| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय । राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ॥१॥
एवम् उक्ताः प्रयाताः ते पाण्डवाः जनमेजय । राज्ञा दक्षिण-पाञ्चालान् द्रुपदेन अभिरक्षितान् ॥१॥
evam uktāḥ prayātāḥ te pāṇḍavāḥ janamejaya . rājñā dakṣiṇa-pāñcālān drupadena abhirakṣitān ..1..
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् । ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ॥२॥
ततस् ते तम् महात्मानम् शुद्ध-आत्मानम् अकल्मषम् । ददृशुः पाण्डवाः राजन् पथि द्वैपायनम् तदा ॥२॥
tatas te tam mahātmānam śuddha-ātmānam akalmaṣam . dadṛśuḥ pāṇḍavāḥ rājan pathi dvaipāyanam tadā ..2..
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः । कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥३॥
तस्मै यथावत् सत्कारम् कृत्वा तेन च सान्त्विताः । कथा-अन्ते च अभ्यनुज्ञाताः प्रययुः द्रुपद-क्षयम् ॥३॥
tasmai yathāvat satkāram kṛtvā tena ca sāntvitāḥ . kathā-ante ca abhyanujñātāḥ prayayuḥ drupada-kṣayam ..3..
पश्यन्तो रमणीयानि वनानि च सरांसि च । तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ॥४॥
पश्यन्तः रमणीयानि वनानि च सरांसि च । तत्र तत्र वसन्तः च शनैस् जग्मुः महा-रथाः ॥४॥
paśyantaḥ ramaṇīyāni vanāni ca sarāṃsi ca . tatra tatra vasantaḥ ca śanais jagmuḥ mahā-rathāḥ ..4..
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः । आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ॥५॥
स्वाध्यायवन्तः शुचयः मधुराः प्रिय-वादिनः । आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान् कुरु-नन्दनाः ॥५॥
svādhyāyavantaḥ śucayaḥ madhurāḥ priya-vādinaḥ . ānupūrvyeṇa samprāptāḥ pāñcālān kuru-nandanāḥ ..5..
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः । कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥६॥
ते तु दृष्ट्वा पुरम् तत् च स्कन्धावारम् च पाण्डवाः । कुम्भकारस्य शालायाम् निवेशम् चक्रिरे तदा ॥६॥
te tu dṛṣṭvā puram tat ca skandhāvāram ca pāṇḍavāḥ . kumbhakārasya śālāyām niveśam cakrire tadā ..6..
तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः । तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ॥७॥
तत्र भैक्षम् समाजह्रुः ब्राह्मीम् वृत्तिम् समाश्रिताः । तान् च प्राप्तान् तदा वीरान् जज्ञिरे न नराः क्वचिद् ॥७॥
tatra bhaikṣam samājahruḥ brāhmīm vṛttim samāśritāḥ . tān ca prāptān tadā vīrān jajñire na narāḥ kvacid ..7..
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने । कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ॥८॥
यज्ञसेनस्य कामः तु पाण्डवाय किरीटिने । कृष्णाम् दद्याम् इति सदा न च एतत् विवृणोति सः ॥८॥
yajñasenasya kāmaḥ tu pāṇḍavāya kirīṭine . kṛṣṇām dadyām iti sadā na ca etat vivṛṇoti saḥ ..8..
सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय । दृढं धनुरनायम्यं कारयामास भारत ॥९॥
सः अन्वेषमाणः कौन्तेयान् पाञ्चाल्यः जनमेजय । दृढम् धनुः अनायम्यम् कारयामास भारत ॥९॥
saḥ anveṣamāṇaḥ kaunteyān pāñcālyaḥ janamejaya . dṛḍham dhanuḥ anāyamyam kārayāmāsa bhārata ..9..
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् । तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ॥१०॥
यन्त्रम् वैहायसम् च अपि कारयामास कृत्रिमम् । तेन यन्त्रेण सहितम् राजा लक्ष्यम् च काञ्चनम् ॥१०॥
yantram vaihāyasam ca api kārayāmāsa kṛtrimam . tena yantreṇa sahitam rājā lakṣyam ca kāñcanam ..10..
