| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेऽलङ्कृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः । अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहङ्कृतेन ॥१॥
ते अलङ्कृताः कुण्डलिनः युवानः; परस्परम् स्पर्धमानाः समेताः । अस्त्रम् बलम् च आत्मनि मन्यमानाः; सर्वे समुत्पेतुः अहङ्कृतेन ॥१॥
te alaṅkṛtāḥ kuṇḍalinaḥ yuvānaḥ; parasparam spardhamānāḥ sametāḥ . astram balam ca ātmani manyamānāḥ; sarve samutpetuḥ ahaṅkṛtena ..1..
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन । समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ॥२॥
रूपेण वीर्येण कुलेन च एव; धर्मेण च एव अपि च यौवनेन । समृद्ध-दर्पा मद-वेग-भिन्ना; मत्ताः यथा हैमवताः गज-इन्द्राः ॥२॥
rūpeṇa vīryeṇa kulena ca eva; dharmeṇa ca eva api ca yauvanena . samṛddha-darpā mada-vega-bhinnā; mattāḥ yathā haimavatāḥ gaja-indrāḥ ..2..
परस्परं स्पर्धया प्रेक्षमाणाः; सङ्कल्पजेनापि परिप्लुताङ्गाः । कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ॥३॥
परस्परम् स्पर्धया प्रेक्षमाणाः; सङ्कल्पजेन अपि परिप्लुत-अङ्गाः । कृष्णा मम एषा इति अभिभाषमाणा; नृप-आसनेभ्यः सहसा उपतस्थुः ॥३॥
parasparam spardhayā prekṣamāṇāḥ; saṅkalpajena api paripluta-aṅgāḥ . kṛṣṇā mama eṣā iti abhibhāṣamāṇā; nṛpa-āsanebhyaḥ sahasā upatasthuḥ ..3..
ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् । चकाशिरे पर्वतराजकन्या; मुमां यथा देवगणाः समेताः ॥४॥
ते क्षत्रियाः रङ्ग-गताः समेता; जिगीषमाणाः द्रुपद-आत्मजाम् ताम् । चकाशिरे पर्वतराज-कन्या; यथा देव-गणाः समेताः ॥४॥
te kṣatriyāḥ raṅga-gatāḥ sametā; jigīṣamāṇāḥ drupada-ātmajām tām . cakāśire parvatarāja-kanyā; yathā deva-gaṇāḥ sametāḥ ..4..
कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः । रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ॥५॥
कन्दर्प-बाण-अभिनिपीडित-अङ्गाः; कृष्णा-गतैः ते हृदयैः नरेन्द्राः । रङ्ग-अवतीर्णा द्रुपद-आत्मजा-अर्थम्; द्वेष्यान् हि चक्रुः सुहृदः अपि तत्र ॥५॥
kandarpa-bāṇa-abhinipīḍita-aṅgāḥ; kṛṣṇā-gataiḥ te hṛdayaiḥ narendrāḥ . raṅga-avatīrṇā drupada-ātmajā-artham; dveṣyān hi cakruḥ suhṛdaḥ api tatra ..5..
अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च । साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ॥६॥
अथ आययुः देव-गणाः; रुद्र-आदित्याः वसवः अथ अश्विनौ च । साध्याः च सर्वे मरुतः तथा एव; यमम् पुरस्कृत्य धनेश्वरम् च ॥६॥
atha āyayuḥ deva-gaṇāḥ; rudra-ādityāḥ vasavaḥ atha aśvinau ca . sādhyāḥ ca sarve marutaḥ tathā eva; yamam puraskṛtya dhaneśvaram ca ..6..
दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च । विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥७॥
दैत्याः सुपर्णाः च महा-उरगाः च; देवर्षयः गुह्यकाः चारणाः च । विश्वावसुः नारद-पर्वतौ च; गन्धर्व-मुख्याः च सह अप्सरोभिः ॥७॥
daityāḥ suparṇāḥ ca mahā-uragāḥ ca; devarṣayaḥ guhyakāḥ cāraṇāḥ ca . viśvāvasuḥ nārada-parvatau ca; gandharva-mukhyāḥ ca saha apsarobhiḥ ..7..
हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः । प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः ॥८॥
हलायुधः तत्र च केशवः च; वृष्णि-अन्धकाः च एव यथा प्रधानाः । प्रेक्षाम् स्म चक्रुः यदु-पुङ्गवाः ते; स्थिताः च कृष्णस्य मते बभूवुः ॥८॥
halāyudhaḥ tatra ca keśavaḥ ca; vṛṣṇi-andhakāḥ ca eva yathā pradhānāḥ . prekṣām sma cakruḥ yadu-puṅgavāḥ te; sthitāḥ ca kṛṣṇasya mate babhūvuḥ ..8..
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा; न्पञ्चाभिपद्मानिव वारणेन्द्रान् । भस्मावृताङ्गानिव हव्यवाहा; न्पार्थान्प्रदध्यौ स यदुप्रवीरः ॥९॥
दृष्ट्वा हि तान् मत्त-गज-इन्द्र-रूपा; न् पञ्च अभिपद्मान् इव वारण-इन्द्रान् । भस्म-आवृत-अङ्गान् इव हव्यवाहा; न् पार्थान् प्रदध्यौ स यदु-प्रवीरः ॥९॥
dṛṣṭvā hi tān matta-gaja-indra-rūpā; n pañca abhipadmān iva vāraṇa-indrān . bhasma-āvṛta-aṅgān iva havyavāhā; n pārthān pradadhyau sa yadu-pravīraḥ ..9..
