| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि । अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥१॥
यदा निवृत्ताः राजानः धनुषः सज्य-कर्मणि । अथ उदतिष्ठत् विप्राणाम् मध्यात् जिष्णुः उदार-धीः ॥१॥
yadā nivṛttāḥ rājānaḥ dhanuṣaḥ sajya-karmaṇi . atha udatiṣṭhat viprāṇām madhyāt jiṣṇuḥ udāra-dhīḥ ..1..
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च । दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥२॥
उदक्रोशन् विप्र-मुख्याः विधुन्वन्तः अजिनानि च । दृष्ट्वा सम्प्रस्थितम् पार्थम् इन्द्रकेतु-सम-प्रभम् ॥२॥
udakrośan vipra-mukhyāḥ vidhunvantaḥ ajināni ca . dṛṣṭvā samprasthitam pārtham indraketu-sama-prabham ..2..
केचिदासन्विमनसः केचिदासन्मुदा युताः । आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥३॥
केचिद् आसन् विमनसः केचिद् आसन् मुदा युताः । आहुः परस्परम् केचिद् निपुणाः बुद्धि-जीविनः ॥३॥
kecid āsan vimanasaḥ kecid āsan mudā yutāḥ . āhuḥ parasparam kecid nipuṇāḥ buddhi-jīvinaḥ ..3..
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः । नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥४॥
यत् कर्ण-शल्य-प्रमुखैः पार्थिवैः लोक-विश्रुतैः । न आनतम् बलवद्भिः हि धनुर्वेद-परायणैः ॥४॥
yat karṇa-śalya-pramukhaiḥ pārthivaiḥ loka-viśrutaiḥ . na ānatam balavadbhiḥ hi dhanurveda-parāyaṇaiḥ ..4..
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा । बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥५॥
तत् कथम् तु अ कृतास्त्रेण प्राणतः दुस् बलीयसा । बटु-मात्रेण शक्यम् हि सज्यम् कर्तुम् धनुः द्विजाः ॥५॥
tat katham tu a kṛtāstreṇa prāṇataḥ dus balīyasā . baṭu-mātreṇa śakyam hi sajyam kartum dhanuḥ dvijāḥ ..5..
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु । कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥६॥
अवहास्याः भविष्यन्ति ब्राह्मणाः सर्व-राजसु । कर्मणि अस्मिन् असंसिद्धे चापलात् अपरीक्षिते ॥६॥
avahāsyāḥ bhaviṣyanti brāhmaṇāḥ sarva-rājasu . karmaṇi asmin asaṃsiddhe cāpalāt aparīkṣite ..6..
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् । प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥७॥
यदि एष दर्पात् हर्षात् वा यदि वा ब्रह्मचापलात् । प्रस्थितः धनुः आयन्तुम् वार्यताम् साधु मा गमत् ॥७॥
yadi eṣa darpāt harṣāt vā yadi vā brahmacāpalāt . prasthitaḥ dhanuḥ āyantum vāryatām sādhu mā gamat ..7..
नावहास्या भविष्यामो न च लाघवमास्थिताः । न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥८॥
न अवहास्याः भविष्यामः न च लाघवम् आस्थिताः । न च विद्विष्टताम् लोके गमिष्यामः महीक्षिताम् ॥८॥
na avahāsyāḥ bhaviṣyāmaḥ na ca lāghavam āsthitāḥ . na ca vidviṣṭatām loke gamiṣyāmaḥ mahīkṣitām ..8..
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः । पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥९॥
केचिद् आहुः युवा श्रीमान् नाग-राज-कर-उपमः । पीन-स्कन्ध-ऊरु-बाहुः च धैर्येण हिमवान् इव ॥९॥
kecid āhuḥ yuvā śrīmān nāga-rāja-kara-upamaḥ . pīna-skandha-ūru-bāhuḥ ca dhairyeṇa himavān iva ..9..
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते । शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥१०॥
सम्भाव्यम् अस्मिन् कर्म इदम् उत्साहात् च अनुमीयते । शक्तिः अस्य महा-उत्साहा न हि अशक्तः स्वयम् व्रजेत् ॥१०॥
sambhāvyam asmin karma idam utsāhāt ca anumīyate . śaktiḥ asya mahā-utsāhā na hi aśaktaḥ svayam vrajet ..10..
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् । ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥११॥
न च तत् विद्यते किञ्चिद् कर्म लोकेषु यत् भवेत् । ब्राह्मणानाम् असाध्यम् च त्रिषु संस्थान-चारिषु ॥११॥
na ca tat vidyate kiñcid karma lokeṣu yat bhavet . brāhmaṇānām asādhyam ca triṣu saṃsthāna-cāriṣu ..11..
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः । दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥१२॥
अब्भक्षाः वायुभक्षाः च फलाहाराः दृढ-व्रताः । दुर्बलाः हि बलीयांसः विप्राः हि ब्रह्म-तेजसा ॥१२॥
abbhakṣāḥ vāyubhakṣāḥ ca phalāhārāḥ dṛḍha-vratāḥ . durbalāḥ hi balīyāṃsaḥ viprāḥ hi brahma-tejasā ..12..