द्रुपद उवाच॥
इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः । अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ॥११॥
इदम् सज्यम् धनुः कृत्वा सज्येन अनेन सायकैः । अतीत्य लक्ष्यम् यः वेद्धा स लब्धा मद्-सुताम् इति ॥११॥
idam sajyam dhanuḥ kṛtvā sajyena anena sāyakaiḥ . atītya lakṣyam yaḥ veddhā sa labdhā mad-sutām iti ..11..
वैशम्पायन उवाच॥
इति स द्रुपदो राजा सर्वतः समघोषयत् । तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥१२॥
इति स द्रुपदः राजा सर्वतस् समघोषयत् । तत् श्रुत्वा पार्थिवाः सर्वे समीयुः तत्र भारत ॥१२॥
iti sa drupadaḥ rājā sarvatas samaghoṣayat . tat śrutvā pārthivāḥ sarve samīyuḥ tatra bhārata ..12..
ऋषयश्च महात्मानः स्वयंवरदिदृक्षया । दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥१३॥
ऋषयः च महात्मानः स्वयंवर-दिदृक्षया । दुर्योधन-पुरोगाः च स कर्णाः कुरवः नृप ॥१३॥
ṛṣayaḥ ca mahātmānaḥ svayaṃvara-didṛkṣayā . duryodhana-purogāḥ ca sa karṇāḥ kuravaḥ nṛpa ..13..
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् । तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ॥१४॥
ब्राह्मणाः च महाभागाः देशेभ्यः समुपागमन् । ते अभ्यर्चिताः राज-गणाः द्रुपदेन महात्मना ॥१४॥
brāhmaṇāḥ ca mahābhāgāḥ deśebhyaḥ samupāgaman . te abhyarcitāḥ rāja-gaṇāḥ drupadena mahātmanā ..14..
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः । शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ॥१५॥
ततस् पौर-जनाः सर्वे सागर-उद्धूत-निःस्वनाः । शिशुमार-पुरम् प्राप्य न्यविशन् ते च पार्थिवाः ॥१५॥
tatas paura-janāḥ sarve sāgara-uddhūta-niḥsvanāḥ . śiśumāra-puram prāpya nyaviśan te ca pārthivāḥ ..15..
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे । समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥१६॥
प्रागुत्तरेण नगरात् भूमि-भागे समे शुभे । समाज-वाटः शुशुभे भवनैः सर्वतस् वृतः ॥१६॥
prāguttareṇa nagarāt bhūmi-bhāge same śubhe . samāja-vāṭaḥ śuśubhe bhavanaiḥ sarvatas vṛtaḥ ..16..
प्राकारपरिखोपेतो द्वारतोरणमण्डितः । वितानेन विचित्रेण सर्वतः समवस्तृतः ॥१७॥
प्राकार-परिखा-उपेतः द्वार-तोरण-मण्डितः । वितानेन विचित्रेण सर्वतस् समवस्तृतः ॥१७॥
prākāra-parikhā-upetaḥ dvāra-toraṇa-maṇḍitaḥ . vitānena vicitreṇa sarvatas samavastṛtaḥ ..17..
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः । चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ॥१८॥
। चन्दन-उदक-सिक्तः च माल्य-दामैः च शोभितः ॥१८॥
. candana-udaka-siktaḥ ca mālya-dāmaiḥ ca śobhitaḥ ..18..
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः । सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ॥१९॥
कैलास-शिखर-प्रख्यैः नभस्-तल-विलेखिभिः । सर्वतस् संवृतैः नद्धः प्रासादैः सु कृत-उच्छ्रितैः ॥१९॥
kailāsa-śikhara-prakhyaiḥ nabhas-tala-vilekhibhiḥ . sarvatas saṃvṛtaiḥ naddhaḥ prāsādaiḥ su kṛta-ucchritaiḥ ..19..
