| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥१॥
ततस् ते नर-शार्दूलाः भ्रातरः पञ्च पाण्डवाः । प्रययुः द्रौपदीम् द्रष्टुम् तम् च देव-महा-उत्सवम् ॥१॥
tatas te nara-śārdūlāḥ bhrātaraḥ pañca pāṇḍavāḥ . prayayuḥ draupadīm draṣṭum tam ca deva-mahā-utsavam ..1..
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः । ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥२॥
ते प्रयाताः नर-व्याघ्राः मात्रा सह परन्तपाः । ब्राह्मणान् ददृशुः मार्गे गच्छतः स गणान् बहून् ॥२॥
te prayātāḥ nara-vyāghrāḥ mātrā saha parantapāḥ . brāhmaṇān dadṛśuḥ mārge gacchataḥ sa gaṇān bahūn ..2..
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः । क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥३॥
तान् ऊचुः ब्राह्मणाः राजन् पाण्डवान् ब्रह्मचारिणः । क्व भवन्तः गमिष्यन्ति कुतस् वा अगच्छत इति ह ॥३॥
tān ūcuḥ brāhmaṇāḥ rājan pāṇḍavān brahmacāriṇaḥ . kva bhavantaḥ gamiṣyanti kutas vā agacchata iti ha ..3..
युधिष्ठिर उवाच॥
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः । भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥४॥
आगतान् एकचक्रायाः सोदर्यान् देवदर्शिनः । भवन्तः हि विजानन्तु सहितान् मातृ-चारिणः ॥४॥
āgatān ekacakrāyāḥ sodaryān devadarśinaḥ . bhavantaḥ hi vijānantu sahitān mātṛ-cāriṇaḥ ..4..
ब्राह्मणा ऊचुः॥
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् । स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥५॥
गच्छत अद्य एव पाञ्चालान् द्रुपदस्य निवेशनम् । स्वयंवरः महान् तत्र भविता सु महाधनः ॥५॥
gacchata adya eva pāñcālān drupadasya niveśanam . svayaṃvaraḥ mahān tatra bhavitā su mahādhanaḥ ..5..
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः । तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ॥६॥
एक-सार्थम् प्रयाताः स्मः वयम् अपि अत्र गामिनः । तत्र हि अद्भुत-सङ्काशः भविता सु महा-उत्सवः ॥६॥
eka-sārtham prayātāḥ smaḥ vayam api atra gāminaḥ . tatra hi adbhuta-saṅkāśaḥ bhavitā su mahā-utsavaḥ ..6..
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः । वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥७॥
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः । वेदी-मध्यात् समुत्पन्ना पद्म-पत्र-निभ-ईक्षणा ॥७॥
yajñasenasya duhitā drupadasya mahātmanaḥ . vedī-madhyāt samutpannā padma-patra-nibha-īkṣaṇā ..7..
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी । धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥८॥
दर्शनीया अनवद्य-अङ्गी सुकुमारी मनस्विनी । धृष्टद्युम्नस्य भगिनी द्रोण-शत्रोः प्रतापिनः ॥८॥
darśanīyā anavadya-aṅgī sukumārī manasvinī . dhṛṣṭadyumnasya bhaginī droṇa-śatroḥ pratāpinaḥ ..8..
यो जातः कवची खड्गी सशरः सशरासनः । सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥९॥
यः जातः कवची खड्गी स शरः स शरासनः । सु समिद्धे महा-बाहुः पावके पावक-प्रभः ॥९॥
yaḥ jātaḥ kavacī khaḍgī sa śaraḥ sa śarāsanaḥ . su samiddhe mahā-bāhuḥ pāvake pāvaka-prabhaḥ ..9..
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा । नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥१०॥
स्वसा तस्य अनवद्य-अङ्गी द्रौपदी तनु-मध्यमा । नीलोत्पल-समः गन्धः यस्याः क्रोशात् प्रवायति ॥१०॥
svasā tasya anavadya-aṅgī draupadī tanu-madhyamā . nīlotpala-samaḥ gandhaḥ yasyāḥ krośāt pravāyati ..10..