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ । शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ॥१०॥
शशंस रामाय युधिष्ठिरम् च; भीमम् च जिष्णुम् च यमौ च वीरौ । शनैस् शनैस् तान् च निरीक्ष्य; जनार्दनम् प्रीत-मनाः ददर्श ॥१०॥
śaśaṃsa rāmāya yudhiṣṭhiram ca; bhīmam ca jiṣṇum ca yamau ca vīrau . śanais śanais tān ca nirīkṣya; janārdanam prīta-manāḥ dadarśa ..10..
अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः । व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः ॥११॥
अन्ये तु नाना नृप-पुत्र-पौत्राः; कृष्णा-गतैः नेत्र-मनः-स्वभावैः । व्यायच्छमानाः ददृशुः भ्रमन्तीम्; संदष्ट-दन्तच्छद-ताम्र-वक्त्राः ॥११॥
anye tu nānā nṛpa-putra-pautrāḥ; kṛṣṇā-gataiḥ netra-manaḥ-svabhāvaiḥ . vyāyacchamānāḥ dadṛśuḥ bhramantīm; saṃdaṣṭa-dantacchada-tāmra-vaktrāḥ ..11..
तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ । तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः ॥१२॥
तथा एव पार्थाः पृथु-बाहवः ते; वीरौ यमौ च एव महा-अनुभावौ । ताम् द्रौपदीम् प्रेक्ष्य तदा स्म सर्वे; कन्दर्प-बाण-अभिहताः बभूवुः ॥१२॥
tathā eva pārthāḥ pṛthu-bāhavaḥ te; vīrau yamau ca eva mahā-anubhāvau . tām draupadīm prekṣya tadā sma sarve; kandarpa-bāṇa-abhihatāḥ babhūvuḥ ..12..
देवर्षिगन्धर्वसमाकुलं त; त्सुपर्णनागासुरसिद्धजुष्टम् । दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ॥१३॥
देव-ऋषि-गन्धर्व-समाकुलम् ते; त्सुपर्ण-नाग-असुर-सिद्ध-जुष्टम् । दिव्येन गन्धेन समाकुलम् च; दिव्यैः च माल्यैः अवकीर्यमाणम् ॥१३॥
deva-ṛṣi-gandharva-samākulam te; tsuparṇa-nāga-asura-siddha-juṣṭam . divyena gandhena samākulam ca; divyaiḥ ca mālyaiḥ avakīryamāṇam ..13..
महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्सङ्कुलमन्तरिक्षम् । विमानसम्बाधमभूत्समन्ता; त्सवेणुवीणापणवानुनादम् ॥१४॥
महा-स्वनैः दुन्दुभि-नादितैः च; बभूव तत् सङ्कुलम् अन्तरिक्षम् । विमान-सम्बाधम् अभूत् समन्ता; त्स-वेणु-वीणा-पणव-अनुनादम् ॥१४॥
mahā-svanaiḥ dundubhi-nāditaiḥ ca; babhūva tat saṅkulam antarikṣam . vimāna-sambādham abhūt samantā; tsa-veṇu-vīṇā-paṇava-anunādam ..14..
ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः । तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ॥१५॥
ततस् तु ते राज-गणाः क्रमेण; कृष्णा-निमित्तम् नृप विक्रमन्तः । तत् कार्मुकम् संहनन-उपपन्नम्; सज्यम् न शेकुः तरसा अपि कर्तुम् ॥१५॥
tatas tu te rāja-gaṇāḥ krameṇa; kṛṣṇā-nimittam nṛpa vikramantaḥ . tat kārmukam saṃhanana-upapannam; sajyam na śekuḥ tarasā api kartum ..15..
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः । विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ॥१६॥
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणाः धनुषा नरेन्द्राः । विचेष्टमाना धरणी-तल-स्था; दीनाः अदृश्यन्त विभग्न-चित्ताः ॥१६॥
te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇāḥ dhanuṣā narendrāḥ . viceṣṭamānā dharaṇī-tala-sthā; dīnāḥ adṛśyanta vibhagna-cittāḥ ..16..
हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च । कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ॥१७॥
हाहाकृतम् तत् धनुषा दृढेन; निष्पिष्ट-भग्न-अङ्गद-कुण्डलम् च । कृष्णा-निमित्तम् विनिवृत्त-भावम्; राज्ञाम् तदा मण्डलम् आर्तम् आसीत् ॥१७॥
hāhākṛtam tat dhanuṣā dṛḍhena; niṣpiṣṭa-bhagna-aṅgada-kuṇḍalam ca . kṛṣṇā-nimittam vinivṛtta-bhāvam; rājñām tadā maṇḍalam ārtam āsīt ..17..
तस्मिंस्तु सम्भ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु । कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ॥१८॥ 1.186.29
तस्मिन् तु सम्भ्रान्त-जने समाजे; निक्षिप्त-वादेषु नराधिपेषु । कुन्ती-सुतः जिष्णुः इयेष कर्तुम्; सज्यम् धनुः तत् स शरम् स वीरः ॥१८॥ १।१८६।२९
tasmin tu sambhrānta-jane samāje; nikṣipta-vādeṣu narādhipeṣu . kuntī-sutaḥ jiṣṇuḥ iyeṣa kartum; sajyam dhanuḥ tat sa śaram sa vīraḥ ..18.. 1.186.29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In