| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अर्जुन उवाच॥
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे । कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ॥१॥
राज्ञा कल्माषपादेन गुरौ ब्रह्म-विदाम् वरे । कारणम् किम् पुरस्कृत्य भार्या वै संनियोजिता ॥१॥
rājñā kalmāṣapādena gurau brahma-vidām vare . kāraṇam kim puraskṛtya bhāryā vai saṃniyojitā ..1..
जानता च परं धर्मं लोक्यं तेन महात्मना । अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ॥२॥ ( कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥२॥ )
जानता च परम् धर्मम् लोक्यम् तेन महात्मना । अगम्या-आगमनम् कस्मात् वसिष्ठेन महात्मना ॥२॥ ( कृतम् तेन पुरा सर्वम् वक्तुम् अर्हसि पृच्छतः ॥२॥ )
jānatā ca param dharmam lokyam tena mahātmanā . agamyā-āgamanam kasmāt vasiṣṭhena mahātmanā ..2.. ( kṛtam tena purā sarvam vaktum arhasi pṛcchataḥ ..2.. )
गन्धर्व उवाच॥
धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि । वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ॥३॥
धनञ्जय निबोध इदम् यत् माम् त्वम् परिपृच्छसि । वसिष्ठम् प्रति दुर्धर्षम् तथा अमित्रसहम् नृपम् ॥३॥
dhanañjaya nibodha idam yat mām tvam paripṛcchasi . vasiṣṭham prati durdharṣam tathā amitrasaham nṛpam ..3..
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः । शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥४॥
कथितम् ते मया पूर्वम् यथा शप्तः स पार्थिवः । शक्तिना भरत-श्रेष्ठ वासिष्ठेन महात्मना ॥४॥
kathitam te mayā pūrvam yathā śaptaḥ sa pārthivaḥ . śaktinā bharata-śreṣṭha vāsiṣṭhena mahātmanā ..4..
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः । निर्जगाम पुराद्राजा सहदारः परन्तपः ॥५॥
स तु शाप-वशम् प्राप्तः क्रोध-पर्याकुल-ईक्षणः । निर्जगाम पुरात् राजा सहदारः परन्तपः ॥५॥
sa tu śāpa-vaśam prāptaḥ krodha-paryākula-īkṣaṇaḥ . nirjagāma purāt rājā sahadāraḥ parantapaḥ ..5..
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे । नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ॥६॥
अरण्यम् निर्जनम् गत्वा स दारः परिचक्रमे । नाना मृग-गण-आकीर्णम् नाना सत्त्व-समाकुलम् ॥६॥
araṇyam nirjanam gatvā sa dāraḥ paricakrame . nānā mṛga-gaṇa-ākīrṇam nānā sattva-samākulam ..6..
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् । अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ॥७॥
नाना गुल्म-लता-आच्छन्नम् नाना द्रुम-समावृतम् । अरण्यम् घोर-संनादम् शाप-ग्रस्तः परिभ्रमन् ॥७॥
nānā gulma-latā-ācchannam nānā druma-samāvṛtam . araṇyam ghora-saṃnādam śāpa-grastaḥ paribhraman ..7..
स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः । ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ॥८॥ ( ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ ॥८॥ )
स कदाचिद् क्षुधा-आविष्टः मृगयन् भक्षम् आत्मनः । ददर्श सु परिक्लिष्टः कस्मिंश्चिद् वन-निर्झरे ॥८॥ ( ब्राह्मणीम् ब्राह्मणम् च एव मैथुनाय उपसङ्गतौ ॥८॥ )
sa kadācid kṣudhā-āviṣṭaḥ mṛgayan bhakṣam ātmanaḥ . dadarśa su parikliṣṭaḥ kasmiṃścid vana-nirjhare ..8.. ( brāhmaṇīm brāhmaṇam ca eva maithunāya upasaṅgatau ..8.. )
तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ । तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ॥९॥
तौ समीक्ष्य तु वित्रस्तौ अकृतार्थौ प्रधावितौ । तयोः च द्रवतोः विप्रम् जगृहे नृपतिः बलात् ॥९॥
tau samīkṣya tu vitrastau akṛtārthau pradhāvitau . tayoḥ ca dravatoḥ vipram jagṛhe nṛpatiḥ balāt ..9..
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत । शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ॥१०॥
दृष्ट्वा गृहीतम् भर्तारम् अथ ब्राह्मणी अभाषत । शृणु राजन् वचः मह्यम् यत् त्वाम् वक्ष्यामि सुव्रत ॥१०॥
dṛṣṭvā gṛhītam bhartāram atha brāhmaṇī abhāṣata . śṛṇu rājan vacaḥ mahyam yat tvām vakṣyāmi suvrata ..10..
आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः । अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ॥११॥
आदित्य-वंश-प्रभवः त्वम् हि लोक-परिश्रुतः । अप्रमत्तः स्थितः धर्मे गुरु-शुश्रूषणे रतः ॥११॥
āditya-vaṃśa-prabhavaḥ tvam hi loka-pariśrutaḥ . apramattaḥ sthitaḥ dharme guru-śuśrūṣaṇe rataḥ ..11..
शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि । ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता ॥१२॥
शापम् प्राप्तः असि दुर्धर्ष न पापम् कर्तुम् अर्हसि । ऋतु-काले तु सम्प्राप्ते भर्त्रा अस्मि अद्य समागता ॥१२॥
śāpam prāptaḥ asi durdharṣa na pāpam kartum arhasi . ṛtu-kāle tu samprāpte bhartrā asmi adya samāgatā ..12..
अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् । प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ॥१३॥
अकृतार्था हि अहम् भर्त्रा प्रसव-अर्थः च मे महान् । प्रसीद नृपति-श्रेष्ठ भर्ता मे अयम् विसृज्यताम् ॥१३॥
akṛtārthā hi aham bhartrā prasava-arthaḥ ca me mahān . prasīda nṛpati-śreṣṭha bhartā me ayam visṛjyatām ..13..
एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् । भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ॥१४॥
एवम् विक्रोशमानायाः तस्याः स सु नृशंस-कृत् । भर्तारम् भक्षयामास व्याघ्रः मृगम् इव ईप्सितम् ॥१४॥
evam vikrośamānāyāḥ tasyāḥ sa su nṛśaṃsa-kṛt . bhartāram bhakṣayāmāsa vyāghraḥ mṛgam iva īpsitam ..14..
तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि । सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ॥१५॥
तस्याः क्रोध-अभिभूतायाः यत् अश्रु न्यपतत् भुवि । सः अग्निः समभवत् दीप्तः तम् च देशम् व्यदीपयत् ॥१५॥
tasyāḥ krodha-abhibhūtāyāḥ yat aśru nyapatat bhuvi . saḥ agniḥ samabhavat dīptaḥ tam ca deśam vyadīpayat ..15..
ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता । कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ॥१६॥
ततस् सा शोक-सन्तप्ता भर्तृ-व्यसन-दुःखिता । कल्माषपादम् राजर्षिम् अशपत् ब्राह्मणी रुषा ॥१६॥
tatas sā śoka-santaptā bhartṛ-vyasana-duḥkhitā . kalmāṣapādam rājarṣim aśapat brāhmaṇī ruṣā ..16..
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् । प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ॥१७॥
यस्मात् मम अकृतार्थायाः त्वया क्षुद्र नृशंस-वत् । प्रेक्षन्त्याः भक्षितः मे अद्य प्रभुः भर्ता महा-यशाः ॥१७॥
yasmāt mama akṛtārthāyāḥ tvayā kṣudra nṛśaṃsa-vat . prekṣantyāḥ bhakṣitaḥ me adya prabhuḥ bhartā mahā-yaśāḥ ..17..
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः । पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ॥१८॥
तस्मात् त्वम् अपि दुर्बुद्धे मद्-शाप-परिविक्षतः । पत्नी-मृतौ अनुप्राप्य सद्यस् त्यक्ष्यसि जीवितम् ॥१८॥
tasmāt tvam api durbuddhe mad-śāpa-parivikṣataḥ . patnī-mṛtau anuprāpya sadyas tyakṣyasi jīvitam ..18..
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः । तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ॥१९॥ ( स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥१९॥ )
यस्य च ऋषेः वसिष्ठस्य त्वया पुत्राः विनाशिताः । तेन सङ्गम्य ते भार्या तनयम् जनयिष्यति ॥१९॥ ( स ते वंश-करः पुत्रः भविष्यति नृप-अधम ॥१९॥ )
yasya ca ṛṣeḥ vasiṣṭhasya tvayā putrāḥ vināśitāḥ . tena saṅgamya te bhāryā tanayam janayiṣyati ..19.. ( sa te vaṃśa-karaḥ putraḥ bhaviṣyati nṛpa-adhama ..19.. )
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा । तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ॥२०॥
एवम् शप्त्वा तु राजानम् सा तम् आङ्गिरसी शुभा । तस्य एव संनिधौ दीप्तम् प्रविवेश हुताशनम् ॥२०॥
evam śaptvā tu rājānam sā tam āṅgirasī śubhā . tasya eva saṃnidhau dīptam praviveśa hutāśanam ..20..
वसिष्ठश्च महाभागः सर्वमेतदपश्यत । ज्ञानयोगेन महता तपसा च परन्तप ॥२१॥
वसिष्ठः च महाभागः सर्वम् एतत् अपश्यत । ज्ञान-योगेन महता तपसा च परन्तप ॥२१॥
vasiṣṭhaḥ ca mahābhāgaḥ sarvam etat apaśyata . jñāna-yogena mahatā tapasā ca parantapa ..21..
मुक्तशापश्च राजर्षिः कालेन महता ततः । ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥२२॥
मुक्त-शापः च राजर्षिः कालेन महता ततस् । ऋतु-काले अभिपतितः मदयन्त्या निवारितः ॥२२॥
mukta-śāpaḥ ca rājarṣiḥ kālena mahatā tatas . ṛtu-kāle abhipatitaḥ madayantyā nivāritaḥ ..22..
न हि सस्मार नृपतिस्तं शापं शापमोहितः । देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ॥२३॥ ( तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥२३॥ )
न हि सस्मार नृपतिः तम् शापम् शाप-मोहितः । देव्याः सः अथ वचः श्रुत्वा स तस्याः नृप-सत्तमः ॥२३॥ ( तम् च शापम् अनुस्मृत्य पर्यतप्यत् भृशम् तदा ॥२३॥ )
na hi sasmāra nṛpatiḥ tam śāpam śāpa-mohitaḥ . devyāḥ saḥ atha vacaḥ śrutvā sa tasyāḥ nṛpa-sattamaḥ ..23.. ( tam ca śāpam anusmṛtya paryatapyat bhṛśam tadā ..23.. )
एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् । स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥२४॥1.181.26
एतस्मात् कारणात् राजा वसिष्ठम् संन्ययोजयत् । स्व-दारे भरत-श्रेष्ठ शाप-दोष-समन्वितः ॥२४॥१।१८१।२६
etasmāt kāraṇāt rājā vasiṣṭham saṃnyayojayat . sva-dāre bharata-śreṣṭha śāpa-doṣa-samanvitaḥ ..24..1.181.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In