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् । गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥११॥
ताम् यज्ञसेनस्य सुताम् स्वयंवर-कृत-क्षणाम् । गच्छामहे वयम् द्रष्टुम् तम् च देव-महा-उत्सवम् ॥११॥
tām yajñasenasya sutām svayaṃvara-kṛta-kṣaṇām . gacchāmahe vayam draṣṭum tam ca deva-mahā-utsavam ..11..
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः । स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥१२॥
राजानः राजपुत्राः च यज्वानः भूरि-दक्षिणाः । स्वाध्यायवन्तः शुचयः महात्मानः यत-व्रताः ॥१२॥
rājānaḥ rājaputrāḥ ca yajvānaḥ bhūri-dakṣiṇāḥ . svādhyāyavantaḥ śucayaḥ mahātmānaḥ yata-vratāḥ ..12..
तरुणा दर्शनीयाश्च नानादेशसमागताः । महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥१३॥
तरुणाः दर्शनीयाः च नाना देश-समागताः । महा-रथाः कृतास्त्राः च समुपैष्यन्ति भूमिपाः ॥१३॥
taruṇāḥ darśanīyāḥ ca nānā deśa-samāgatāḥ . mahā-rathāḥ kṛtāstrāḥ ca samupaiṣyanti bhūmipāḥ ..13..
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः । प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥१४॥
ते तत्र विविधान् दायान् विजय-अर्थम् नरेश्वराः । प्रदास्यन्ति धनम् गाः च भक्ष्यम् भोज्यम् च सर्वशस् ॥१४॥
te tatra vividhān dāyān vijaya-artham nareśvarāḥ . pradāsyanti dhanam gāḥ ca bhakṣyam bhojyam ca sarvaśas ..14..
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् । अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥१५॥
प्रतिगृह्य च तत् सर्वम् दृष्ट्वा च एव स्वयंवरम् । अनुभूय उत्सवम् च एव गमिष्यामः यथा ईप्सितम् ॥१५॥
pratigṛhya ca tat sarvam dṛṣṭvā ca eva svayaṃvaram . anubhūya utsavam ca eva gamiṣyāmaḥ yathā īpsitam ..15..
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः । नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥१६॥
नटाः वैतालिकाः च एव नर्तकाः सूत-मागधाः । नियोधकाः च देशेभ्यः समेष्यन्ति महा-बलाः ॥१६॥
naṭāḥ vaitālikāḥ ca eva nartakāḥ sūta-māgadhāḥ . niyodhakāḥ ca deśebhyaḥ sameṣyanti mahā-balāḥ ..16..
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च । सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥१७॥
एवम् कौतूहलम् कृत्वा दृष्ट्वा च प्रतिगृह्य च । सह अस्माभिः महात्मानः पुनर् प्रतिनिवर्त्स्यथ ॥१७॥
evam kautūhalam kṛtvā dṛṣṭvā ca pratigṛhya ca . saha asmābhiḥ mahātmānaḥ punar pratinivartsyatha ..17..
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् । समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् ॥१८॥
दर्शनीयान् च वः सर्वान् देव-रूपान् अवस्थितान् । समीक्ष्य कृष्णा वरयेत् सङ्गत्या अन्यतमम् वरम् ॥१८॥
darśanīyān ca vaḥ sarvān deva-rūpān avasthitān . samīkṣya kṛṣṇā varayet saṅgatyā anyatamam varam ..18..
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः । नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु ॥१९॥
अयम् भ्राता तव श्रीमान् दर्शनीयः महा-भुजः । नियुध्यमानः विजयेत् सङ्गत्या द्रविणम् बहु ॥१९॥
ayam bhrātā tava śrīmān darśanīyaḥ mahā-bhujaḥ . niyudhyamānaḥ vijayet saṅgatyā draviṇam bahu ..19..
युधिष्ठिर उवाच॥
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् । भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥२०॥1.183.20
परमम् भो गमिष्यामः द्रष्टुम् देव-महा-उत्सवम् । भवद्भिः सहिताः सर्वे कन्यायाः तम् स्वयंवरम् ॥२०॥१।१८३।२०
paramam bho gamiṣyāmaḥ draṣṭum deva-mahā-utsavam . bhavadbhiḥ sahitāḥ sarve kanyāyāḥ tam svayaṃvaram ..20..1.183.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In