| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

धृष्टद्युम्न उवाच॥
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः । विविंशतिर्विकर्णश्च सहो दुःशासनः समः ॥१॥
दुर्योधनः दुर्विषहः दुर्मुखः दुष्प्रधर्षणः । विविंशतिः विकर्णः च सहः दुःशासनः समः ॥१॥
duryodhanaḥ durviṣahaḥ durmukhaḥ duṣpradharṣaṇaḥ . viviṃśatiḥ vikarṇaḥ ca sahaḥ duḥśāsanaḥ samaḥ ..1..
युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा । उग्रायुधो बलाकी च कनकायुर्विरोचनः ॥२॥
युयुत्सुः वातवेगः च भीमवेग-धरः तथा । उग्रायुधः बलाकी च कनकायुः विरोचनः ॥२॥
yuyutsuḥ vātavegaḥ ca bhīmavega-dharaḥ tathā . ugrāyudhaḥ balākī ca kanakāyuḥ virocanaḥ ..2..
सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः । नन्दको बाहुशाली च कुण्डजो विकटस्तथा ॥३॥
। नन्दकः बाहुशाली च कुण्डजः विकटः तथा ॥३॥
. nandakaḥ bāhuśālī ca kuṇḍajaḥ vikaṭaḥ tathā ..3..
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः । कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥४॥ ( शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ॥४॥ )
एते च अन्ये च बहवः धार्तराष्ट्राः महा-बलाः । कर्णेन सहिताः वीराः त्वद्-अर्थम् समुपागताः ॥४॥ ( शत-सङ्ख्याः महात्मानः प्रथिताः क्षत्रिय-ऋषभाः ॥४॥ )
ete ca anye ca bahavaḥ dhārtarāṣṭrāḥ mahā-balāḥ . karṇena sahitāḥ vīrāḥ tvad-artham samupāgatāḥ ..4.. ( śata-saṅkhyāḥ mahātmānaḥ prathitāḥ kṣatriya-ṛṣabhāḥ ..4.. )
शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः । एते गान्धारराजस्य सुताः सर्वे समागताः ॥५॥
शकुनिः च बलः च एव वृषकः अथ बृहत्-बलः । एते गान्धार-राजस्य सुताः सर्वे समागताः ॥५॥
śakuniḥ ca balaḥ ca eva vṛṣakaḥ atha bṛhat-balaḥ . ete gāndhāra-rājasya sutāḥ sarve samāgatāḥ ..5..
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ । समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ॥६॥
अश्वत्थामा च भोजः च सर्व-शस्त्रभृताम् वरौ । समवेतौ महात्मानौ त्वद्-अर्थे समलङ्कृतौ ॥६॥
aśvatthāmā ca bhojaḥ ca sarva-śastrabhṛtām varau . samavetau mahātmānau tvad-arthe samalaṅkṛtau ..6..
बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् । सहदेवो जयत्सेनो मेघसन्धिश्च मागधः ॥७॥
बृहन्तः मणिमान् च एव दण्डधारः च वीर्यवान् । सहदेवः जयत्सेनः मेघसन्धिः च मागधः ॥७॥
bṛhantaḥ maṇimān ca eva daṇḍadhāraḥ ca vīryavān . sahadevaḥ jayatsenaḥ meghasandhiḥ ca māgadhaḥ ..7..
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च । वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ॥८॥
विराटः सह पुत्राभ्याम् शङ्खेन एव उत्तरेण च । वार्धक्षेमिः सुवर्चाः च सेनाबिन्दुः च पार्थिवः ॥८॥
virāṭaḥ saha putrābhyām śaṅkhena eva uttareṇa ca . vārdhakṣemiḥ suvarcāḥ ca senābinduḥ ca pārthivaḥ ..8..
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा । सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ॥९॥
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा । सुमित्रः सुकुमारः च वृकः सत्यधृतिः तथा ॥९॥
abhibhūḥ saha putreṇa sudāmnā ca suvarcasā . sumitraḥ sukumāraḥ ca vṛkaḥ satyadhṛtiḥ tathā ..9..
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा । अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥१०॥
सूर्यध्वजः रोचमानः नीलः चित्रायुधः तथा । अंशुमान् चेकितानः च श्रेणिमान् च महा-बलः ॥१०॥
sūryadhvajaḥ rocamānaḥ nīlaḥ citrāyudhaḥ tathā . aṃśumān cekitānaḥ ca śreṇimān ca mahā-balaḥ ..10..
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् । जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च ॥११॥
समुद्रसेन-पुत्रः च चन्द्रसेनः प्रतापवान् । जलसन्धः पितापुत्रौ सुदण्डः दण्डः एव च ॥११॥
samudrasena-putraḥ ca candrasenaḥ pratāpavān . jalasandhaḥ pitāputrau sudaṇḍaḥ daṇḍaḥ eva ca ..11..