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् । सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥१३॥
ब्राह्मणः न अवमन्तव्यः सत् वा असत् वा समाचरन् । सुखम् दुःखम् महत् ह्रस्वम् कर्म यत् समुपागतम् ॥१३॥
brāhmaṇaḥ na avamantavyaḥ sat vā asat vā samācaran . sukham duḥkham mahat hrasvam karma yat samupāgatam ..13..
एवं तेषां विलपतां विप्राणां विविधा गिरः । अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥१४॥
एवम् तेषाम् विलपताम् विप्राणाम् विविधाः गिरः । अर्जुनः धनुषः अभ्याशे तस्थौ गिरिः इव अचलः ॥१४॥
evam teṣām vilapatām viprāṇām vividhāḥ giraḥ . arjunaḥ dhanuṣaḥ abhyāśe tasthau giriḥ iva acalaḥ ..14..
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् । प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ॥१५॥
स तत् धनुः परिक्रम्य प्रदक्षिणम् अथ अकरोत् । प्रणम्य शिरसा हृष्टः जगृहे च परन्तपः ॥१५॥
sa tat dhanuḥ parikramya pradakṣiṇam atha akarot . praṇamya śirasā hṛṣṭaḥ jagṛhe ca parantapaḥ ..15..
सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान् । विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ॥१६॥
सज्यम् च चक्रे निमिष-अन्तरेण; शरान् च जग्राह दशार्ध-सङ्ख्यान् । विव्याध लक्ष्यम् निपपात तत् च; छिद्रेण भूमौ सहसा अतिविद्धम् ॥१६॥
sajyam ca cakre nimiṣa-antareṇa; śarān ca jagrāha daśārdha-saṅkhyān . vivyādha lakṣyam nipapāta tat ca; chidreṇa bhūmau sahasā atividdham ..16..
ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः । पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥१७॥
ततस् अन्तरिक्षे च बभूव नादः; समाज-मध्ये च महान् निनादः । पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषताम् निहन्तुः ॥१७॥
tatas antarikṣe ca babhūva nādaḥ; samāja-madhye ca mahān ninādaḥ . puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatām nihantuḥ ..17..
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः । न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥१८॥
चेल-आवेधान् ततस् चक्रुः हाहाकारान् च सर्वशस् । न्यपतन् च अत्र नभसः समन्तात् पुष्प-वृष्टयः ॥१८॥
cela-āvedhān tatas cakruḥ hāhākārān ca sarvaśas . nyapatan ca atra nabhasaḥ samantāt puṣpa-vṛṣṭayaḥ ..18..
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् । सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ॥१९॥
शत-अङ्गानि च तूर्याणि वादकाः च अपि अवादयन् । सूत-मागध-सङ्घाः च अस्तुवन् तत्र सुस्वनाः ॥१९॥
śata-aṅgāni ca tūryāṇi vādakāḥ ca api avādayan . sūta-māgadha-saṅghāḥ ca astuvan tatra susvanāḥ ..19..
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः । सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥२०॥
तम् दृष्ट्वा द्रुपदः प्रीतः बभूव अरि-निषूदनः । सह सैन्यः च पार्थस्य साहाय्य-अर्थम् इयेष सः ॥२०॥
tam dṛṣṭvā drupadaḥ prītaḥ babhūva ari-niṣūdanaḥ . saha sainyaḥ ca pārthasya sāhāyya-artham iyeṣa saḥ ..20..
तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः । आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥२१॥
तस्मिन् तु शब्दे महति प्रवृत्ते; युधिष्ठिरः धर्म-भृताम् वरिष्ठः । आवासम् एव उपजगाम शीघ्रम्; सार्धम् यमाभ्याम् पुरुषोत्तमाभ्याम् ॥२१॥
tasmin tu śabde mahati pravṛtte; yudhiṣṭhiraḥ dharma-bhṛtām variṣṭhaḥ . āvāsam eva upajagāma śīghram; sārdham yamābhyām puruṣottamābhyām ..21..
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य । आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ॥२२॥
विद्धम् तु लक्ष्यम् प्रसमीक्ष्य कृष्णा; पार्थम् च शक्र-प्रतिमम् निरीक्ष्य । आदाय शुक्लम् वर-माल्य-दाम; जगाम कुन्ती-सुतम् उत्स्मयन्ती ॥२२॥
viddham tu lakṣyam prasamīkṣya kṛṣṇā; pārtham ca śakra-pratimam nirīkṣya . ādāya śuklam vara-mālya-dāma; jagāma kuntī-sutam utsmayantī ..22..
स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः । रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ॥२३॥ 1.187.28
स ताम् उपादाय विजित्य रङ्गे; द्विजातिभिः तैः अभिपूज्यमानः । रङ्गात् निरक्रामत् अचिन्त्य-कर्मा; पत्न्या तया च अपि अनुगम्यमानः ॥२३॥ १।१८७।२८
sa tām upādāya vijitya raṅge; dvijātibhiḥ taiḥ abhipūjyamānaḥ . raṅgāt nirakrāmat acintya-karmā; patnyā tayā ca api anugamyamānaḥ ..23.. 1.187.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In