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः । सुखारोहणसोपानैर्महासनपरिच्छदैः ॥२०॥
सुवर्ण-जाल-संवीतैः मणि-कुट्टिम-भूषितैः । सुख-आरोहण-सोपानैः महा-आसन-परिच्छदैः ॥२०॥
suvarṇa-jāla-saṃvītaiḥ maṇi-kuṭṭima-bhūṣitaiḥ . sukha-ārohaṇa-sopānaiḥ mahā-āsana-paricchadaiḥ ..20..
अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः । हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥२१॥
अ ग्राम्य-समवच्छन्नैः अ गुरु-उत्तम-वासितैः । हंस-अच्छ-वर्णैः बहुभिः आयोजन-सुगन्धिभिः ॥२१॥
a grāmya-samavacchannaiḥ a guru-uttama-vāsitaiḥ . haṃsa-accha-varṇaiḥ bahubhiḥ āyojana-sugandhibhiḥ ..21..
असम्बाधशतद्वारैः शयनासनशोभितैः । बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥२२॥
असम्बाध-शत-द्वारैः शयन-आसन-शोभितैः । बहु-धातु-पिनद्ध-अङ्गैः हिमवत्-शिखरैः इव ॥२२॥
asambādha-śata-dvāraiḥ śayana-āsana-śobhitaiḥ . bahu-dhātu-pinaddha-aṅgaiḥ himavat-śikharaiḥ iva ..22..
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः । स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ॥२३॥
तत्र नाना प्रकारेषु विमानेषु सु अलङ्कृताः । स्पर्धमानाः तदा अन्योन्यम् निषेदुः सर्व-पार्थिवाः ॥२३॥
tatra nānā prakāreṣu vimāneṣu su alaṅkṛtāḥ . spardhamānāḥ tadā anyonyam niṣeduḥ sarva-pārthivāḥ ..23..
तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् । राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥२४॥
तत्र उपविष्टान् ददृशुः महा-सत्त्व-पराक्रमान् । राज-सिंहान् महाभागान् कृष्ण-अगुरु-विभूषितान् ॥२४॥
tatra upaviṣṭān dadṛśuḥ mahā-sattva-parākramān . rāja-siṃhān mahābhāgān kṛṣṇa-aguru-vibhūṣitān ..24..
महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः । प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥२५॥
महा-प्रसादान् ब्रह्मण्यान् स्व-राष्ट्र-परिरक्षिणः । प्रियान् सर्वस्य लोकस्य सु कृतैः कर्मभिः शुभैः ॥२५॥
mahā-prasādān brahmaṇyān sva-rāṣṭra-parirakṣiṇaḥ . priyān sarvasya lokasya su kṛtaiḥ karmabhiḥ śubhaiḥ ..25..
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः । कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ॥२६॥
मञ्चेषु च परार्ध्येषु पौर-जानपदाः जनाः । कृष्ण-अ दर्शन-तुष्टि-अर्थम् सर्वतस् समुपाविशन् ॥२६॥
mañceṣu ca parārdhyeṣu paura-jānapadāḥ janāḥ . kṛṣṇa-a darśana-tuṣṭi-artham sarvatas samupāviśan ..26..
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् । ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥२७॥
ब्राह्मणैः ते च सहिताः पाण्डवाः समुपाविशन् । ऋद्धिम् पाञ्चाल-राजस्य पश्यन्तः ताम् अनुत्तमाम् ॥२७॥
brāhmaṇaiḥ te ca sahitāḥ pāṇḍavāḥ samupāviśan . ṛddhim pāñcāla-rājasya paśyantaḥ tām anuttamām ..27..
ततः समाजो ववृधे स राजन्दिवसान्बहून् । रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥२८॥
ततस् समाजः ववृधे स राजन् दिवसान् बहून् । रत्न-प्रदान-बहुलः शोभितः नट-नर्तकैः ॥२८॥
tatas samājaḥ vavṛdhe sa rājan divasān bahūn . ratna-pradāna-bahulaḥ śobhitaḥ naṭa-nartakaiḥ ..28..