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् । कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ॥१२॥
पौण्ड्रकः वासुदेवः च भगदत्तः च वीर्यवान् । कलिङ्गः ताम्रलिप्तः च पत्तनाधिपतिः तथा ॥१२॥
pauṇḍrakaḥ vāsudevaḥ ca bhagadattaḥ ca vīryavān . kaliṅgaḥ tāmraliptaḥ ca pattanādhipatiḥ tathā ..12..
मद्रराजस्तथा शल्यः सहपुत्रो महारथः । रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥१३॥
मद्र-राजः तथा शल्यः सहपुत्रः महा-रथः । रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥१३॥
madra-rājaḥ tathā śalyaḥ sahaputraḥ mahā-rathaḥ . rukmāṅgadena vīreṇa tathā rukmarathena ca ..13..
कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः । समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥१४॥
कौरव्यः सोमदत्तः च पुत्राः च अस्य महा-रथाः । समवेताः त्रयः शूराः भूरिः भूरिश्रवाः शलः ॥१४॥
kauravyaḥ somadattaḥ ca putrāḥ ca asya mahā-rathāḥ . samavetāḥ trayaḥ śūrāḥ bhūriḥ bhūriśravāḥ śalaḥ ..14..
सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः । बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ॥१५॥
सुदक्षिणः च काम्बोजः दृढधन्वा च कौरवः । बृहत्-बलः सुषेणः च शिबिः औशीनरः तथा ॥१५॥
sudakṣiṇaḥ ca kāmbojaḥ dṛḍhadhanvā ca kauravaḥ . bṛhat-balaḥ suṣeṇaḥ ca śibiḥ auśīnaraḥ tathā ..15..
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् । साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ॥१६॥
सङ्कर्षणः वासुदेवः रौक्मिणेयः च वीर्यवान् । साम्बः च चारुदेष्णः च सारणः अथ गदः तथा ॥१६॥
saṅkarṣaṇaḥ vāsudevaḥ raukmiṇeyaḥ ca vīryavān . sāmbaḥ ca cārudeṣṇaḥ ca sāraṇaḥ atha gadaḥ tathā ..16..
अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः । कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥१७॥
अक्रूरः सात्यकिः च एव उद्धवः च महा-बलः । कृतवर्मा च हार्दिक्यः पृथुः विपृथुः एव च ॥१७॥
akrūraḥ sātyakiḥ ca eva uddhavaḥ ca mahā-balaḥ . kṛtavarmā ca hārdikyaḥ pṛthuḥ vipṛthuḥ eva ca ..17..
विडूरथश्च कङ्कश्च समीकः सारमेजयः । वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ॥१८॥ ( उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥१८॥ )
विदूरथः च कङ्कः च समीकः सारमेजयः । वीरः वातपतिः च एव झिल्ली पिण्डारकः तथा ॥१८॥ ( उशीनरः च विक्रान्तः वृष्णयः ते प्रकीर्तिताः ॥१८॥ )
vidūrathaḥ ca kaṅkaḥ ca samīkaḥ sāramejayaḥ . vīraḥ vātapatiḥ ca eva jhillī piṇḍārakaḥ tathā ..18.. ( uśīnaraḥ ca vikrāntaḥ vṛṣṇayaḥ te prakīrtitāḥ ..18.. )
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः । बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥१९॥
भगीरथः बृहत्क्षत्रः सैन्धवः च जयद्रथः । बृहद्रथः बाह्लिकः च श्रुतायुः च महा-रथः ॥१९॥
bhagīrathaḥ bṛhatkṣatraḥ saindhavaḥ ca jayadrathaḥ . bṛhadrathaḥ bāhlikaḥ ca śrutāyuḥ ca mahā-rathaḥ ..19..
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ । वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ॥२०॥
उलूकः कैतवः राजा चित्राङ्गद-शुभाङ्गदौ । वत्स-राजः च धृतिमान् कोसल-अधिपतिः तथा ॥२०॥
ulūkaḥ kaitavaḥ rājā citrāṅgada-śubhāṅgadau . vatsa-rājaḥ ca dhṛtimān kosala-adhipatiḥ tathā ..20..
एते चान्ये च बहवो नानाजनपदेश्वराः । त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ॥२१॥
एते च अन्ये च बहवः नाना जनपद-ईश्वराः । त्वद्-अर्थम् आगताः भद्रे क्षत्रियाः प्रथिताः भुवि ॥२१॥
ete ca anye ca bahavaḥ nānā janapada-īśvarāḥ . tvad-artham āgatāḥ bhadre kṣatriyāḥ prathitāḥ bhuvi ..21..
एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् । विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥२२॥ 1.185.24
एते वेत्स्यन्ति विक्रान्ताः त्वद्-अर्थम् लक्ष्यम् उत्तमम् । विध्येत यः इमम् लक्ष्यम् वरयेथाः शुभे अद्य तम् ॥२२॥ १।१८५।२४
ete vetsyanti vikrāntāḥ tvad-artham lakṣyam uttamam . vidhyeta yaḥ imam lakṣyam varayethāḥ śubhe adya tam ..22.. 1.185.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In