERATION
ye ca śakti-avarāḥ putrāḥ vasiṣṭhasya mahā-muneḥ . te ca sarve mudā yuktāḥ modante sahitāḥ suraiḥ ..13.. ( sarvam etat vasiṣṭhasya viditam vai mahā-mune ..13.. )
रक्षसां च समुच्छेद एष तात तपस्विनाम् । निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ॥१४॥ ( स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥१४॥ )
PADACHEDA
रक्षसाम् च समुच्छेदः एष तात तपस्विनाम् । निमित्त-भूतः त्वम् च अत्र क्रतौ वासिष्ठ-नन्दन ॥१४॥ ( स सत्रम् मुञ्च भद्रम् ते समाप्तम् इदम् अस्तु ते ॥१४॥ )
TRANSLITERATION
rakṣasām ca samucchedaḥ eṣa tāta tapasvinām . nimitta-bhūtaḥ tvam ca atra kratau vāsiṣṭha-nandana ..14.. ( sa satram muñca bhadram te samāptam idam astu te ..14.. )