| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अर्जुन उवाच॥
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् । पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥१॥
अस्माकम् अनुरूपः वै यः स्यात् गन्धर्व वेद-विद् । पुरोहितः तम् आचक्ष्व सर्वम् हि विदितम् तव ॥१॥
asmākam anurūpaḥ vai yaḥ syāt gandharva veda-vid . purohitaḥ tam ācakṣva sarvam hi viditam tava ..1..
गन्धर्व उवाच॥
यवीयान्देवलस्यैष वने भ्राता तपस्यति । धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ॥२॥
यवीयान् देवलस्य एष वने भ्राता तपस्यति । धौम्यः उत्कोचके तीर्थे तम् वृणुध्वम् यदि इच्छथ ॥२॥
yavīyān devalasya eṣa vane bhrātā tapasyati . dhaumyaḥ utkocake tīrthe tam vṛṇudhvam yadi icchatha ..2..
वैशम्पायन उवाच॥
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि । गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ॥३॥
ततस् अर्जुनः अस्त्रम् आग्नेयम् प्रददौ तत् यथाविधि । गन्धर्वाय तदा प्रीतः वचनम् च इदम् अब्रवीत् ॥३॥
tatas arjunaḥ astram āgneyam pradadau tat yathāvidhi . gandharvāya tadā prītaḥ vacanam ca idam abravīt ..3..
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम । कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ॥४॥
त्वयि एव तावत् तिष्ठन्तु हयाः गन्धर्व-सत्तम । कर्म-काले ग्रहीष्यामि स्वस्ति ते अस्तु इति च अब्रवीत् ॥४॥
tvayi eva tāvat tiṣṭhantu hayāḥ gandharva-sattama . karma-kāle grahīṣyāmi svasti te astu iti ca abravīt ..4..
तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह । रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ॥५॥
ते अन्योन्यम् अभिसम्पूज्य गन्धर्वः पाण्डवाः च ह । रम्यात् भागीरथी-कच्छात् यथाकामम् प्रतस्थिरे ॥५॥
te anyonyam abhisampūjya gandharvaḥ pāṇḍavāḥ ca ha . ramyāt bhāgīrathī-kacchāt yathākāmam pratasthire ..5..
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते । तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥६॥
ततस् उत्कोचकम् तीर्थम् गत्वा धौम्य-आश्रमम् तु ते । तम् वव्रुः पाण्डवाः धौम्यम् पौरोहित्याय भारत ॥६॥
tatas utkocakam tīrtham gatvā dhaumya-āśramam tu te . tam vavruḥ pāṇḍavāḥ dhaumyam paurohityāya bhārata ..6..
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः । पाद्येन फलमूलेन पौरोहित्येन चैव ह ॥७॥
तान् धौम्यः प्रतिजग्राह सर्व-वेद-विदाम् वरः । पाद्येन फल-मूलेन पौरोहित्येन च एव ह ॥७॥
tān dhaumyaḥ pratijagrāha sarva-veda-vidām varaḥ . pādyena phala-mūlena paurohityena ca eva ha ..7..
ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः । तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ॥८॥
ते तदा आशंसिरे लब्धाम् श्रियम् राज्यम् च पाण्डवाः । तम् ब्राह्मणम् पुरस्कृत्य पाञ्चाल्याः च स्वयंवरम् ॥८॥
te tadā āśaṃsire labdhām śriyam rājyam ca pāṇḍavāḥ . tam brāhmaṇam puraskṛtya pāñcālyāḥ ca svayaṃvaram ..8..
मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा । नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥९॥
मातृ-षष्ठाः तु ते तेन गुरुणा सङ्ग-ताः तदा । नाथवन्तम् इव आत्मानम् मेनिरे भरत-ऋषभाः ॥९॥
mātṛ-ṣaṣṭhāḥ tu te tena guruṇā saṅga-tāḥ tadā . nāthavantam iva ātmānam menire bharata-ṛṣabhāḥ ..9..
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः । तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ॥१०॥
स हि वेद-अर्थ-तत्त्व-ज्ञः तेषाम् गुरुः उदार-धीः । तेन धर्म-विदा पार्थाः याज्याः सर्व-विदा कृताः ॥१०॥
sa hi veda-artha-tattva-jñaḥ teṣām guruḥ udāra-dhīḥ . tena dharma-vidā pārthāḥ yājyāḥ sarva-vidā kṛtāḥ ..10..
वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः । बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ॥११॥
वीरान् तु स हि तान् मेने प्राप्त-राज्यान् स्वधर्मतः । बुद्धि-वीर्य-बल-उत्साहैः युक्तान् देवान् इव अपरान् ॥११॥
vīrān tu sa hi tān mene prāpta-rājyān svadharmataḥ . buddhi-vīrya-bala-utsāhaiḥ yuktān devān iva aparān ..11..
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः । मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥१२॥1.182.12
कृत-स्वस्त्ययनाः तेन ततस् ते मनुज-अधिपाः । मेनिरे सहिताः गन्तुम् पाञ्चाल्याः तम् स्वयंवरम् ॥१२॥१।१८२।१२
kṛta-svastyayanāḥ tena tatas te manuja-adhipāḥ . menire sahitāḥ gantum pāñcālyāḥ tam svayaṃvaram ..12..1.182.12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In