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे । आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ॥२९॥
वर्तमाने समाजे तु रमणीये अह्नि षोडशे । आप्लुत-अङ्गी सु वसना सर्व-आभरण-भूषिता ॥२९॥
vartamāne samāje tu ramaṇīye ahni ṣoḍaśe . āpluta-aṅgī su vasanā sarva-ābharaṇa-bhūṣitā ..29..
वीरकांस्यमुपादाय काञ्चनं समलङ्कृतम् । अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ॥३०॥
वीर-कांस्यम् उपादाय काञ्चनम् समलङ्कृतम् । अवतीर्णा ततस् रङ्गम् द्रौपदी भरत-ऋषभ ॥३०॥
vīra-kāṃsyam upādāya kāñcanam samalaṅkṛtam . avatīrṇā tatas raṅgam draupadī bharata-ṛṣabha ..30..
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः । परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ॥३१॥
पुरोहितः सोमकानाम् मन्त्र-विद् ब्राह्मणः शुचिः । परिस्तीर्य जुहाव अग्निम् आज्येन विधिना तदा ॥३१॥
purohitaḥ somakānām mantra-vid brāhmaṇaḥ śuciḥ . paristīrya juhāva agnim ājyena vidhinā tadā ..31..
स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च । वारयामास सर्वाणि वादित्राणि समन्ततः ॥३२॥
स तर्पयित्वा ज्वलनम् ब्राह्मणान् स्वस्ति वाच्य च । वारयामास सर्वाणि वादित्राणि समन्ततः ॥३२॥
sa tarpayitvā jvalanam brāhmaṇān svasti vācya ca . vārayāmāsa sarvāṇi vāditrāṇi samantataḥ ..32..
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते । रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ॥३३॥ ( वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥३३॥ )
निःशब्दे तु कृते तस्मिन् धृष्टद्युम्नः विशाम् पते । रङ्ग-मध्य-गतः तत्र मेघ-गम्भीरया गिरा ॥३३॥ ( वाक्यम् उच्चैस् जगाद इदम् श्लक्ष्णम् अर्थवत् उत्तमम् ॥३३॥ )
niḥśabde tu kṛte tasmin dhṛṣṭadyumnaḥ viśām pate . raṅga-madhya-gataḥ tatra megha-gambhīrayā girā ..33.. ( vākyam uccais jagāda idam ślakṣṇam arthavat uttamam ..33.. )
इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव । यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः ॥३४॥
इदम् धनुः लक्ष्यम् इमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्वे एव । यन्त्र-छिद्रेण अभ्यतिक्रम्य लक्ष्यम्; समर्पयध्वम् खगमैः दशार्धैः ॥३४॥
idam dhanuḥ lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarve eva . yantra-chidreṇa abhyatikramya lakṣyam; samarpayadhvam khagamaiḥ daśārdhaiḥ ..34..
एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः । तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि ॥३५॥
एतत् कर्ता कर्म सु दुष्करम् यः; कुलेन रूपेण बलेन युक्तः । तस्य अद्य भार्या भगिनी मम इयम्; कृष्णा भवित्री न मृषा ब्रवीमि ॥३५॥
etat kartā karma su duṣkaram yaḥ; kulena rūpeṇa balena yuktaḥ . tasya adya bhāryā bhaginī mama iyam; kṛṣṇā bhavitrī na mṛṣā bravīmi ..35..
तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच । नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तयंस्तान्नृपतीन्समेतान् ॥३६॥ 1.184.37
तान् एवम् उक्त्वा द्रुपदस्य पुत्रः; पश्चात् इदम् द्रौपदीम् अभ्युवाच । नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तयन् तान् नृपतीन् समेतान् ॥३६॥ १।१८४।३७
tān evam uktvā drupadasya putraḥ; paścāt idam draupadīm abhyuvāca . nāmnā ca gotreṇa ca karmaṇā ca; saṅkīrtayan tān nṛpatīn sametān ..36.. 1.184.37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In